०४

चतुर्थः पादः ॥
श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानामपि शब्दानां सामस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन् पादे ।
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥1॥
‘तत्तु समन्वयात्’ इति सर्वशब्दानां परमेश्वरे समन्वय उक्तः । तन्न युज्यते । यतो ‘अव्यक्तात् पुरुषः परः’ इति
साङ्ख्यानुमानपरिकल्पितप्रधानमप्येकेषां शाखिनामुच्यत इति चेन्न तस्यैव पारतन्त्र्याच्छरीररूपकेव्यक्ते विन्यस्तस्य परमात्मन
एवाव्यक्तशब्देन गृहीतेः । कप्रत्ययः कुत्सने । परमात्मन एवाव्यक्तशब्दः । तत्तन्त्रत्वेन तच्छरीररूपत्वादितरस्याप्यव्यक्तशब्दः ।
‘तुच्छेनाभ्वपिहितं यदासीत्’ इति दर्शयति च ।
‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् । यो वेद हरिमात्मानं स भयादनुमुच्यते ॥’ इति पिप्पलादशाखायाम् ।
‘अक्षरं ब्रह्म परमम्’ इत्युक्त्वा ‘अव्यक्तोक्षर इत्युक्तः’ इति वचनाच्च ॥1॥
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥2॥
सूक्ष्ममेवाव्यक्तशब्देनोच्यते । तद्धि अव्यक्ततामर्हति । सूक्ष्मत्वं च मुख्यं तस्यैव ।
यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति । यत्तल्लोका न विदुर्लोकसारं विन्दन्त्येतत्कवयो योगनिष्ठाः ॥
इति च पिप्पलादशाखायाम् । मुख्ये च विद्यमाने नामुख्ये युक्तम् ॥2॥
ॐ तदधीनत्वादर्थवत् ॐ ॥3॥
तदधीनत्वाच्चाव्यक्तत्वादीनां तस्यैवाव्यक्तत्वपरावरत्वादिकमर्थवत् ।
यदधीनो गुणो यस्य तद्गुणी सोभिधीयते । यथा जीवः परात्मेति यथा राजा जयीत्यपि ॥ इति च स्कान्दे ॥3॥
ॐ ज्ञेयत्वावचनाच्च ॐ ॥4॥
अन्यस्य न वाच्यत्वं युज्यते ॥4॥
ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥5॥
‘महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’ इति ज्ञेयत्वं वदतीति चेन्न । प्राज्ञः परमात्मा हि तत्रोच्यते । ‘अणोरणीयान् महतो महीयान्’
इति तस्यैव हि महतो महत्वम् । सर्वस्मात् परस्य महतोपि परत्वं युज्यते ॥5॥
ॐ प्रकरणात् ॐ ॥6॥
‘सोध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ इति तस्य ह्येतत्प्रकरणम् ॥6॥
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥7॥
त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां प्रश्न उपन्यासश्च । ‘अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते’ इति वचनान्न विरोधः ॥7॥
ॐ महद्वच्च ॐ ॥8॥
यथा महच्छब्दो महत्तत्वे प्रसिद्धोपि परममहत्त्वात् परमात्मन एव मुख्य एवमितरेपि ॥8॥
ॐ चमसवदविशेषात् ॐ ॥9॥
यथा चमसशब्दोन्यत्र प्रसिद्धोपि ‘इदं तच्छिर एष ह्यर्वाग्बलिश्चमस ऊर्ध्वबुध्नः’ इति श्रुतेः शिरोवाचकः एवमव्यक्तादिशब्दाः सर्वेन्यत्र प्रसिद्धा
अपि ‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ इत्यादि श्रुतेः परमात्माभिधायका एव । अविशेषाच्छ्रुतेः ॥9॥
॥ इति आनुमानिकाधिकरणम् ॥1॥
‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादि कर्माभिधायकस्य क्रमादिविरोधान्न युज्यत इत्यत आह-
ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ॥10॥
ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोपि स एव । ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रम्य ‘ता वा एताः सर्वा ऋचः सर्वे वेदास्सर्वे घोषाः
एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्’ इति ह्यधीयत एके ॥10॥
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥11॥
मधुविद्यादिवत् सर्वशब्दार्थत्वेन परस्य कल्पनोपदेशाच्च न कर्मक्रमादिविरोधः ॥11॥
॥ इति ज्योतिरुपक्रमाधिकरणम् ॥2॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥12॥
‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः’ इत्यादिषु बहुसङ्ख्योपसङ्ग्रहेपि न विरोधः । तस्यैवाकाशादिषु नानाभावात्
तदतिरिक्तस्वरूपत्वाच्च ॥12॥
पञ्चपञ्चजनानाह-
ॐ प्राणादयो वाक्यशेषात् ॐ ॥13॥
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनः’ इति वाक्यशेषात् ॥13॥
ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥14॥
‘तद्देवा ज्योतिषां ज्योतिः’ इत्यनेन काण्वानां पञ्चकम् ॥14॥
॥ इति नसङ्ख्योपसङ्ग्रहाधिकरणम् ॥3॥
अवान्तरकारणत्वेनापि स एवोच्यत इति वक्ति-
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥15॥
आकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । यथाव्यपदिष्टस्यैव परस्य ‘य आकाशे तिष्ठन्’ इत्यादिना आकाशादिषूक्तेः ॥15॥
॥ इति आकाशाधिकरणम् ।।4।।
सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इत्यतो ब्रवीति-
ॐ समाकर्षात् ॐ ।।16।।
परमात्मवाचिनः शब्दा अन्यत्र समाकृष्य व्यवह्रियन्ते ।
परस्य वाचकाश्शब्दा समाकृष्येतरेष्वपि । व्यवह्रियन्ते सततं लोकवेदानुसारतः ।। इति पाद्मे ।।16।।
तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः-
ॐ जगद्वाचित्वात् ॐ ।।17।।
जगति व्यवहारो लोकस्य । न तु परमात्मनि तथा । अतो जगति प्रसिद्धिः शब्दानाम् ।।17।।
ॐ जीवमुख्यप्राणलिङ्गादिति चेत् तद्-व्याख्यातम् ॐ ।।18।।
तदधीनत्वात् तच्छब्दवाच्यत्वमित्युक्तम् । तज्जीवमुख्यप्राणयोर्लिङ्गम् । ‘अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति’ ‘वायुना वा लोका
नेनीयन्ते’ इत्यादिश्रुतिभ्य इति चेन्न । उपासात्रैविध्यादिति व्याख्यातत्वात् ।।18।।
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ।।19।।
परमात्मज्ञानार्थं कर्मादिकमपि वदतीति जैमिनिः । ‘कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । तस्मै स होवाच द्वे विद्ये वेदितव्ये’
‘कथं नु भगवः स आदेशो भवतीति । यथा सोम्यैकेन मृत्पिण्डेन’ इत्यादिप्रश्नव्याख्यानाभ्याम् । एवमपि चैके पठन्ति ‘यस्तन्न वेद किमृचा
करिष्यति’ इति ।।19।।
ॐ वाक्यान्वयात् ॐ ।।20।।
वाक्यस्याप्येवमन्वयो युज्यते पृथक् पृथक् स्थितस्यापि परमात्मना ।।20।।
ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ।।21।।
‘नान्यः पन्थाः अयनाय विद्यते’ इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यत इत्याश्मरथ्यः । यस्मादेवमनित्यफलमन्यत् तस्मान्नान्यः पन्था इति
।।21।।
ॐ उत्क्रमिष्यतः एवं भावादित्यौडुलोमिः ॐ ।।22।।
उत्क्रमिष्यतो मुमुक्षोः कर्मादिना भाव्यं साधनसाधनत्वेन । अतस्तद्-व्यक्तीत्यौडुलोमिः मन्यते ।।22।।
ॐ अवस्थितेरिति काशकृत्स्नः ॐ ।।23।।
