वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता
टीकाकृतामन्तिमं मङ्गलाचरणम्
वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता
सुधा
वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता ।
ध्रियतां हृदये सदये कमलामहिलेन पुरुषेण ॥ १ ॥
वाक्यार्थचन्द्रिका
एवं समापितग्रन्थव्याख्यानो भगवान्ष्टीकाकारः स्वकीर्त्यनुवृत्तये स्वनाम ग्रन्थे उपनिबध्नन्नेव स्वकृतस्य ग्रन्थस्य प्रचयाद्यभिमतसिद्ध्यर्थंतस्य पुष्पमालात्वेन प्रीतिपूर्वकं भगवता हृदये धारणप्रार्थनारूपमङ्गलमाचरति वचनेति । सकलवाङ्मनसदेवतया रमया युत एव भगवति पुष्पमालात्वेन ग्रन्थसमर्पणमभिमतसिद्ध्यङ्गमिति ज्ञापयितुं कमलामहिलेनेत्युक्तम् । कमला लक्ष्मीर्महिला वनिता यस्य तेनेत्यर्थः । वनिता महिला तथेत्यभिधानात् ।
***परिमल ***
कृतं व्याख्यानं स्वामिने समर्पयति वचनेति । यथा हि लोके भिक्षुकस् तत्र तत्रोद्यानेषु पुष्पाण्याहृत्य मालां कृत्वा समर्पयेच्चेत्तां यथा दयालुर्हृदये बिभर्ति एवं वजनप्रसूनमाला मया समर्पिता हृदये दयया ध्रियताम् इयं साध्वीत्यङ्गीक्रियतामित्यर्थः । कमला लक्ष्मीर्महिला भार्या यस्येति स तथा तेनेत्यर्थः । माला हि प्रमदायुक्तस्यैव हृदयङ्गमेति कमलामहिलेनेत्युक्तम् ।
यादुपत्यं
कमलामहिलेति । कमला रमा, महिला वनिता, यस्य स तथोक्तः । ‘वनिता महिला तथे’त्यभिधानात् ।
श्रीनिवासतीर्थीया
वचनप्रसूनेति । यथा कश्चिद्भिक्षुकः पुष्पमालां विरचय्य ऐश्वर्यवन्तं कञ्चनप्रभुं प्रति दत्ता चेत्सा यथा तदुपरि दयया हृदये तेन ध्रियते तद्वदित्यर्थः । ‘महिला वनिता तथे’त्यभिधानात्कमला महिला यस्यासौ कमलामहिलो लक्ष्मीपतिस्तेनेत्यर्थः ।
न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया
न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया
सुधा
न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया
न मात्सर्यावेशान्न च चपलतादोषवशतः ।
परं श्रद्धाजाड्यादकृषि कृतिमाचार्यवचसि
स्खलन्नप्येतस्माज्जगति न हि निन्द्योऽस्मि विदुषाम् ॥ २ ॥
वाक्यार्थचन्द्रिका
केवलं गुरुदेवताभक्त्यतिशयसाध्यतत्प्रसादलब्धैतद्ग्रन्थप्रतिपादितपदस्वरूपप्रमाणप्रमेयोपपादकन्यायजाते नानादरः कार्य इतीममर्थं व्यञ्जयन्नेव स्वगर्वं परिहरति न वैदुष्यभ्रान्त्येति । आचार्यवचसि पूर्णप्रमतिभगवत्पादरचितश्रीमदनुव्याख्यानरूपवचनविषये कृतिं तत्रत्यविषमपदवाक्यविवृतिम् अकृषीति । करोतेर्लुङात्मनेपदोत्तमपुरुषैकवचनम् । व्यञ्जकं चात्र विदुषामित्येतदेवेति गुरुचरणाः ।
***परिमल ***
श्रद्धाजाड्यादिति । भक्तिपारवश्यादित्यर्थः । अकृषि कृतवानस्मि । एतस्मात्स्खलनदोषान्न हि निन्द्योऽस्मि । किन्तु मान्य एव भवामीत्यर्थः ।
यादुपत्यं
श्रद्धाजाड्याद् भक्तिपारवश्यात् । आचार्यवचसि विषये । कृतिं तदर्थप्रकाशनरूपाम् । आचर्यवचसीत्यस्य श्रद्धाजाड्यादित्यनेनान्वयः ॥
श्रीनिवासतीर्थीया
अकृषि अकार्षम् ।
वाक्यार्थरत्नमाला
करोतेर्लुङिति । लुङि तस्य तिबाद्यादेशे ञित्वादात्मनेपदे उत्तमपुरुषैकवचने इटि तस्य प्राप्तिप्राप्तेतदपवादेन च्लिप्राप्ते च्लेः सिचि कृस् अनिडादिडभावे इति स्थिते उतोवृद्धिर्लुकि हलीत्यतोहलीत्यनुवृत्तिरस्मिन् सिचोरपृक्त इत्यनेन ईटोऽप्राप्त्यपदेशसकारस्यादेशप्रत्ययोरिति षत्वेडागमेचाकृषीति रूपमित्यर्थः ॥