०२

द्वितीयः पादः
लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन् पादे प्राधान्येन । ‘ब्रह्म ततमम्’ इति सर्वगतत्वमुक्तं विष्णोः । तच्च
‘तस्यैतस्यासावादित्यो रसः’ इत्यादिनादित्यस्य प्रतीयते इत्यतोब्रवीत्-
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥1॥
‘स यश्चायमशरीरः प्रज्ञात्मा’ इत्यादिना सर्वत्रोच्यमानो नारायण एव । ‘तदेव ब्रह्म परमं कवीनाम्’ ‘परमं यो महद्ब्रह्म’
‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् । स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः ॥’
इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥1॥
ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥2॥
‘स योतोश्रुत’ इत्यादि । स हि ‘न ते विष्णो जायमानः’ इत्यादिनाश्रुतत्वादिगुणकः । ‘सः सविता स वायुः स इन्द्रः सोश्रुतः सोदृष्टो यो हरिर्यः
परमो यो विष्णुर्योनन्तः’ इत्यादि चतुर्वेदशिखायाम् ॥2॥
ॐ अनुपपत्तेस्तु न शारीरः ॐ ॥3॥
एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥3॥
ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥4॥
‘आत्मानं परमै शंसति’ इत्यादि ॥4॥
ॐ शब्दविशेषात् ॐ ॥5॥
‘एतमेव ब्रह्मेत्याचक्षते’ इति । न हि जीवमेव ब्रह्मेत्याचक्षते । ‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति
परः परानन्दः’ इति चेन्द्रद्युम्नशाखायाम् ॥5॥
ॐ स्मृतेश्च ॐ ॥6॥
‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।’ ‘गामाविश्य च भूतानि धारयाम्यहमोजसा’ इत्यादि । न चाप्रामाणिकं कल्प्यम् ॥6॥
ॐ अर्भकौकस्त्वात् तद्-व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥7॥
सर्वेषु भूतेष्वित्यल्पौकस्त्वात् चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न । अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात्
। सर्वगतत्वेप्यल्पौकस्त्वं च युज्यते व्योमवत् ।
‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः । सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः ॥’ इति स्कान्दे ॥7॥
ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥8॥
जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति चेन्न । सामथ्यवैशेष्यात् । उक्तं च गारुडे-
‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः । स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः ॥’ इति च ॥8॥
॥ इति सर्वगतत्वाधिकरणम् ॥1॥
‘जन्माद्यस्य यतः’ इत्युक्तम् । तत्रातृत्वं ‘यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदितित्वम्’ इत्यदितेः प्रतीयते । ‘स
यद्यदेवासृजत’ इति पुल्लिङ्गं च ‘कूटस्थोक्षर उच्यते’ इत्यादिवत् । अत्रोच्यते-
ॐ अत्ता चराचरग्रहणात् ॐ ॥9॥
न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।
‘स्रष्टा पाता तथैवात्ता निखलिस्यैक एव तु । वासुदेवः परः पुंसामितरेल्पस्य वा न वा ॥’ इति स्कान्दे ।
‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेत्तु देवः ॥’ इति श्रुतिः ॥9॥
ॐ प्रकरणाच्च ॐ ॥10॥
अप्संवत्ससृष्ट्यादिना तत्प्रकरणाच्च ।
नेहासीत् किञ्चनाप्यादौ मृत्युरासीत् हरिस्तदा । सो त्मनो मनसास्राक्षीदप एव जनार्दनः ॥
शयानस्तासु भगवान्निर्ममेण्डं महत्तरम् । तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥
तमत्तुं व्याददादास्यं तदासौ विरुराव ह । अथ तं कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ॥
सोसृजत् भुवनं सर्वमद्यार्थं हरये विभुः ॥ इति ब्रह्मवैवर्ते ॥10॥
॥ इति अत्तृत्वाधिकरणम् ॥2॥
सर्वात्तैक पर उक्तः ।
‘ऋतं पिबन्तं सुकृतस्य लोके गुहां प्रविष्टो परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥’
इति पिबन्तौ प्रतीयेते । तौ काविति । उच्यते ।
