०३

तृतीयः पादः ॥
तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन् पादे दर्शयति । विष्णोः परविद्याविषयत्वमुक्तम् । तत्र ‘यस्मिन् द्यौः पृथिवी
चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैस्तमेवैकं जानथ आत्मानम्’ इत्यत्र ‘प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः’ ‘प्राणेश्वरः कृत्तिवासाः
पिनाकी’ इत्यादिना रुद्रस्य प्राणाधारत्वप्रतीतेः । ‘स एषोन्तश्चरते बहुधा जायमानः’ इति जीवलिङ्गाच्च तयोः प्राप्तिरित्यत उच्यते
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥1॥
‘तमेवैकं जानथ आत्मानम्’ इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवन्ति यस्मात् तैर्नैवाप्ता गुणपूर्णता ॥’ इति ब्रह्मवैवर्ते ॥1॥
ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥2॥
‘अमृतस्यैष सेतुः’ इति ‘ब्रह्मविदाप्नोति परम्’ ‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ ‘मुक्तानां परमा गतिः’
‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।
‘बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तस्स्यादेष शास्त्रस्य निर्णयः ॥’ इत्यादित्यपुराणे ॥2॥
ॐ नानुमानमतच्छब्दात् ॐ ॥3॥
नानुमानात्मकागमपरिकल्पितरुद्रोत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् । ‘सोन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो
हरिर्योनन्तो यो विष्णुर्यः परः परोवरीयान्’ इत्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् । ब्रह्माण्डे च-
रुजं द्रावयते यस्मात् रुद्रस्तस्मात् जनार्दनः । ईशनादेव चेशानो महादेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्तास्संसारसागरात् । तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः । कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् । बृंहणात् ब्रह्मनामासावैश्वर्यादिन्द्र उच्यते ॥
एवं नानाविधैश्शब्दैरेक एव त्रिविक्रमः । वेदेषु सपुराणेषु गीयते पुरुषोत्तमः ॥ इति ।
वामने च- न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । अन्यनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः ॥ इति ॥
स्कान्दे च- ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति ।
चतुर्मुखश्शतानन्दो ब्रह्मणः पद्मभूरिति । उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ॥
विशेषनामानि ददौ स्वकीयान्यपि केशवः ॥ इति च ब्राह्मे ॥3॥
ॐ प्राणभृच्च ॐ ॥4॥
एतैरेव हेतुभिर्न जीवो वायुश्च । ‘अजायमानो बहुधा विजायते’ इति तस्यैव बहुधा जन्मोक्तेः ॥4॥
ॐ भेदव्यपदेशात् ॐ ॥5॥
न चैक्यं वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ इति भेदव्यपदेशात् ॥5॥
ॐ प्रकरणात् ॐ ॥6॥
‘द्वे विद्ये वेदितव्ये’ इति तस्य ह्येतत्प्रकरणम् ॥6॥
ॐ स्थित्यदनाभ्यां च ॐ ॥7॥
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥’ इति ईशजीवयोः
स्थित्यदनोक्तेः ॥7॥
॥ इति द्युभ्वाधिकरणम् ॥1॥
‘प्राणो वा आशाया भूयान्’ इत्युक्त्वा ‘यो वै भूमा तत्सुखम्’ इत्युक्तेस्तस्यैव भूमत्वप्राप्तिः । ‘उत्क्रान्तप्राणान्’ इत्यादिलिङ्गात् प्राणशब्दस्य
वायुवाचीत्यतो वक्ति-
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥8॥
‘सम्प्रसादात्’ पूर्णसुखरूपत्वात् । ‘अध्युपदेशात्’ सर्वेषामुपर्युपदेशाच्च विष्णुरेव भूमा ।
‘सहस्रशीर्षं? देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् । विश्वतः परमां नित्यम् ।’ इति हि श्रुतिः । ‘तमुत्क्रामन्तं
प्राणोनूत्क्रामति’ इत्यादिना नोत्क्रमणादिलिङ्गविरोधोपि ॥8॥
ॐ धर्मोपपत्तेश्च ॐ ॥9॥
सर्वगतत्वादिधर्मोपपत्तेश्च ॥9॥
॥ इति भूमाधिकरणम् ॥2॥
अदृश्यत्वादिगुणा विष्णोरुक्ताः अदृष्टं द्रष्ट्रश्रुतं श्रोतृ इत्यादिना । ‘अहं सोममाहनसं बिभर्मि’ इत्यादेस्तस्यापि सम्भवात् मध्यमाक्षरस्योक्ता
