यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
श्रीमद्भाष्यकृता स्वस्वरूपाविष्कारः
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
सुधा
यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपीत्यतस् तदाविष्कुर्वन्नाह यस्येति ।
अनुव्याख्यानम्
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट्तद्दर्श(र्शि)तमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु
र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥
यस्य वायोर्देवस्य वेदवचने बत्थिेत्यादावलं दिव्यान्यद्भूतानि त्रीणि रूपाण्युदितानि । अमुना वायुनाऽयं केशवे विषये ग्रन्थः कृत इत्यन्वयः ।
वाक्यार्थचन्द्रिका
स्वस्वरूपज्ञानस्य निष्प्रयोजनत्वात्तन्मात्रफलकतत्कथनपरोत्तरपद्यवैयर्थ्यमाशङ्क्य स्वरूपज्ञानप्रयोजनकथनेन तत्परिहरन्नेव तत्परतयोत्तरवाक्यमवतारयति यथेति । व्यवहितत्वाद्दुर्गमार्थत्वाच्चान्वयप्रदर्शनपूर्वकं श्लोकं व्याचष्टे यस्येति । अत्र वायोरित्यनेन मन्त्रे सहशब्दो वायुपरः । ‘प्राणं वाव महान्सह ओजो बलमित्याचक्षते’ इति श्रुतेर्वायुरित्युक्तं भवति । अलं दिव्यानीति । यद्यपि टीकायामलमित्येतद्बलित्यनेनान्विततया योजितम् । तथाऽपि दिव्यत्वेऽप्यर्थातिशयलाभाय दिव्यानीत्यनेनान्विततयाऽत्र योजितमिति द्रष्टव्यम् । कथमधिकरणत्वं केशवस्येत्यतो विषयत्वेनेत्यभिप्रेत्य तत्तात्पर्यमाह केशवविषय इति ।
***परिमल ***
व्यवधानादन्वयेनानुवादो यस्य वायोर्देवस्येति ।
श्रीनिवासतीर्थीया
केशवे विषय इति । तस्य गुणपूर्णत्वनिर्दोषत्वज्ञेयत्वगम्यत्वप्रतिपादको ग्रन्थः कृत इत्यर्थः ।
वाक्यार्थरत्नमाला
मन्त्रे सह इति । बलित्थेति मन्त्रे सह स इति सहःशब्द इत्यर्थः । इति श्रुतेरित्युक्तं भवतीति पाठः । टीकायामिति । सूत्रभाष्यटीकायामित्यर्थः । कथमधिकरणत्वमिति । सप्तम्यर्थ इति शेषः । ग्रन्थं प्रति केशवस्याधिकरणत्वाभावादिति भावः । ततश्चाधिकरणसप्तम्यनुपपत्तिरिति भावः । इत्यतः परं विषयत्वमेतदर्थ इत्यभिप्रेत्याहेति पाठः । विषयत्वेनैवेत्यभिप्रेत्य तात्पर्यमाहेति पाठे घटे ज्ञानमित्यदौ विषयतासम्बन्धेन घटस्य ज्ञानाधिकरणताया अङ्गीकारात्प्रकृतेऽपि विषयत्वेनैवाधिकरणत्वमित्यर्थः । तत्तात्पर्यमिति । अनेन विषयसप्तमीत्युक्तं भवतीति मूले तात्पर्यसूचनादिति भावः ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
सुधा
कीदृशं तस्य मूलरूपं कथंभूतानि च तानि त्रीणि रूपाणीत्यत उक्तं बडित्यादि । यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणादिकोऽतच्प्रत्ययः । अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिर् गत्यर्थः । गत्यर्थाश्चावगत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति ।
किञ्च भर्गो भरणगमनयोः कर्तृ । डुभृञ् भरणे, गम्लृ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्वाद्धातूनां वातिर्भरणेऽपि वर्तते । अपि च महत् श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् ।