सर्वं परमात्मन्यवस्थितमिति वक्तुं तद्वचनमिति काशकृत्स्नः ।
कृष्णद्वैपायनमतादेकदेशविदः परे । वदन्ति ते यथाप्रज्ञं न विरोधः कथञ्चन ।। इति पाद्मे ।।23।।
।। इति समाकर्षाधिकरणम् ।।5।।
स्त्रीशब्दा अपि तस्मिन्नेवेत्याह-
ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ।।24।।
‘हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा नद्यस्स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्त्येवमेवैतानि नामानि सर्वाणि
पुरुषमभिविशन्ति’ इति प्रतिज्ञादृष्टान्तानुपरोधात् प्रकृतिशब्दवाच्योपि स एव ।।24।।
ॐ अभिध्योपदेशाच्च ॐ ।।25।।
‘मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् ।’
‘महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते ।।’ इति वचनात् तदभिध्यैव प्रकृतिशब्देनोच्यते ।
‘सोभिध्या स जूतिः स प्रज्ञा स आनन्दः’ इति श्रुतिरभिध्या च स्वरूपमेव ।
‘ध्यायति ध्यानरूपोसौ सुखी सुखमतीव च । परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते ।।’ इति ब्रह्माण्डे ।।25।।
ॐ साक्षाच्चोभयाम्नानात् ॐ ।।26।।
‘एष स्त्र्येष पुरुष एष प्रकृतिरेष आत्मैष ब्रह्मैष लोक एष आलोको योसौ हरिरादिरनादिरनन्तोन्तः परमः परात् विश्वरूपः’ इति पैङ्गिश्रुतौ
साक्षादेव प्रकृतिपुरुषत्वाम्नानात् ।।26।।
ॐ आत्मकृतेः परिणामात् ॐ ।।27।।
प्रकर्षेण करोतीति प्रकृतिरिति योगाच्च । प्रकृतावनुप्रविश्य तां परिणाम्य तत्परिणामकत्वेन तत्र स्थित्वात्मनो बहुधाकरणात् । ‘अथ हैष आत्मा
प्रकृतिमनुप्रविश्यात्मानं बहुधा चकार । तस्मात् प्रकृतिस्तस्मात् प्रकृतिरित्याचक्षते’ इति भाल्लवेयश्रुतिः ।
अविकारोपि परमः प्रकृतिं तु विकारिणीम् । अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते ।। इति नारदीये ।।
न चान्यत् कल्प्यम् । अप्रामाणिकत्वात् ।।27।।
ॐ योनिश्च हि गीयते ॐ ।।28।।
अव्यवधानेनोत्पत्तिद्वारत्वं प्रकृतित्वम् । तच्चास्यैव गीयते-
‘यद्भूतयोनिं परिपश्यन्ति धीरा’ इति ।
व्यवधानेन सूतिस्तु पुंस्त्वं विद्वद्भिरुच्यते । सूतिरव्यवधानेन प्रकृतित्वमिति स्थितिः ।।
उभयात्मकसूतित्वात् वासुदेवः परः पुमान् । प्रकृतिः पुरुषश्चेति शब्दैरेकोभिधीयते ।। इति ब्रह्माण्डे ।।28।।
।। इति प्रकृत्यधिकरणम् ।।6।।
ॐ एतेन सर्वे व्याख्याताः व्याख्याताः ॐ ।।29।।
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः । ‘एष ह्येव शून्य एष ह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोदृश्योचिन्त्यो निर्गुणश्च’ इति
महोपनिषदि ।
शमूनं कुरुते विष्णुरदृश्यः सन्परः स्वयम् । तस्माच्छून्यमिति प्रोक्तस्तोदनात् तुच्छ उच्यते ।।
नैष भावयितुं योग्यः केनचित् पुरुषोत्तमः । अतोभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ।।
सर्वस्य तदधीनत्वात् तत्तच्छब्दाभिधेयता । अन्येषां व्यवहारार्थमिष्यते व्यवहर्तृभिः ।। इति महाकौर्मे ।
एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः । द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये ।। इति वराहसंहितायाम् ।।
।। एतेन सर्वेव्याख्याताधिकरणम् ।।7।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्यः चतुर्थः पादः ।।