इत्यतो वक्ति-
ॐ अक्षरमम्बरान्तधृतेः ॐ ॥10॥
‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यम्बरान्तस्य सर्वस्य धृतेबर्रह्मैवाक्षरम् । ‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि
विश्वा’ ‘भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । परास्य भारं पुनरस्तमेति ।’ ‘यस्मिन्निदं सञ्च वि
चैधि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादिश्रुतेः ।
पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् । विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ ।। इति च स्कान्दे ।।10।।
ॐ सा च प्रशासनात् ॐ ।।11।।
सा च धृतिः प्रशासनादुच्यते । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना । तच्च प्रशासनं विष्णोरेव ।
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत् ।। इत्यादिश्रुतेः ।
‘एकः शास्ता न द्वितीयोस्ति शास्ता’ ‘यो हृच्छयस्तमहमिह ब्रवीमि’ ‘न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम्’ इत्यादेश्च ।।11।।
ॐ अन्यभावव्यावृत्तेश्च ॐ ।।12।।
‘अस्थूलमनणु’ इत्यादिना स्थूलाण्वादिनामन्यवस्तुस्वभावानां व्यावृत्तेश्च । ‘अस्थूलोनणुरमध्यमो मध्यमोव्यापको व्यापको योसौ
हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’ इत्यादेर्विष्णोरेव ते धर्माः ।
‘अस्थूलोनणुरूपोसावविश्वो विश्व एव च । विरुद्धधर्मरूपोसावैश्वर्यात् पुरुषोत्तमः ।।’ इति च ब्राह्मे ।।12।।
।। इति अक्षराधिकरणम् ।।3।।
‘सदेव सोम्येदमग्र आसीत्’ इत्यादिना सतः स्रष्टृत्वमुच्यते । तच्च सत् ‘बहु स्यां प्रजायेयं’ इति परिणामप्रतीतेर्न विष्णुः । स हि
‘अविकारस्सदा शुद्धो नित्य आत्मा सदा हरिः’ इत्यादिनाविकारः प्रसिद्ध इत्यतो ब्रवीति-
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ।।13।।
‘तदैक्षत’ इतीक्षतिकर्मव्यपदेशात् स एव विष्णुरत्रोच्यते । ‘नान्योतोस्ति द्रष्टा’ ‘नान्यदतोस्ति द्रष्टु’ इत्यादिना तस्यैव हि तल्लक्षणम् । बहुत्वं
चाविकारेणैवोक्तं ‘अजायमानो बहुधा विजायते’ इति ।।13।।
।। इति सदधिकरणम् ।।4।।
चन्द्रादित्याध्याधारत्वं विष्णोरुक्तम् । तच्च ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोस्मिन्नन्तर आकाशः’ ‘किं तदत्र विद्यते’
‘उभे अस्मिन् द्यावा पृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि’ इत्यादिनाकाशस्य प्रतीयते । स
चाकाशो न विष्णुः । ‘तस्यान्ते सुषिरं? सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ इति श्रुतेरित्यत आह-
ॐ दहर उत्तरेभ्यः ॐ ।।14।।
‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोविजिघत्सोपिपासः सत्यकामस्सत्यसङ्कल्पः सोन्वेष्टव्यः स विजिज्ञासितव्यः’ इत्यादिभ्यः उत्तरेभ्यो
गुणेभ्यो दहरे विष्णुरेव । ‘योशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ ‘स एष सर्वेभ्यः पाप्मभ्यः उदितः’ इत्यादिना विष्णोरेव हि ते गुणाः ।
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः । अशनायादिकानन्ये तत्प्रसादात् तरन्ति हि ।।’ इति पाद्मे । सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम्

‘सत्यकामोपरे नास्ति तमृते विष्णुमव्ययम् । सत्यकामत्वमन्येषां भवेत् तत्काम्यकामिता ।।’ इति च स्कान्दे ।।14।।
ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ।।15।।
‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति सुप्तस्य तद्गतिबर्रह्मशब्दश्चोच्यते । ‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेस्तं हि सुप्तो
गच्छति । ‘अरश्च ण्यश्चार्णवौ ब्रह्मलोके’ इति लिङ्गं च तथा दृष्टम् । ‘अरश्च वै ण्यश्च सुधासमुद्रौ तत्रैव सर्वाभिमतप्रदो द्वौ’ इत्यादिना तस्यैव हि
तल्लक्षणत्वेनोच्यते ।।15।।
ॐ धृतेश्च महिम्नोस्यास्मिन्नुपलब्धेः ॐ ।।16।।