न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपमित्थमेव ।
यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयं नीयन्ते शिष्येषु प्रवर्त्यन्तेऽनेनेति । एरजित्यच् ।
यस्य द्वितीयं वपुः पृक्षः । पृच्छब्दः पृतनावाची प्रसिद्धः । तस्मिन्कर्मण्युपपदे क्षै क्षय इत्येतस्माद् आतोऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुल्लिङ्गं(ङ्गः) च श्रुत्यनुसारेण । असुन्वा प्रत्ययः । किदिति नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः ।
यस्य तृतीयं वपुर् एतन्मध्वः । मधुशब्दः सुखवाची । ‘मधु द्यौरस्तु नः पिते’ति प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधनामिति कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः ।
वाक्यार्थचन्द्रिका
औणादिक इति । उणादयो बहुलमित्युक्तत्वात् । भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् इति विविहितत्वेऽप्यतच्प्रत्ययस्य बहुलग्रहणाद्दृशेरपि प्राप्त्या तस्मिन्परतो लघूपधगुणे सति दर्शतशब्दनिष्पत्तिरिति भावः । तत उणिति । अयतेरुणादेर्बाहुलकादुणि णित्वादत उपधाया इत्युपधाऽकारवृध्या वायुरिति रूपनिष्पत्तिरिति भावः ।
किञ्चेति । कीदृशं तस्य मूलरूपमिति शङ्काया अन्यदप्युत्तरमस्तीत्यर्थः ॥ आभ्यामसुन्प्रत्यय इति उणादयो बहुलमित्युक्तत्वात् । धातुसमुदायादसुन्प्रत्यये तत्सन्नियोगेन पूर्वधातोः सार्वधातुकार्धधातुकयोरिति गुणे रपरत्वे प्रत्ययस्य ङित्त्वविधानसामार्थ्याद् गमेष्टेरिति टिलोपे च सति भर्गशब्दनिष्पत्तिरिति भावः । न च भृञः साक्षात्प्रत्ययसन्नियोगाभावेऽपि यथाकथञ्चित्संयोगेन गुणवत्तस्य डित्वविधाने तत्सन्नियोगाद् भृञोपि टिलोपः स्यादिति वाच्यम् । बहुलवचनेनैव प्राप्तस्यापि तस्य बाधकसम्भवादित्याहुः । वस्तुतो डित्करणस्येष्टसिद्ध्यर्थत्वान्न किञ्चिदेतदिति ध्येयम् । उणिति वातेरुण्प्रत्यये आतो युक् चिण्कृतोरिति युगागमे च सति वायुशब्दनिष्पत्तिरिति भावः ॥ वयः श्रेष्ठत्व इति । ननु वयतेः श्रेष्ठत्वार्थत्वे क्रियावाचित्वाभावात्कथं धातुत्वम् । न हि श्रेष्ठत्वस्य ‘यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयत, इति । ‘गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पितो भेद; क्रियेति व्यपदिश्यत’ इति । ‘स च पूर्वापरीभूत एकत्वादक्रमात्मकः । पूर्वापराणां धर्मेण तदर्थेनानुगम्यत’, इति वैयाकरणपरिकल्पितक्रियात्वमस्ति येन तदर्थकस्य क्यतेर्धातुत्वं स्यादिति चेन्न । ऋग्भाष्यटीकोक्तरीत्या वदनैकदेशस्य कपोलस्योक्तलक्षणक्रियात्वाभावेऽपि वदनैकशब्देन विवक्षितस्य तद्व्यापारस्य क्रियात्वात् तद्वाचित्वेन वैयाकरणमते गण्डयतेर्धातुत्ववत् श्रेष्ठत्वशब्देन विवक्षितस्य तद्व्यापारस्य क्रियात्वात्तद्वाचितया वयतेरपि धातुत्वस्याप्रत्यूहत्वात् । ततश्च वयतेरुणि णित्त्वादत उपधाया इति उपधावृद्धौ वायुशब्दनिष्पत्तिरिति भावः ।
