०५ गुर्वर्थदीपिका

चतुर्थाध्यायस्य चतुर्थः पादः

चतुर्थाध्यायस्य चतुर्थः पादः

ॐ ॥ सम्पद्याविहाय स्वेन शब्दादित्यधिकरणे ‘‘एतं सेतुं तीर्त्वे’’त्यत्रातिक्रमोक्तेर् मुक्तौ ब्रह्म तीर्त्वा गच्छतीत्यतिक्रमोक्तिरेव पूर्वपक्षप्रापिका । तरतीति सामान्यप्रतीतेर् ब्रह्म तीर्त्वा इदं गच्छतीति विशेषानुक्तेश्च । ‘‘इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यत’’ इति विशेषोक्तेश्च । एतं सेतुं प्रत्यन्यत् तीर्त्वेत्यर्थोपपत्तेरिति ‘‘सेतुं तीर्त्वे’’ति वाक्यस्य सामान्यरूपत्वमेव सिद्धान्तस्थापकम् ॥ ४४१ ॥

मुक्तः प्रतिज्ञानादित्यधिकरणे कृतिमत्त्वान् ‘‘स तत्र पर्येती’’ति परितः प्राप्त्यादिकृतिमत्त्वाद् अमुक्त एवोच्यत इति कृतिरेव पूर्वपक्षप्रापिका । श्रुतौ ‘‘स्वेन रूपेणाभिनिष्पद्यते’’ इति मुक्तस्य स्पष्टप्रतिमानत्वात् स्वस्वरूपाविर्भावस्य मुक्तं विनाऽसम्भवादित्यर्थः । तया श्रुत्या ‘‘स सत्र पर्येती’’ति उत्तरश्रुतेरपि एकवाक्यत्वात् कृतिरपि मुक्तिकृतिरेवेति प्रतिभानमेव सिद्धान्तस्थापकम् ॥ ४४२ ॥

आत्मा प्रकरणादित्यधिकरणे परंज्योतिःशब्देनादित्यज्योतिरङ्गीकारे ‘‘स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्त’’ इत्यादिना एकार्थत्वेऽतिप्रयोजनमिति अर्थलाभ एव पूर्वपक्षप्रापकः । अथ किमुच्यते परंज्योतिरिति ‘‘आत्मैव हि परंज्योतिः स हि परमो द्योतते जीवाच्चाजीवाच्चं तस्मादाहुः परंज्योति’’रिति ‘‘तमेव जीवोऽभिसम्पद्य स्वेन रूपेणानिष्पद्यत’’ इति तस्यैव परंज्योतिष्ट्वोक्तेः सावकाशलिङ्गान् निरवकाशश्रुतेरेवातिबलत्वादिति विशिष्योक्तयाख्योक्तिरेव सिद्धान्तस्थापिका ॥ ४४३ ॥

अविभागेन दृष्टत्वादित्यधिकरणे परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्ति । ईश्वरस्य स्वत एव पूर्णानन्दत्वाद् अभोगस्यापि सम्भवादिति परागतिरेव पूर्वपक्षप्रापिका । ‘‘पूर्णानन्दः पूर्णभोक्ता पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः पूर्णैश्वर्यत्वाद्भगवान् वासुदेवो विरुद्धशक्तिर् नतु दोषस्पृगीश’’ इत्याश्चर्यतयैव ब्रह्मण उभयोक्तेः सावकाशोपपत्तिमात्रान् निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्वादित्याश्चर्यतैव सिद्धान्तस्थापिका ॥ ४४४ ॥

ब्राह्मेण जैमिनिरुपन्यासादिभ्य इत्यधिकरणे पारगतत्वान्मुक्तस्य चिन्मात्रदेहोऽपि नास्तीति पारगतिरेव पूर्वपक्षप्रापिका । ‘अथ विमुक्तस्य चिन्मात्रदेहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान् भुंक्ते’ इति श्रुतेर् आकृत्तिमत्वात्तस्य देहस्यानपगमादिति अकृत्रिमतैव सिद्धान्तस्थापिक ॥ ४४५ ॥