‘एष सेतुर्विधृतिः’ इति धृतेः ‘एष भूताधिपतिरेष भूतपाल’ इत्याद्यस्य महिम्नोस्मिन्नुपलब्धेः । ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’
‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ ‘स हि सर्वाधिपतिः स हि सर्वपालः स ईशः स विष्णुः’ ‘पतिं विश्वस्यात्मेश्वरम्’ इत्यादिश्रुतिभ्यस्तस्य ह्येष
महिमा । ‘सर्वेशो विष्णुरेवैको नान्योस्ति जगतः पतिः’ इति स्कान्दे ।।16।।
ॐ प्रसिद्धेश्च ॐ ।।17।।
‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्’ इति प्रसिद्धेश्च । तदन्तःस्थत्वापेक्षत्वान्न सुषिरश्रुतिविरोधः ।।17।।
ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ।।18।।
‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ ‘एष आत्मेति होवाच’ इति जीवपरामर्शात् स इति चेन्न । तस्य
स्वतोपहतपाप्मत्वाद्यसम्भवात् ।।18।।
ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ।।19।।
‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्याद्युत्तरवचनाज्जीव एवेति चेन्न । तत्र हि परमेश्वरप्रसादादाविर्भूतस्वरूपो मुक्त उच्यते ।
यत्प्रसादात् स मुक्तो भवति स भगवान् पूर्वोक्तः ।।19।।
ॐ अन्यार्थश्च परामर्शः ॐ ।।20।।
यं प्राप्य स्वेन रूपेण जीवोभिनिष्पद्यते स एष आत्मा इति परमात्मार्थश्च परामर्शः ।।20।।
ॐ अल्पश्रुतेरिति चेत् तदुक्तम् ॐ ।।21।।
‘दहर’ इत्यल्पश्रुतेर्नेति चेन्न । निचाय्यत्वादेवं व्योमवच्च इत्युक्तत्वात् । ‘एष म आत्मान्तर्हृदये ज्यायान्’ इति श्रुत्युक्तत्वाच्च ।।21।।
।। इति दहराधिकरणम् ।।5।।
अदृश्यत्वादयः परमेश्वरगुणा उक्ताः । ‘तेषां सुखं शाश्वतं नेतरेषाम्’ ‘तदेतदिति मन्यन्तेनिर्देश्यं परमं सुखम्’ इत्यादिना
ज्ञानिसुखस्याप्यनिर्देश्यत्वमज्ञेयत्वं चोच्यते इत्यतो वक्ति-
ॐ अनुकृतेस्तस्य च ॐ ।।22।।
‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुकृतेः ‘तस्य भासा सर्वमिदं विभाति’ इति वचनाच्च परमात्मैवानिर्देश्यसुखरूपः । न हि
ज्ञानिसुखमनुभाति सर्वम् । न च तद्भासा । ‘अहं तत्तेजो रश्मीन्’ इति नारायणभासा इति सर्वं भाति ।।22।।
ॐ अपि स्मर्यते ॐ ।।23।।
‘यदादित्यगतं तेजो जगद्भासयतेखलिम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।।’ इति ।
‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।।’ इति च ।।23।।
।। इति अनुकृत्यधिकरणम् ।।6।।
विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र
‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वेदेवा उपासते ।।’
इति सर्वदेवोपास्यः कश्चित् प्रतीयते । स च ‘एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते’ ‘योयं मध्यमः प्राणः’ ‘कुविदङ्ग’ इत्यादिना
प्राणव्यवस्थापकत्वात् मध्यमत्वात् सर्वदेवोपास्यत्वाच्च वायुरेवेति प्रतीयते । अतोब्रवीत्-
ॐ शब्दादेव प्रमितः ॐ ।।24।।
वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।
‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा । पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णयः ।।’ इति स्कान्दे ।
तच्च लिङ्गं विष्णोरेव । तस्यैव प्राणत्वोक्तेः ‘तद्वै त्वं प्राणो अभवः’ इति ।।24।।
ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ।।25।।
सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया युज्यते । इतरप्राणिनामङ्गुष्ठाभावेपि मनुष्याधिकारत्वान्न विरोधः ।।25।।
।। इति वामनाधिकरणम् ।।7।।
मनुष्याणामेव वेदविद्यायामधिकार इत्युक्तम् । तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं न तु देवाद्यपेक्षयेत्याह-
ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ।।26।।
तदुपरि मनुष्याणां सतां देवादित्वप्राप्त्युपरि । सम्भवति हि तेषां विशिष्टबुद्ध्यादिभावात् । तिर्यगादीनां तदभावादभावः । तेषामपि यत्र
विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेधाभावात् । दृश्यन्ते हि जरितार्यादयः ।।26।।
ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ ।।27।।
मानुषा एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावात् देवतोद्दिष्टकर्मणि विरोध इति
चेन्न । अनेकेषां देवतापदप्राप्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या सन्ति देवाः’ इति ।।27।।
ॐ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॐ ।।28।।
‘वाचा विरूप नित्यया’ इत्यादिश्रुतेराप्त्यनिश्चयात् नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य स्वतः प्रामाण्यप्रसिद्धेश्च नित्यत्वात् वेदस्य तदुदितानां
देवानामनित्यत्वात् पुनरन्यभावनियमाभावाच्च शब्दे विरोध इति चेन्न । ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’
‘यथैव नियमः काले सुरादिनियमस्तथा । तस्मान्नानीदृशं क्वापि विश्वमेतद्भविष्यति ।।’
इत्यादेरत एव शब्दात् तेषां प्रभवनियमात् महतां प्रत्यक्षात् । यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनुमानाच्च ।।28।।
ॐ अत एव च नित्यत्वम् ॐ ।।29।।
अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ।।29।।
ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॐ ।।30।।
अतीतानागतानां देवानां समाननामरूपत्वात् प्राप्तपदानां मुक्त्यावृत्तावप्यविरोधः । ‘यथापूर्वम्’ इति दर्शनात् ।
‘अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा । ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ।।’ इति स्मृतेश्च ।।30।।
ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ।।31।।
‘वसूनामेवैको भूत्वा’ इत्यादिना प्राप्यफलत्वात् प्राप्तपदानां देवानां मध्वादिविद्यास्वनधिकारं जैमिनिर्मन्यते ।।31।।
ॐ ज्योतिषि भावाच्च ॐ ।।32।।
ज्योतिषि सर्वज्ञत्वे भावाच्च । आदित्यप्रकाशेन्तर्भाववत् तज्ज्ञाने सर्ववस्तूनामन्तर्भावात् । नित्यसिद्धत्वाच्च विद्यानाम् ।।32।।
ॐ भावं तु बादरायणोस्ति हि ॐ ।।33।।
फलविशेषभावात् प्राप्तपदानामपि देवानां मध्वादिष्वप्यधिकारं बादरायणो मन्यते । अस्ति हि प्रकाशविशेषः ।
यावत् सेवा परे तत्त्वे तावत् सुखविशेषता । सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ।।
तेषां सामर्थ्ययोगाच्च देवानामप्युपासनम् । सर्वं विधीयते नित्यं सर्वयज्ञादिकर्म च ।। इति स्कान्दे ।
उक्तफलानधिकारमात्रं जैमिनिमतम् । अतो न मतविरोधः ।
सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् । स्वीकृत्य मुनयो ब्रूयुस्तन्मतं न विरुध्यते ।। इति ब्राह्मे ।।33।।
।। इति देवताधिकरणम् ।।
मनुष्याधिकारत्वादित्युक्तेविशेषाच्छूद्रस्यापि ‘अप्यह हारेत्वा शूद्र’ इति पौत्रायणोक्तेरधिकार इत्यत आह-
ॐ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॐ ।।34।।
नासौ पौत्रायणश्शूद्रः । शुचाद्रवणमेव शूद्रत्वम् । ‘कम्बर एनमेतत्सन्तम्’ इत्यनादरश्रवणात् । ‘स ह सञ्जिहान एव क्षत्तारमुवाच’ इति सूच्यते
हि ।।34।।
ॐ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ।।35।।
अयमश्वतरीरथ इति चित्ररथसम्बन्धित्वेन लिङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च । ‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते’ इति ब्राह्मे । ‘यत्र
वेदो रथस्तत्र न वेदो यत्र नो रथः’ इति ब्रह्मवैवर्ते ।।35।।
ॐ संस्कारपरामर्शात् तदभावाभलिापाच्च ॐ ।।36।।
‘अष्टवर्षं ब्राह्मणमुनयीत तमध्यपयीत’ इत्यध्ययनार्थं संस्कारपरामर्शात् । ‘नाग्निर्न यज्ञो न क्रिया न संस्कारो न व्रतानि शूद्रस्य’ इति पैङ्गिश्रुतौ
संस्काराभावाभलिापाच्च । उत्तमस्त्रीणां तु न शूद्रवत् । ‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् । संस्काराबावेनाभावस्तु सामान्येन ।