निहितमिति । प्रेरितमित्यर्थः । भगवतेति शेषः । उपलक्षणं चैतत् । अवतीर्णं चेत्यपि द्रष्टव्यम् । अनेन मन्त्रे, तन्मूलरूपम् । यत आद्यादित्वात्तृतीयान्तात्तसिः । ततश्च येनेत्यर्थः ॥ भगवतेति यावत् । वपुषेऽवताराय । इत्था इत्थमेव । अधायि निहितम् । इत्थमेवाजनि चावतीर्णं चेति योजना सूचिता भवति ।
प्रथमकमिति । स्वार्थे कप्रत्यय इति भावेनोक्तं प्रथमकमिति । रामस्य वचांसि सीतां प्रति नीतवदिति वा रामवचःसु यो नय आज्ञारूपस्तद्युक्तमिति वा टीकोक्तरीत्या सत्येव व्याख्यानेऽर्थान्तरमप्याह रामेति । अत्र विषयत्वं षष्ठ्यर्थः सम्बन्ध इत्यभिप्रेत्योक्तं विषयाणीति । तान्येव ृङ्गिग्राहिकया दर्शयति मूलेति ॥ एरजित्यजिति । इवर्णान्ताद्धातोर्भावेऽजिति अच्प्रत्ययविधानान्नयतेः करणेऽच्प्रत्यये गुणायादेशयोर्नयशब्दनिष्पत्तिः । अत्र च वायुना कर्त्रा करणभूतहनुमदाख्यप्रथमरूपेण रामायणादीनि शास्त्राणि नीयन्त इत्यर्थस्य विवक्षितत्वाद्युक्तमेव हनुमतः शास्त्रप्रवृत्तिं प्रति करणत्वमत एव चामुना वायुनेति प्रागुक्तमिति ध्येयम् ।
क इति । आदेच उपदेशेऽशितीति कृतात्वात् क्षै क्षय इत्यस्माद्धातोरातोनुपसर्गे क इति कप्रत्यये आतो लोप इटि चेत्याकारलोपे पृक्ष इति रूपसिद्धिरिति भावः । ननु तथाऽपि पृत्क्ष इति रूपं स्यात् । पृक्ष इति तु कथमित्यत आह उपपदेति । ननु च वपुःशब्दस्य नपुंसकलिङ्गत्वाद् विणानां च विशेष्यनिघ्नत्वात् पृक्षं द्वितीयं वपुरिति नपुंसकलिङ्गेन भवितव्यं पृक्ष इति पुल्लिङ्गं तु कथमित्यतः ‘पृक्षो वपुः पितुमानिति’ श्रुतौ पुल्लिङ्गस्य श्रुतत्वात्तदनुसारेण भाष्येऽपि पुल्लिङ्गप्रयोग इत्याह पुल्लिङ्गमिति । अत्र च पक्षे पुल्लिङ्गस्य छान्दसत्वं कल्पनीयं भवतीत्यपरितोषात्पृक्ष इत्यस्यापि नपुंसकतामेवाश्रित्य विणविशेष्यभावमुपपादयति असुन्वेति । नन्वस्मिन्पक्षे आतो लोप इटि चेत्यनेनाकारलोपः सिध्यति तस्य किन्निमित्तकत्वात् । असुनश्च अकित्त्वादित्यतोऽत्र पक्षेऽसुनोऽपि कित्त्वाश्रयणाद्युक्त एवाकारलोप इत्याशयेनाह किदितीति ।
भाष्ये मध्वशब्द आनन्दतीर्थशब्दसमानार्थ इत्यभिप्रेत्य तदुपपादनाय मध्वशब्दावयवभूतं मधुशब्दं ‘मध्वित्यानन्द उद्दिष्ट’ इति प्रमाणानुसारेण सुखवाचितया व्याचष्टे मधुशब्द इति । प्रमाणाभावेन तत्र तस्याखण्डशक्त्यसिद्धेरवयवार्थाननुगमेन तत्सापेक्षयोगवृत्तेरप्यनुपपत्तेः कथं मधुशब्दस्यानन्दवाचित्वमित्यतोऽखण्डशक्तिमेवाभिप्रेत्य तत्साधकं प्रमाणमाह मधु द्यौरिति । पिता द्यौर्नो मधु सुखमस्त्वित्यर्थः । ‘वेति तीर्थमुदाहृतमि’ति प्रमाणं मनसि निधाय तदवयवशब्दं तीर्थवाचितया व्याचष्टे वशब्द इति । प्रमाणाभावेन तत्र तस्याखण्डशक्त्यसिद्धेः प्रकृतिप्रत्ययविभागस्यात्रास्फुटत्वेनावयववृत्त्यनुपपत्त्या तत्सापेक्षयोगस्याप्यनुपपत्तेः । न वशब्दस्य शास्त्रापरपर्यायतीर्थवाचित्वमित्यतो योगवृत्त्यैव तस्य तद्वाचित्वमित्यभिप्रेत्य प्रकृतिप्रत्ययविभागप्रदर्शनेनावयववृत्तिमुपदर्शयति वातेरिति । अवगत्यर्थाद्वातेर्वात्यवगच्छत्यनेनेति घञर्थे करणे कप्रत्यये आतो लोप इटि चेत्याकारलोपे व इति रूपनिष्पत्तिरिति भावः । ननु कर्तर्येव कप्रत्ययविधानात् कथं करणार्थत्वं तस्येत्यतो