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥11॥
गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव । ‘घर्मा समन्तात् त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम’ इत्यादिना तद्दर्शनात् ।
आत्मान्तरात्मेति हरिरेक एव द्विधा स्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मजम् ॥ इति बृहत्संहितायाम् ।
शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् । पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित् ॥ इति पाद्मे ।
‘यो वेद निहितं गुहायाम्’ इत्यादिना प्रसिद्धं हिशब्देन दर्शयति ॥11॥
ॐ विशेषणाच्च ॐ ॥12॥
‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’ इति ।
‘पृथग्वक्तुं गुणास्तस्य न शक्यन्तेमितत्वतः । यतोतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्मात् ब्रह्मशब्दोयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम् ॥’ इति पाद्मे ।
न च जीवे समन्वयोभिधीयते । ‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इति
भाल्लवेयश्रुतिः । ‘आत्मा हि परमस्स्वतन्त्रोधिगुणो जीवोल्पशक्तिरस्वातन्त्रोवर’ इति च भाल्लवेयश्रुतिः ।
यथेश्वरस्य जीवस्य भेदस्सत्यो विनिश्चयात् । एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि ॥
यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सह केशवाः ॥ इत्यादेर्नासत्यो भेदः ॥12॥
॥ इति गुहाधिकरणम् ॥3॥
आदित्ये विष्णुरित्युक्तम् । ‘य एष आदित्ये पुरुषः सोहमस्मि स एवाहमस्मि’ इत्यादावाग्नीनामेवादित्यस्थत्वमुच्यते ।
अतोक्ष्यादित्ययोरैक्यात् ‘य एषोन्तरक्षिणि पुरुषो दृश्यते’ इत्यत्राप्यग्निरेवोच्यते । अतः ‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते
एवमेवंविदि पापं कर्म न श्लिष्यते’ इत्यग्निज्ञानादेव सर्वपापाश्लेषान्मोक्षोपपत्तिरिति । अतो ब्रवीति-
ॐ अन्तर उपपत्तेः ॐ ॥13॥
चक्षुरन्तस्थो विष्णुरेव । ‘त्रिपादस्यामृतं दिवि’ इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः । ब्रह्मशब्दाद्युपपत्तेश्च । ‘सोहमस्मि’ इत्यादि
त्वन्तर्याम्यपेक्षया ।
अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि । सर्वे शब्दाः प्रयुज्यन्ते सति भेदेपि वस्तुषु ॥ इति महाकौर्मे ॥13॥
ॐ स्थानादिव्यपदेशाच्च ॐ ।।14।।
‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ इत्यादिस्थानशक्तिः वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते । तस्य ह्येतल्लिङ्गम् ।
‘स ईशः सोसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिवोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः
सोच्युतः’ इति चतुर्वेदशिखायाम् ।
‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः । स वामनः परोस्माकं गतिरित्येव चिन्तयेत् ।।’ इति वामने ।।14।।
ॐ सुखविशिष्टाभिधानादेव च ॐ ।।15।।
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति ‘विज्ञानमानन्दं ब्रह्म’ ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्यादेस्तस्यैव हि तल्लक्षणम् ।
लक्षणं परमानन्दो विष्णोरेव न संशयः । अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः ।। इति ब्रह्मवैवर्ते ।।
न च मुख्ये सत्यमुख्यं युज्यते ।।15।।
ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ।।16।।
‘स एतान् ब्रह्म गमयति’ इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ।।16।।
ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ।।17।।
जीवस्य जीवान्तरनियामकत्वेनवस्थितेः साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात् । अनीश्वरापेक्षत्वाच्च ।।17।।
।। इति अन्तराधिकरणम् ।।4।।
‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः’
