+०१

प्रथमोध्यायः
नारायणं गुणैस्सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां
तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत् । चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि
चकार । तच्चोक्तं स्कान्दे -
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेखलिम् ॥
गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते । सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥
चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥
सविशेषणसूत्राणि ह्यपराणि विदो विदुः । मुख्यस्य निर्विशेषेण शब्दोन्येषां विशेषतः ॥
इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः । सूत्रेषु येषु सर्वेपि निर्णयास्समुदीरिताः ॥
शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः । एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥
ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥ इत्यादि ।
ॐ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥1॥
अथशब्दो मङ्गलार्थोधिकारानन्तर्यार्थश्च । अतश्शब्दो हेत्वर्थः ।
उक्तं च गारुडे-
अथातश्शब्दपूर्वाणि सूत्राणि निखलिान्यपि । प्रारभन्ते नियत्यैव तत्किमत्र नियामकम् ॥
कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः । एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वशः ॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । आनन्तर्येधिकारस्य मङ्गलार्थे तथैव च ॥
अथशब्दसत्वतश्शब्दो हेत्वर्थे समुदीरितः । परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥
स हि सर्वमनोवृत्तिप्रेरकस्समुदाहृतः । सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥
ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् । तद्धेतुत्वं वदंश्चापि तृतीयोत उदाहृतः ॥
अकारस्सर्ववागात्मा परब्रह्माभिधायकः । तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥
अतश्च पूर्वमुच्चार्यास्सर्व एते सतां मताः । अथातश्शब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥
सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति ॥
अधिकारश्चोक्तो भागवततन्त्रे-
मन्दमध्यमोत्तमत्वेन त्रिविधा ह्यधिकारिणः । तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥
मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः । इति जातिकृतो भेदस्तथान्यो गुणपूर्वकः ॥
भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः । अधमः शमादिसंयुक्तो मध्यमस्समुदाहृतः ॥
आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् । विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥
स उत्तमोधिकारी स्यात् सन्न्यस्ताखलिकर्मवान् ॥ इति ।
अध्ययनमात्रवतः । नाविशेषात् इति चोपरि । ‘शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वात्मन्येवात्मानं पश्येत्’ ‘परीक्ष्य लोकान् कर्मचितान्
ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।’ ‘यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूं स्वाम् ।’
‘यस्य देवे पराभक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥’ इत्यादि श्रुतिभ्यश्च ।
व्योमसंहितायां च -
अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः । स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेधिकारिता ॥
एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे । त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥
आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके । यथोर्वशी यमी चैव शच्याद्याश्च तथापरा ॥ इति ।
यतो नारायणप्रसादमृते न मोक्षः न च ज्ञानं विनात्यर्थप्रसादः अतो ब्रह्मजिज्ञासा कर्तव्या ।
यत्रानवसोन्यत्र पदं तत्र प्रतिष्ठितम् । वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत् ॥ इति ब्रह्मसंहितायाम् ।
‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’ ‘प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः’ ‘यमेवैष वृणुते तेन लभ्यः’ ‘आत्मा
वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादिश्रुतिस्मृतिभ्यः ।
‘कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः । मध्यमो ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥
प्रसादात् त्वधमात् विष्णोः स्वर्गलोकः प्रकीर्तितः । मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिदः ॥
श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च । साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥
न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन ॥’ इति नारदीये ।
ब्रह्मशब्दश्च विष्णावेव । ‘यमन्तः समुद्रे कवयोवयन्ति तदक्षरे परमे प्रजाः । यतः प्रसूताः जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् ।’
इत्युक्त्वा ‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति हि श्रुतिः । ‘तन्नो विष्णुः’ इति वचनात् विष्णुरेव हि तत्रोच्यते । न
चेतरशब्दात् तत्प्राप्तिः ।
नामानि विश्वाभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥ इति भाल्लवेयश्रुतिः ।
‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवनायन्त्यन्या’ इत्येवशब्दान्नान्येषां सर्वनामता । ‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि
भुवनानि तस्थुः’ इति विष्णोर्हि लिङ्गम् । न प्रसिद्धार्थं विनान्योर्थो युज्यते ।
‘अजस्य नाभाविति यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् । तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे ॥’ इति स्कान्दे ।
‘परो दिवा पर एना पृथिव्या’ इति समाख्याश्रुतौ । ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इत्युक्त्वा ‘मम योनिरप्स्वं?तः
समुद्रे’ इत्याह । उग्रो रुद्रः । समुद्रेन्तर्नारायणः । प्रसिद्धत्वात् सूचितत्वाच्चास्यार्थस्य । नाविरोधे प्रसिद्धः परित्यज्यते । उक्तन्यायेन च श्रुतय
एतमेव वदन्ति ।
‘वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥’ इति हरिवंशेषु । न च इतरग्रन्थविरोधः ।
‘एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो महोशास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥’ इति वाराहवचनात् ।
शैवे च स्कान्दे -
‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः । तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मुखः ॥’ इति ।
ब्राह्मे च ब्रह्मवैवर्ते-
नाहं न च शिवोन्ये च तच्छक्त्येकांशभागिनः । बालः क्रीडनकैर्यद्वत् क्रीडतेस्माभिरच्युतः ॥ इति ॥
न च वैष्णवेषु तथा । तच्च ‘एष मोहम्’ इत्युक्तम् ॥