घञर्थे कमिति घञर्थे तद्विधानात् । घञश्च ‘अकर्तरि च कारके संज्ञायामि’ति कर्तृभिन्नभावकरणादिसाधारणत्वेन तदर्थे विहितस्य कस्यापि भावकरणादिसाधारणत्वाद्युक्तं करणार्थत्वमित्याशयेनोक्तं घञर्थे कविधानमितीति । ननु मध्व इत्यत्र न मधुनो व यस्येति बहुव्रीहिराश्रयितुं शक्यः । तथा सति व्यधिकरणबहुव्रीह्याश्रयणप्रसङ्गात् । नापि मधु व यस्येति समानाधिकरणः । वशब्दोक्तशास्त्रस्य सुखत्वाभावेन तदयोगादित्यतोऽत्र सुखवाचकस्यापि मधुशब्दस्य लक्षणया तत्साधनपरत्वेन सुखपरत्वाभावान्न समानाधिकरणतदनुपपत्तिरित्यभिप्रेत्य तं दर्शयति सुखसाधनमिति । नन्वेवं मध्वशब्दनिर्वचने मधुव इति भवितव्यम् । मध्व इति तु कथमित्यत आह स्वरित्यत्रेवेति । स्वरित्यत्रेव निरुक्तत्वादत्रोकारलोप इत्यर्थः ।
***परिमल ***
अतच्प्रत्यय इति । उणादयो बहुलमिति सूत्रादिति भावः ॥ तथाच पुगन्तेतिगुणे दर्शतमितिरूपमित्यर्थः ॥ अनेनेति । बट्दर्शतेतिकथनेनेत्यर्थः ॥ गत्यर्थ इति । अयपय गताविति धातुपाठादिति भावः ॥ तत उणिति । अयधातोरौणादिके उण्प्रत्यये अत उपधाया इति वृद्धावायुरिति रूपम् । तस्य वशब्देन कर्मधारय इत्याह वश्चासाविति ॥ किञ्चेति । मूलरूपं बलात्मकं ज्ञानरूपं चेत्येतावदेव न किन्तु गुणान्तरयुक्तं चेत्यर्थः । तदाह भर्ग इति ॥ असुन्प्रत्ययो डिच्चेति । डित्त्वाद् गमेष्टिलोपः मृञोऽकारोन्तादेश इति भावः ॥ कृवापाजीति उणादिसूत्रम् । डुकृञ् करणे । वा गतिगन्धनयोः । पा पाने । जि जये । डुमिञ् प्रक्षेपे । स्वदि आस्वादने । साध इंसिद्धौ अशु व्याप्तौ । एभ्यो धातुभ्य उण्प्रत्ययो भवतीत्युण्प्रत्यये आतो युक् चिण्कृतोरिति युगागमे वायुरिति रूपसिद्धेरिति भावः ॥ वातिरिति । वाधातुरित्यर्थः ॥ अपि चेति । गुणान्तरोपेतं च तद्रूपमित्यर्थः । इदमपि वायुशब्दव्याख्यानमिति भावेन तदारूढं दर्शयति वय श्रेष्ठत्व इति । वय् इत्यस्मादुणि उपधावृद्धौ वायुरिति सिद्धेरिति भावः ॥ इत्थमेवेति । उक्तगुणविशिष्टमित्यर्थः । नयशब्दस्य नेतृत्वमर्थ इति भावेन व्युत्पत्तिमाह नीयन्त इति ॥ शिष्येष्विति योग्यतयान्वेति ॥ अनेनेति । रूपेणेत्यर्थः ॥ एरजितीति । इवर्णान्ताद्धातोरच्प्रत्ययो भवतीति णीञ् प्रापणे इत्यतोऽच्प्रत्यये सार्वधातुकार्धधातुकयोरिति गुणे अयादेशे नयेति रूपसिद्धेरिति भावः ॥ आतोऽनुपसर्ग इति । अनुपसर्गे सुप्युपपदे धातोः कप्रत्ययो भवतीति ऐकारान्तात् क्षै क्षय इति धातोः कप्रत्यये आदेच उपदेशेऽशिति इति धात्वैकारस्य आत्वे आतो लोप इटि चेति तस्य लोपे पृदित्यत्र तकारलोपे च पृक्ष इति सिद्धेरिति भावः । न चैवं वपुर्विणत्वात् पृक्षमिति भाव्ययित्यत आह छान्दसः पुल्लिङ्ग इति । पृक्षो वपुरिति श्रुतौ छान्दसपुल्लिङ्गत्वेन तदनुकरणत्वेनात्रापि पुल्लिङ्ग इति भावः । यद्वा छान्दस इति पूर्वेणान्वेति । नन्वसुन्प्रत्यये कथमादेच उपदेशेऽशितीति एकारस्य प्राप्तात्वलोप इत्यत आह किदिति । तथाचातो लोप इटि चेति आकारलोप इति भावः । मध्व इति । मध्वाभिधमित्यर्थः । तत्पदं निर्वक्ति मधुशब्द इत्यादिना ॥ मधु द्यौरिति । द्यौर्द्युलोकदेवता नोऽस्माकं पिता अतः मधु सुखदास्त्वित्यर्थः ॥ तीर्थवाचीति । कथमित्यतोऽवयवार्थमाह वातेरिति । वा गतिगन्धनयोरिति धातोरित्यर्थः ॥ घञर्थ इति । स च भावे अकर्तरि च कारकेऽपि विहित इति तदर्थ इत्यर्थः । कप्रत्यये आतो लोपे वेति रूपसिद्धेरिति भावः ॥ अस्येतीति । मध्व इति पूर्वेणान्वयः । नन्वेवं मधुव इति भाव्यमित्यत आह स्वरित्यत्रेवेति । सुवरिति वक्तव्ये उकारलोपेन स्वरिति पठन्ति बह्वचाः । तथेहापि मधुशब्दोकारलोप इत्यर्थः ।
यादुपत्यं
ननु भृमृयजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् इति सूत्रे दृशोऽग्रहणात्कथं तस्मादतच् व्याख्यायत इत्यत उक्तम् औणादिकमिति । तथा च उणादयो बहुलमित्युक्तत्वाद् दृशेरप्यतच् भविष्यतीति भावः ॥ तत उरिति । बहुलमित्युक्तत्वादिति भावः । ततश्च णित्वादुपधाकारवृद्ध्या वायुरिति रूपमिति ज्ञातव्यम् ।
किञ्चेति । कीदृशं तस्य रूपमिति शङ्कायामन्यदप्युत्तरमुच्यत इत्यर्थः । एवमेवापि चेत्येतदपि नेयम् ॥ आभ्यामसुन्प्रत्यय इति ।अयमपि बाहुलिक एवेति ज्ञातव्यम् । तथा च गमेष्टिलोपे भृञो गुणे च भर्ग इति रूपमिति भावः । धातुसमुदायात्प्रत्ययश्च प्रागेवोपपादितः ॥ कृवापाजीत्याद्युणादिसूत्रस्यायमर्थः । डुकृञ् करणे कृञ् हिंसायां कृकरण इति त्रयाणामपि कृ इत्यनेन ग्रहणम् । निरनुबन्धग्रहणे सामान्यग्रहणमिति परिभाषितत्वात् । वा गतिगन्धनयोः,पा पाने जि जये, डुमिञ् प्रक्षेपणे, स्वदि आस्वादने, साध् संसिद्धौ, अशू व्याप्तौ एभ्यो धातुभ्य उण्प्रत्ययो भवतीति । उदाहरणाणि तु कारुर् वायुः पायुरित्यादीनि द्रष्टव्यानि । तथा चानेनोणि कृते आतो युक् चिण्कृतोरिति युगागमे च वायुरिति रूपमिति ज्ञातव्यम् ॥ वयः श्रेष्ठत्व इति । अत्र श्रेष्ठत्वशब्देन श्रेष्ठस्य भावस्तद्व्यापारः क्रियारूपो विवक्षितः । अन्यथा तद्वाचिने वयतेर्धातुत्वाभावप्रसङ्गात् । भूवादयो धातव इति क्रियावाचिनामेव धातुत्वाभिधानात् । ततश्चात्रापि णित्त्वादुपधावृद्धौ वायुरिति रूपमिति ज्ञेयम् ।
तेषामिति । कर्तृकर्मणोः कृतीति प्राप्तायाः षष्ठ्याः प्रतिपदविधानषष्ठ्या न समास इति प्रतिषेधेऽपि तस्य कृद्योगलक्षणा षष्ठी समस्यत इति वार्तिकेनापोदितत्वात्समासोपपत्तिरिति भावः ॥ एरजित्यजिति । इवर्णान्ताद्धातोर्भावेऽकर्तरि च कारके संज्ञायामच्प्रत्ययो भवतीति सूत्रार्थः । उदाहरणं तु जयश् चयः क्षय इत्यादि ज्ञेयम् । तथा चानेन सूत्रेण नयतेः करणेऽच्प्रत्यये गुणेऽयादेशे च सति नयमिति रूपमिति भावः । अत्र वायुना कर्त्रा हनुमदाख्येन प्रथमेन रूपेण रामायणादिशास्त्राणि नीयन्त इति विवक्षितत्वाद्धनुमतः शास्त्रप्रवृत्तिकरणत्वमिति ज्ञातव्यम् । अत एवामुना वायुनेति प्रागुक्तम् । अकर्तरि च कारके संज्ञायामित्यत्र चकारः संज्ञाव्यभिचाराय इति काशिकायामुक्तत्वेन नयमित्यस्य संज्ञात्वाभावेऽप्युक्तप्रत्ययोपपत्तिः ॥ आतोनुपसर्ग इति । क्षै क्षय इत्यस्यादेच उपदेशेऽशितीत्यनेनात्व आदन्तत्वमिति ॥ उपपदे तकारलोप इति । आतो लोप इटि चेति धात्वाकरलोपोऽपि द्रष्टव्यः । नन्वसुन्प्रत्यये तस्याकित्त्वात्कथं किन्निमित्त आकारलोप इत्यत आह किदिति । कित्कार्यकारी विवक्षितः ॥ मधु द्यौरिति । द्यौर्द्युलोकाभिमानी देवो नःपिताऽतो नः मधु सुखमुद्दिश्यास्त्वित्यर्थः । इदमुपलक्षणम् । मध्वित्यानन्द उद्दिष्ट’ इति वचनादित्यपि ग्राह्यम् ॥ तीर्थवाचीति । ‘वेति तीर्थमुदाहृतमि’ति वचनादिति भावः । ननु कप्रत्ययस्य कर्तर्येव विधानात्कथं करणार्थत्वं तस्येत्यत आह घञर्थे कविधानमिति । घञ् चाकर्तरि कारके विहित इति भावः । सुखवाचकेन मधुशब्देन तत्साधनं लक्षणीयमित्याशयेनाह सुखसाधनमिति । अस्येति इतिशब्दस्यैतन्मध्व इति पूर्वेणान्वयः । नन्वेवं मधुव इति स्यादत आह खरित्यत्रेवेति । सुवरिति वक्तव्ये उकारलोपेन यथा स्वरिति पठन्ति ऋग्वेदिनस्तथाऽत्रापीति भावः ।
श्रीनिवासतीर्थीया
अतच्प्रत्यय इति । दृशिर् प्रेक्षण इत्यस्मादतच्प्रत्यये हलन्त्यमिति चकारलोपे दृशतेति जाते ऋवर्णस्य गुणे तस्य च रपरत्वे दर्शतेति रूपम् । बलवाची । वबयोरभेदादिति भावः । गत्यर्थः । अवपयगताविति धातोरित्यर्थः ॥ तत उणिति । अ धातोरुण्प्रत्यये णित्त्वादादिवृद्धौ आयुरिति भवतीत्यर्थः ।
किञ्चेति कीदृशं तन्मूलरूपमिति शङ्कायां विणान्तरमुच्यत इत्यर्थः । भरणेति । वायोर्जगद्धारणकर्तृत्वं च सप्तमस्कन्धगते ‘लोकान्यो विभर्ति महाबलः’ । ‘वायुना वै गौतमसूत्रेणे’त्यादिश्रुतिसिद्धमिति द्रष्टव्यम् । गमनं ज्ञानं तत्कर्तृत्वं नाम ज्ञातृत्वं तथा च सर्वज्ञमित्यर्थः ॥ आभ्यामसुन्प्रत्यय इति । भृञ् भरणे गम्लृ गतौ आभ्यामसुन्प्रत्यय उन् इत्यस्य लोपे तस्य डित्कार्यकारित्वात्तस्मिन् परतो गमेष्टिभूतस्याम् इत्यस्य लोपे भृधातोर्ऋवर्णस्य गुणे तस्य च रपरत्वे सस्य रुत्वे विसर्गे च सति भर्ग इति सकारान्तं नपुंसकमिति भावः । तथा च भर्गः भर्गसी भर्गांसीति शब्दप्रकारः । वा गतीति । तथा च वा धातोः कृवापाजीवत्याद्युणादिसूत्रेण उण्प्रत्यये आतो युक्चिण्कृतोरिति सूत्रेण वाधातोः पुरतो युगागमे उक् इत्यस्य लोपे वाय् उ वायुरिति रूपम् । ननु भर्ग इत्येतत्कथं वायुशब्दव्याख्यानम् । वातेर्गत्यर्थत्वेन गमनकर्तृत्वस्यैव प्राप्त्या भरणकर्तृत्वस्याप्राप्तेरित्यत आह अनेकार्थत्वादिति । ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातव’ इति वचनादिति भावः ॥ अपि चेति । मूलरूपस्य विणान्तरमुच्यत इत्यर्थः । वयः श्रेष्ठत्व इति वयधातोरुण्प्रत्यये यकारस्थाकारलोपे णित्त्वादुपधावृद्धौ वायुरिति रूपम् ।
इत्थमेवेति । मूलरूपवदेव बलाद्यात्मकमित्यर्थः ॥ एरजित्यजिति । ईशब्दस्य षष्ठी एरिति । इवर्णान्ताद्धातोरकर्तरि कारकेऽच्प्रत्ययः स्यादित्यर्थः । तथाच नीत्यस्माद्धातोः करणेऽच्प्रत्यये इकारस्य एकाररूपे गुणे तस्य अयादेशे नयमिति रूपम् ॥ क्षै क्षय इत्यस्मादिति । तथा च पृत्शब्दे कर्मण्युपपदे क्षै धातोर् आदेच उपदेशेऽशितीति ऐकारस्य आत्वे आतोनुपसर्गे क इति कप्रत्यये कित्वाद्धात्वाकारलोपे छन्दस्त्वादुपपदतकारलोपे पृक्ष इत्यकारान्तं रूपम् । नन्वकारान्तपुल्लिङ्गोऽयं पृक्षशब्दः । कथं द्वितीयवपुषो विणमित्यत आह पुल्लिङ्गमिति ॥ श्रुत्यनुसारेणेति । ‘पृक्षो वपुः पितुमानिति श्रुत्यनुसारेणेत्यर्थः । अत एवास्वरसादाह असुन्वा प्रत्यय इति ॥ किदिति । धात्वाकारलोपरूपकित्कार्यकारीत्यर्थः । तथा च पृच्छब्दे कर्मण्युपपदे क्षै क्षय इति धातोरसुन्प्रत्यये ऐकारस्यात्वेऽसुन् प्रत्ययस्य कित्कार्यकारित्वात्तस्मिन्परतो धात्वाकारलोपे सस्य रुत्वे विसर्गे उपपदतकारलोपे च सति पृक्ष इति सकारान्तं नपुंसकमेवेदं वपुषो विणं युक्तमित्यर्थः । पृक्षः पृक्षसी प्रक्षांसीति शब्दाकारः ॥ वातेरिति । वा गतिगन्धनयोरिति धातोरवगत्यर्थाद्वा धातोर्घञर्थे कविधानमिति वार्तिकेण करणस्यापि घञर्थत्वात्करणे कप्रत्यये कित्वाकारलोपे व् अ वेति रूपम् ॥ अस्येतीति । इति हेतोरेतत्तृतीयं वपुर्मध्व इति पूर्वेणान्वयो द्रष्टव्यः । ननु तर्हि मधुव इति स्यान्न तु मध्व इति उकारलोपविधायकाभावादित्यतश्छान्दसोऽयमुकारलोपः । भूर्भुवःसुवरिति वक्तव्ये छान्दसत्वेन यथा उकारलोपमाश्रित्य स्वरिति ऋग्वेदिनः पठन्ति तद्वदित्याह स्वरित्यत्रेवेति ।
वाक्यार्थरत्नमाला
कथं भूतानिच तानि त्रीणि रूपणीति मूलम् । उपलक्षणं चैतत् । किं च तेषां कार्यमित्यपि ज्ञेयम् । अत एव वायोरामवचोनयमिति तेषां रूपाणां कार्याणि कथ्यन्त इति ज्ञेयम् । मृदृशीति । अत्र भृदृशीङ्यजिपर्विपच्यमितमिनमिहर्येभ्योऽतजिति सूत्रपाठः । भृदृशीड् यजिपर्वीपचि अमितमितमिहर्य एतेभ्योऽतच्प्रत्ययो भवतीति सूत्रार्थः । भरतः मरतः यजत इत्याद्युदाहरणम् । अतच्प्रत्ययस्येति विविहितत्वेपीति सम्बन्धः । मध्यदीपिकान्यायेन बहुलग्रहणादित्यत्राप्यतच्प्रत्ययस्येत्येतत्सम्बन्ध्यते । तथा च दृशेरपि बहुलृग्रहणादतच्प्रत्ययस्य प्राप्त्येति योजना । क्कत्यं बहुलग्रहणमित्यत उक्तमुणादयो बहुलमित्युक्तत्वादिति । तथा चोणादयोबहुलमित्येतत्सूत्रीय बहुलग्रहणादित्युक्तं भवति । मूलकोशे तु बहुलग्रहणादिति नास्ति । उणादयोबहुलमित्युक्तत्वादित्येतावदेवास्ति । तत्पाठे उणादयो बहुलमित्युक्तत्वाद्दृशेरप्यतच्प्रत्ययस्य प्राप्त्येति योजनीयम् । इत्युक्तत्वादित्यस्येति । सूत्रे बहुलग्रहणादित्यर्थः । इदं च बाहुलकाश्रयणेन दृशेरतच्प्रत्ययोपपादनं भृदृशीङिति दशपादीस्थपाठमाश्रित्य । तत्पाठ एव दर इति शाङोरेवातच्प्रत्ययप्राप्त्या दृशेस्तदप्राप्ते बाहुलकाश्रयणीयत्वात् । भृमृदृशियजिपर्वीति सूत्रपाठेतु दृशेरेव पाठस्य सूत्रे सत्वेन तस्माल्लक्षणोक्त एवातजिति न बहुलकाश्रयप्रसक्तिः । अत एव रुशंतमग्निं दर्शतं बृहंतम् । तरणिर्विश्वदर्शत इत्यादिवेदभाष्यैर्दर्शतशब्दो भृमृदृशीति सूत्रेण दृशेरतच्प्रत्ययांतत्वेनैव व्याख्यातः । परं तु तत्पाठेपि दरतेः शीङ्श्चात्च् बाहुलकादाश्रयणीयः । अत्र च मरतेर्दृशेश्चेति साम्ये तथैव पाठनिर्बन्धो नवीनस्यायुक्तः । मन्त्रविरोधस्तु तदुद्भावितो नायाति । बाहुलकादपि मन्त्रप्रयोगोपपत्तेः । भाष्ये दृशेरतजित्युक्तिरपि पाठान्तराभिप्रायेण वा बाहुलकाभिप्रायेण वेयं सङ्ख्यानाभिप्रायेण