सङ्कल्पादेव च तच्छतेरित्यधिकरणे भगवदोकसि स्थितत्वान्मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वमिति सदोक एव पूर्वपक्षप्रापकम् । ये भोगाः परमात्मना भुज्यन्ते ते सर्वे मुक्तैर्भुज्यन्ते इति पूर्वपक्षिणो भावः । निर्दोषत्वात्तदोकसो मुक्तस्य सङ्कल्पादेवेति श्रुत्युक्तानुसारेणोपपत्तेरित्यस्तदोष एव सिद्धान्तस्थापकः । अस्तदोष इति वदता दोषकरलक्ष्मीभोगादिकं न मुक्तानामिति सूचितम् । स्वयोग्यभोगास्तु स्वसङ्कल्पादेव सिद्ध्यन्तीति संसारिभ्यो मुक्तानामतिशयश्चेति भावः ॥ ४४६ ॥

अत एव चानन्याधिपत्तिरित्यधिकरणे परगृहगतत्वादस्य राजगृहगतस्येव स्वाधमा अपि कदाचिदीशत इति सदोक एव पूर्वपक्षप्रापकम् । निर्दोषत्वादेव मुक्तस्य ईश्वरस्य तत्रस्थानां च मुक्तान्तराणां राजदोषवद्दोषासम्भवात् । ‘‘मुक्तानां पतयो देवा देवानां च प्रजापतिः । तस्य विष्णुर्न चैवेदं पारावर्यं विनश्यती’’ति श्रुतेश्च यथायोग्यमेव स्वीकारोपपत्तेरित्यस्तदोषत्वमेव सिद्धान्नस्थापकम् ॥ ४४७ ॥

अभावं बादरिराह ह्येवमित्यधिकरणे देहभावे तत्कार्यदुःखादि तदभावे भोगासम्भव इति दो इति समस्तकार्यमेव पूर्वपक्षप्रापकम् । ‘‘देहाभावाच्च भावाच्च निर्भोगत्वं च दुःखिताम् । यान्त्यमुक्ता नोभयं च मुक्तानां वशिता यत’’ इति श्रुत्यैव विशेषक्लृप्तेरिति विशेषक्लृप्तिरेव सिद्धान्तस्थापिका ॥ ४४८ ॥

जगद्य्वापारवर्ज्यमित्यधिकरणे सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिसमस्तकार्यसम्भव इति समस्तकार्यमेव पूर्वपक्षप्रापकम् । ‘‘व्यापारो जगतो विष्णोर्मुक्तानां तु स्वभोगगः । नहि स्वर्णं शुद्धमपि वह्निकार्यकरं भवेत् । अयोग्यशक्तितस्त्वेव नाधिकान्दसम्भवः । नहि कश्चित्सुशक्तोऽपि चकाराचेतनं चितिम् । न च कामस्तथा भूयात् ततः स्यात्सत्यकामते’’ति श्रुत्या विशेषक्लृप्तेरेवेति विशेषक्लृप्तिरेव सिद्धान्तस्थापिका ॥ ४४९ ॥

स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने इत्यधिकरष वशित्वान्मुक्तस्यापि वृद्धिरिति वशितैव पूर्वपक्षप्रापिका । ‘‘अभ्यासपाटवात् स्नेहाद् अश्रमत्वादुपासना । भक्तिश्च सुखरूपैव मुक्तानां नतु साधन’’मिति श्रुतेर् मुक्तानां कृतकृत्यत्वेन निःश्रमत्वादुपासनावदभ्यासपाटवान् निर्दोषत्वात् स्नेहाधिक्याच्च तस्यैव परमसुखरूपत्वेन फलरूपत्वादिति कृतनिश्चय एव सिद्धान्तस्थापकः ॥ ४४१० ॥

अनावृत्तिः शब्दादनावृत्तिः शब्दादित्यधिकरणे अनन्तत्वेऽपि कालस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान् मुक्तस्यापि पुनरावृत्त्याशङ्केति विश्वसम्भावनैव पूर्वपक्षप्रापिका । विश्वस्य समस्तस्यापि कालस्य कदाचित्समाप्तिसम्भावनेत्यर्थः । ‘‘अशेषकामसत्यत्वान् मुक्तानां न पुनर्भवः । यस्मात्सकामयेदेव मुक्तानामपुनर्भव’’मिति श्रुतेः सत्यकामत्वादिमाहात्म्यान् न पुनरावृत्तिरिति माहात्म्यमेव सिद्धान्तस्थापकम् । माहात्म्यादिति वदता कालस्यापि नित्यत्वाख्यमाहात्म्यान् न परिसमाप्तिरित्यपि सूचितम् ॥ ४४११ ॥