इत्याद्यन्तर्याम्युच्यते । तत्र च ‘एतदमृतम्’ इत्युक्तममृतत्वमुच्यते । स च ‘यस्य पृथिवी शरीरम्’ इत्यादिना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो
वा युक्तः । न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियत इत्यत आह-
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ।।18।।
‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तर’ इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशात् विष्णुरेवान्तर्यामी । स हि ‘न ते विष्णो जायमानो न जातः’
‘स योतोश्रुतोगतोमतोनतोदृष्टोविज्ञातोनादिष्टः सर्वेषां भूतानामन्तरपुरुषः’ इत्यादिनाविदितोन्तरश्च ।।18।।
ॐ न च स्मार्तमतद्धर्माभलिापात् ॐ ।।19।।
त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि ।।19।।
ॐ शारीरश्चोभयेपि हि भेदेनैनमधीयते ॐ ।।20।।
‘य आत्मनि तिष्ठन्नात्मनोन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः’ ‘यो विज्ञाने तिष्ठन्
विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरम्’ इत्युभयेपि हि शाखिनो भेदेनैनं जीवमधीयते ।
शीर्यते नित्यमेवास्मात् विष्णोस्तु जगदीदृशम् । रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत् ।। इति वचनान्न शरीरत्वविरोधः ।।20।।
।। इत्यन्तर्याम्यधिकरणम् ।।5।।
अदृश्यत्वादिगुणा विष्णोरुक्ताः । तत्र
‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ।।’ इत्युक्त्वा
‘यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् ।।’ इत्युक्त्वा
तस्माच्च ‘अक्षरात् परतः परः’ इति परः प्रतीयत इत्यतोब्रवीत्-
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ।।21।।
पृथिव्यादिदृष्टान्तमुक्त्वा ‘अक्षरात् सम्भवतीह विश्वम्’ इत्यतः परं तत्परतः पराभिधानात् ‘कूटस्थोक्षर उच्यते’ इति स्मृतेश्च प्रकृतेः प्राप्तिः ।
ब्रह्मशब्दात् तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य । ‘तमेवं विद्वानमृत इह भवति’ ‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’ ‘अथ द्वे
वाव विद्ये वेदितव्ये परा चैवापरा च । तत्र ये वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि सापरा । अथ परा यया स हरिर्वेदितव्यो
योसावदृश्यो निर्गुणः परः परमात्मा’ इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्विष्णुरेवादृश्यत्वादिगुणकः ।।21।।
ॐ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ॐ ।।22।।
‘यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः’ इति विशेषणान्न प्रकृतिः । ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ इति भेदव्यपदेशान्न विरिञ्चः ।
अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ।।
तामक्षरं परं प्राहुः परतः परमक्षरम् । हरिमेवाखलिगुणमक्षरत्रयमीरितम् ।।
इति स्कान्दे त्र्यक्षराभिधानात् ‘अक्षरात् परतः परः’ इत्यपि विशेषणमेव । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति
भेदव्यपदेशादीशपदप्राप्तोपि न रुद्रः ।।22।।
ॐ रूपोपन्यासाच्च ॐ ।।23।।
‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति । ‘एको नारायण आसीन्न ब्रह्मा न शङ्कर । स मुनिर्भूत्वा समचिन्तयत् । तत
एते व्यजायन्त । विश्वो हिरण्यगर्भोग्निर्यमोवरुणरुद्रेन्द्रा इति । तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्तं रक्तं रौक्मं
कृष्णमिति । स एतान्येतेभ्योभ्यचीक्लृपत् । विमिश्राणि व्यमिश्रयत् ।’ अत एतादृगेतद्रूपमिति तस्यैव हि रूपाण्यभिधीयन्ते ।।23।।
।। इति अदृश्यत्वाधिकरणम् ।।6।।
अदृश्यत्वादिगुणेषु सर्वगतत्वं ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति वैश्वानरस्योक्तमित्यत आह-
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ।।24।।
अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणात् वैश्वानरो विष्णुरेव ।।24।।