वोपपन्नेति तद्विरोधोपि तदुद्भावितो दशपादीपाठ इति ज्ञातव्यम् । वायवायाहि दर्शतेत्यत्र तु नातच्प्रत्ययः । किंतु दृशेर्भावेयञि दर्शशब्दं व्युत्पाद्य तनोतेश्च डप्रत्ययं व्युत्पाद्यदर्शोदर्शनं तेन तस् ततः दर्शतेति ऋग्भाष्यटीकोक्तरीत्या डप्रत्ययं धातुद्वयमेवेति ज्ञेयम् । कथं निरुक्त इत्यतस्तत्प्रकारं दर्शयति । मूले वशब्दो बलवाची । न तत्र व्युत्पादनापेक्षेत्याशयः । तथैव टीकाकृता वायवायाहीत्येतत्ऋग्भाष्यटीकायामुक्तेः । अयतिर् गत्यर्थ इत्यादि मूलम् ऋग्भाष्यटीका तट्टीकामनुसृत्य व्याख्येयम् ।
इतीत्यस्येति । निरुक्त इति पूर्वेण सम्बन्धः । मूले भरणगमनयोः कर्त्रिति । भारतिज्ञानरूपत्वादित्यृग्भाष्यानुसारेण तट्टीकायां भादीप्तावित्यादिकमुक्तमित्यविरोधः । इदमपि वाय्विति पूर्वोक्तरीत्या सुज्ञेयमिति भावेन महत्वव्याख्याने तथोक्तम् । धातुसमुदायमिति । तथाचेष्टमेव सिध्यति । नत्वनिष्टमपि । भृञष्टिलोपस्त्वनिष्ट इति भावः । वातेरुणिति पाठः । मञ्जरीशेष्याद्यनुसारेणाह । यावत्सिद्धमसिद्धं वेत्यादि । गण्डयतेरिति । गण्डिवदनैकदेश इति धातुपाठः । मञ्जरीशेष्याद्यनुसारेण यन्मूलमित्यादिना मूलरूपस्य बलात्मकत्वादिकमुक्तं तदनुवादपूर्वकम् इच्छामेवेत्याद्यतिदेशमन्यत्र कृतं योजयति । न केवलमिति । अत्रैवमिति पाठे एवमित्यस्य बलात्मकत्वादिविशिष्टमित्यर्थः । एवेति पाठे एवंविधमिति शेषः । पक्षद्वयेऽपि यस्येत्यतः पूर्वं किं त्विति पूरणीयाम् । निहितत्वस्याधिकरणोपेक्षत्वाद्वपुष इत्येतन्मन्त्रतात्पर्यमुक्तं यस्यावतारेष्विति । निहितमित्यस्य स्थापितमित्यर्थः । भगवतेति शेष इत्येतद्ग्रन्थानन्तरं निहितमितीत्यादिः सूचितो भवतीत्याहुरित्यन्तो ग्रन्थः । तत्राहुरित्यनेनोक्तयोजनायास्तत्वप्रकाशिकानुसारित्वेऽपीह तत्वप्रकाशिकावन्निहितमित्यस्य योजनाभावेनोक्तमन्त्रयोजना सूचनायोगः । अत एव निहितमित्यस्य प्रेरितमिति व्याख्यानमवतीर्णं चेति पूरणं चायुक्तम् । न केवलमित्येतन्मूलाननुसारित्वादित्यस्वरसः सूचितः । सत्येव व्याख्यान इति । इति व्याख्यानद्वयं सिद्धवत्कृत्यार्थान्तरमाह । अपिः पदार्थे सोपपादनमर्थान्तरमिति । अनेन मूलस्थैकयोजनामात्रम् । टीकोक्ततदन्तरोपलक्षणं नयपदव्युत्पादनं चात्राधिकमित्युक्तं भवति । कृतत्वादिति । कृतमात्वं यस्य तस्मादित्यर्थः । मूले कर्मणीति । इदं चातोनुपसर्ग इति सूत्रे कर्मण्यणित्यतः कर्मणीत्यनुवृत्ति संभवस्थलानुसारेणास्तीति पक्षाश्रयणेन नत्वनुवृत्तिनियममित्यभिप्रेत्य । तदभावात् । तथाचैतत्तथा अधिरणीयटीकायां वायवायाहीत्येतत्सम्बन्धिटीकाव्याख्याने चास्मदीये द्रष्टव्यम् । अत एवाक्षयं पुरुषस्याक्षमित्ये तत्तत्वनिर्णयटीकायां नञुपपदे क्षैक्षय इत्यस्मादित्युक्तमिति ज्ञातव्यम् । किं निमित्तत्वादिति । इटश्चात्र प्रसक्तयभावेन किन्निमित्तमित्यस्यैवावाच्यत्वात्तस्य चासम्भवादित्याशयः । न वशब्दस्येति । शब्दस्य न शास्त्रेति योज्यम् । वचसीति सप्तमीविषयसप्तमीति न कृतमित्येतत्सम्बन्धानुपपत्तिरिति भावेनोक्तं वचनविषय इति ।