अस्ति च तासां संस्कारः । ‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा’ इति स्मृतेः ।।36।।
ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ।।37।।
‘नाहमेतद्वेद भो यद्गोत्रोहमस्मि’ इति सत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य ‘नैतदब्राह्मणो विवक्तुमर्हति’ इति
तत्संस्कारे प्रवृत्तेश्च ।।37।।
ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ।।38।।
‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जिह्वाच्छेदः । अर्थावधारणे हृदयविदारणम्’ इति प्रतिषेधात् ।
‘नाग्निर्न यज्ञश्शूद्रस्य तथैवाध्ययनं कुतः । केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते ।।’ इति स्मृतेश्च ।
विदुरादीनां तूत्पन्नज्ञानत्वात् कश्चित् विशेषः ।।38।।
।। इति अपशूद्राधिकरणम् ।।9।।
यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ।।
इत्युद्यतवज्रज्ञानान्मोक्षः श्रूयत इत्यतोब्रवीत् -
ॐ कम्पनात् ॐ ।।39।।
एजतीति कम्पनवचनादुद्यतवज्रो भगवानेव । ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ इति हि श्रुतिः । ‘प्राणस्य प्राणमुत
चक्षुषश्चक्षुः’ इति च ।
‘नभस्वतोपि सर्वा स्युश्चेष्टा भगवतो हरेः । किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः ।।’ इति स्कान्दे ।
चक्रं चङ्क्रमणादेष वर्जनात् वज्रमुच्यते । खण्डनात् खड्ग एवैष हेतिनामा स्वयं हरिः ।। इति ब्रह्मवैवर्ते ।।39।।
।। इति कम्पनाधिकरणम् ।।10।।
हृदय आहितं ज्योतिः परमात्मेत्युक्तम् । तत्र ‘योयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इत्यत्र ‘उभौ लोकावनुसञ्चरति’ इति वचनाज्जीव
इति प्रतीयते इत्यत उच्यते-
ॐ ज्योतिर्दर्शनात् ॐ ।।40।।
‘विष्णुरेव ज्योतिर्विष्णुरेव ब्रह्म विष्णुरेवात्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवानन्दः’ इति दर्शनाच्चतुर्वेदशिखायां ज्योतिर्विष्णुरेव ।
‘प्राज्ञेनात्मनान्वारूढ उत्सर्जद्याति’ इति वचनात् तस्यापि लोकसञ्चरणमस्त्येव ।।40।।
।। इति ज्योतिरधिकरणम् ।।11।।
सर्वाधारत्वं विष्णोरुक्तम् । तच्च ‘आकाशो वै नाम नामरूपयोर्निवहिता’ इत्यत्राकाशस्य प्रतीयते । वै नामेति प्रसिद्धोपदेशात् ।
प्रसिद्धाकाशश्चाङ्गीकर्तव्य इत्यत उच्यते-
ॐ आकाशोर्थान्तरत्वादिव्यपदेशात् ॐ ।।41।।
‘ते यदन्तरा तद् ब्रह्म’ इत्यर्थान्तरत्वादिव्यपदेशादाकाशो हरिरेव । ‘अवर्णं’ ‘यतो वाचो निवर्तन्ते’ इत्यादिश्रुतेस्तस्यैव हि तल्लक्षणम् ।
‘अनामा सोप्रसिद्धत्वादरूपो भूतवर्जनात्’ इति ब्राह्मे ।।41।।
।। इति आकाशाधिकरणम् ।।12।।
असङ्गत्वं परमात्मन उक्तम् । तच्च । ‘स यत्तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ इति स्वप्नादिद्रष्टुः प्रतीयते । स च जीवः
प्रसिद्धेरित्यतो वक्ति-
ॐ सुषुप्त्युत्क्रान्त्योर्भेर्देन ॐ ।।42।।
‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ ‘प्राज्ञेनात्मनान्वारूढ उत्सर्जद्याति’ इति भेदव्यपदेशान्न जीवः पर एवासङ्गः ।
स्वप्नादिद्रष्टुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ।।42।।
।। इति सुषुप्त्यधिकरणम् ।।13।।
‘एष नित्यो महिमा ब्राह्मणस्य’ इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः ‘स वा एष महानज आत्मा’ इत्यजशब्दात् विरिञ्च इति
प्राप्तम् । देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता तदुपर्यपीति । अतो ब्रवीति-
ॐ पत्यादिशब्देभ्यः ॐ ।।43।।
‘सर्वस्याधिपतिः सर्वस्येशानः …. स वा एष नेति नेति’ इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव । ‘उतामृतत्वस्येशानः । यदन्नेनातिरोहति’
‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ ‘स योतोश्रुत’ इत्यादि श्रुतिभ्यस्तस्यैव हि ते शब्दाः ।।43।।
।। इति ब्राह्मणाधिकरणम् ।।14।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ।।