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ।।25।।
‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’ इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । इतिशब्दः समाख्याप्रदर्शकः
।।25।।
ॐ शब्दादिभ्योन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषविधमपि चैनमधीयते ॐ ।।26।।
‘अयमग्निर्वैश्वानरः’ ‘वैश्वानरमृत आजातमग्निम्’ इत्यादिशब्दः । ‘वैश्वानरे तद्धुतं भवति’ ‘हृदयं गार्हपत्यो मनोन्वाहार्यपचनः
आस्यमाहवनीयः’ इत्याद्यग्निलिङ्गमादिशब्दोक्तम् । ‘येनेदमन्नं पच्यते’ ‘तद्यद्भक्तं प्रथमागच्छेत् तद्धोमीयम्’ इत्यादिना
पाचकत्वेनान्तःप्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न । ‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीतेति । सर्वनामा
सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्वधर्मः सर्वरूपः’ इति । ‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु
भूतेषु सर्वेषु देवेषु सर्वेषु वेदेषु कामचारो भवति’ इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशात् महोपनिषदि ।
अनात्तत्वादनात्मान ऊनत्वात् गुणराशितः । अब्रह्माणः परे सर्वे ब्रह्मात्मा विष्णुरेव हि ।।
इत्यादिना ‘को न आत्मा किं ब्रह्म’ इत्यारम्भाच्च अन्येषामसम्भवात् विष्णुरेव वैश्वानरः । ‘चन्द्रमा मनसो जाश्चक्षोस्सूर्यो अजायत’ इत्यादिना यः
पुरुषाख्यो विष्णुरभिहितस्तद्विधमेवात्र । ‘मूर्धैव सुतेजास्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’ इत्यादिनैनं वैश्वानरमधीयते । चशब्देन
सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति । तथा च ब्राह्मे-
यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् । तथैव मे मनो नित्यं भूयात् विष्णुपरायणम् ।। इति ।
चतुर्वेदशिखायां च - ‘सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् इति । एष ह्येवाचिन्त्यः परः परमो
हरिरादिरनादिरनन्तोनन्तशीर्षोनन्ताक्षोनन्तबाहुरनन्तगुणोनन्तरूप’ इति । बृहत्संहितायां च-
यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् । न तथा सर्ववेदाश्च वेदाङ्गानि च नारद ।। इत्यादि ।
यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ।।
इति नारदीयवचनात् नाभेदोक्तिविरोधः ।।26।।
ॐ अत एव न देवता भूतं च ॐ ।।27।।
अग्निवैश्वानरादिशब्दस्तेजसि भूते अग्निदेवतायां च प्रसिद्धोप्यतः पूर्वोक्तहेतुत एवात्र न सा तच्चाभिधीयते ।।27।।
ॐ साक्षादप्यविरोधं जैमिनिः ॐ ।।28।।
नाग्न्यादयः शब्दा अग्न्यादिवाचकास्तथापि साक्षादेवानन्ययोगेन ब्रह्मवाचकैश्शब्दैः व्यवहारार्थमनभिज्ञानाच्चान्यत्र व्यवहरन्तीत्यभ्युपगमेविरोधं
जैमिनिर्वक्ति ।
व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् । अन्ये व्यवहरन्त्येतान्यूरीकृत्य गृहादिवत् ।।
इति स्कान्दवचनान्न मतानां परस्परविरोधः ।।28।।
ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ।।29।।
तत्र तत्र प्रसिद्धावप्यग्न्यादिषु ब्रह्मणोभिव्यक्तेरग्न्यादिसूक्तनियम इत्याश्मरथ्यः ।।29।।
ॐ अनुस्मृतेर्बादरिः ॐ ।।30।।
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात् तन्नियम इति बादरिः ।।30।।
ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ।।31।।
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियमग्न्यादिसम्प्राप्त्या मन्यते । ‘तं यथा यथोपासते तदेव भवति’ इति दर्शयति ।।31।।
न ह्यन्योपासकोन्यं प्राप्नुत इति युज्यत इत्यत आह-
ॐ आमनन्ति चैनमस्मिन् ॐ ।।32।।
एनं विष्णुमस्मिन्नग्न्यादावामनन्ति । ‘योग्नौ तिष्ठन्’ ‘य एष एतस्मिन्नग्नौ तेजोमयोमृतमयः पुरुषः’ इत्यादिना ।।32।।
।। इति वैश्वानराधिकरणम् ।।7।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ।।