हिरण्यगर्भे तद्युज्यत इत्यत्र तत् पापरहितत्वाख्यलिङ्गं युज्यते । ऋजुगणाग्रेसरत्वादिति भावः । ऋजवः पापवन्त इत्यस्य च व्याहतत्वादिति भावः । तद्भूयं गतस्येत्यत्र तद्भूयं तदात्मकत्वम् । दृशिधातोरौणादिके अतचि कृते ‘‘उरण्रपर’’ इति रकारस्थाने आगतस्याकारस्य रपरत्वे कृते दर्शतमिति रूपं भवतीति भावेनोक्तं दृशेरौणादिक इति । यावदायुर्बिभर्ति सर्वमन्ते गच्छति चेति भर्ग इत्यर्थः । डिच्चेति वदता डस्प्रत्यय इत्युक्तं भवति । ‘डिति चे’ति टेर्लोपे भृग् अस् इति स्थिते पूर्ववद् गुणे रपरत्वे च कृते भर्ग इति शब्दनिष्पत्तिर्भवतीत्यर्थः । कृपावाजिमिस्वदिसाध्यशूभ्य इति सूत्रस्य ‘‘कृञ् करणे पा रक्षणे’’ ‘‘वा गतिगन्धनयोरित्यादिधातुभ्य उण्प्रत्ययो भवतीत्यर्थः । णित्वादाकारस्य वृद्धौ कृतायामाकारस्य ऐकारः ‘‘एचोऽयवायाव’’ इति ऐकारस्य आयादेशे कृते वायुरिति शब्दनिष्पत्तिर्भवतीति ज्ञेयम् । एरजित्यत्र एरजिति ईकारान्तात् ‘‘नीञ् प्रापण’’ इति धातोरचि प्रत्यये कृते गुणे च कृते अयादेशे च कृते नयमिति शब्दनिष्पत्तिर्भवतीत्यर्थः । आतोऽनुपसर्गे क इत्यत्र ‘‘आदेच उपदेशेऽशिती’’ ‘‘त्यैकारस्याकारे कृते आतोऽनुपसर्गे क’’ इति कप्रत्यये च कृते क्ष इति शब्दनिष्पत्तिर्भवतीत्यर्थः । किदितिनपुंसकमेवेदमित्यत्र कित् ककारेत्संज्ञकं नपुंसकं स्यादित्यर्थः । अत एव पूर्वं पुल्लिङ्गत्वं श्रुत्यनुसारेणेत्युक्तम् । स्वरित्यत्रेवेत्यत्र सुवरिति व्याहृतेः स्वरिति पदेनोक्तौ यथा उकारलोपस् तथाऽत्रापीत्यर्थः ॥

इयं न्यायसुधांभोधेस्तथा भाष्यानुभाष्ययोः ।

अनुव्याख्यासंगृहीतन्यायानां विवृतिस्तथा ॥ १ ॥

गुर्वर्थदीपिका वादिराजाख्ययतिना कृता ।

आनन्दतीर्थाख्यगुरोस्तथा व्यासस्य तद्गुरोः ॥ २ ॥

भारत्यास्तत्वदेवानां कृपया न स्वशक्तितः ।

गुणा ये त्वत्र दृश्यन्ते ते सर्वे तत्प्रसादजाः ॥ ३ ॥

यदि सन्दि क्वचिद्दोषास् ते मे मन्दमतित्वतः ।

तदवद्यं दयाशीलैः क्षन्तव्यं स्वजनप्रियैः ॥ ४ ॥

नमोऽस्तु वासुदेवाय व्यासदेवाय धीमते ।

असुदेवाय देवेभ्यो गुरुभ्यश्च नमोनमः ॥ ५ ॥

इति श्रीमत्कविकुलतिलकश्रीमद्वादिराजपूज्यचरणविरचितायां

श्रीमन्न्यायसुधाटीकायां गुर्वर्थदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ॥