०९ पादार्थोपसंहारः

अतो जगद्व्यापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण

पादार्थोपसंहारः

अतो जगद्व्यापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण

सुधा

अपव्याख्याननिराकरणमुपसंहरन्पादार्थं सङ्क्षेपेणाह अत इति ।

अनुव्याख्यानम्

अतो जगद्व्यापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।

अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥७॥

जगच्छब्देन स्वी(स्यकी)यावरमुक्ता गृह्यन्ते । जगद्व्यापारवर्जमित्येतन्मुक्तेतरजगद्विषयम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनियामका एवेत्यवक्ष्यत् । तथा चानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं न तु पारमेश्वरम् । अजात् परमेश्वरात्तमविहायेत्यर्थः । तत्प्रसादादिति वा ॥ ४४७ ॥

वाक्यार्थचन्द्रिका

मुक्तेतरजगद्विषयमित्येतदुपलक्षणम् । मुक्तेष्वपि स्वसमानोत्तममुक्तविषयमित्यपि द्रष्टव्यम् ॥ अन्यथेति । जगद्व्यापृतिमन्त इति विणस्य जगद्व्यापारवर्जमित्येतन्मुक्तेतरजगद्विषयमित्येतदर्थसूचकत्वाभाव इत्यर्थः ॥ अवक्ष्यदिति । आवश्यकत्वात्प्रतिपत्तिलाघवाच्चेत्यर्थः ॥ उक्तार्थमेवेति । ‘अनन्यभृत्यत्वमिहोदितेभ्य’ इत्यादिनोक्तार्थमेवेत्यर्थः । अजादिति ल्यब्लोपनिमित्ता पञ्चमीत्याशयेनाह तमविहायेति । सहभोगेऽपि न मुक्तस्य स्वातन्त्र्यमित्येतदर्थोपपादकत्वेनापि व्याचष्टे तत्प्रसादादिति वेति ॥ ४४७ ॥

***परिमल ***

उक्तार्थमेवेति । स्वावराधिपतिरहिताः किन्तूत्तमाधिपतिमन्त इत्युक्तार्थं न तु सर्वात्मनाऽधिपतिशून्या इति परोक्तार्थमित्यर्थः । अजशब्दस्तत्प्रसादलक्षक इति भावेनाह तत्प्रसादादिति चेति ।

श्रीनिवासतीर्थीया

अपव्याख्यानेति । अनन्याधिपतिरित्यस्य नास्यान्योऽधिपतिर्भवतीति परकृतापव्याख्यानेत्यर्थः । ननु पूर्वं मुक्तस्वकीयावरयन्तृताऽस्तीत्युक्तम् । अत्र जगद्व्यापृतिमन्त इत्युच्यते । तत्र जगच्चब्देन स्वावरामुक्तनियामकत्वस्यापि प्राप्त्या ‘विकारावर्ति चे’त्युक्तविरोधः स्यादित्यत आह जगच्छब्देनेति । ननु स्वकीयावरमुक्तविषयकनियमनादिरूपव्यापृत्यङ्गीकारेऽपि जगद्व्यापरवर्जमिति सूत्रविरोधः स्यात् । तत्र मुक्तामुक्तजगद्व्यापारमत्राप्रतिषेधादित्यत आह जगद्व्यापारवर्जमित्येतदिति ॥ अनेनेति । जगद्व्यापृतिमन्त इति वचनेनेत्यर्थः । कथमनेन तत्सूचनमित्यत आह अन्यथेति । सूत्रविरोधपरिहारसूचनस्यानभिप्रेतत्व इत्यर्थः । स्वावरमुक्तनियामका एवेत्यवक्ष्यदिति । न तु जगद्व्यापृतिमन्त इतीत्यर्थः ॥ अयं भावः ॥ पूर्वं मुक्तस्वकीयावरनियन्तृताऽस्तीत्युक्तत्वात्संक्षेपतः पदार्थकथनसमयेऽपि तदनुसारेण स्वावरमुक्तनियामका एवेति स्पष्टमेव वक्तव्यं न तु जगद्व्यापृतिमन्त इति । तेन ज्ञायते जगच्छब्द उक्तरीत्या स्वकीयावरमुक्तपरः । जगद्व्यापारवर्जमिति प्रतिषेधस्तु मुक्तेतरजगद्विषय इति । तथा चोपक्रमे मुक्तस्वावरनियामकत्वमुक्तमुपसंहारे च जगद्व्यापृतिमन्त इति । सूत्रे च जगद्व्यापृतिः प्रतिषिद्धा । एतत्त्रयान्यथाऽनुपपत्त्या ज्ञायते उपसंहारे जगच्छब्द उपक्रमानुसारेण स्वावरमुक्तपरः सौत्रो जगच्छब्दोऽमुक्तपर इति प्रतिपत्तव्यमिति । केचित्तु अन्यथेत्यस्य जगद्व्यापृतिमन्त इत्यत्र जगच्छब्देन स्वकीयावरमुक्तानामग्रहण इत्यर्थः ॥ स्वावरेति । उपक्रमे मुक्तस्वकीयावरयन्तृताया उक्तत्वादुपसंहारेऽपि तथैव वक्तव्यमित्यर्थ इत्याहुः ॥ तथा चेति । मुक्तस्वकीयावरयन्तृत्वे सिद्धे सतीत्यर्थः ॥ उक्तार्थमेवेति । ‘अनन्यभृत्यत्वमिहोदितेभ्य’ इत्युक्तप्रकारेणेत्यर्थः । अजादिति ल्यब्लोपनिमित्ता पञ्चमीत्यभिप्रेत्य व्याचष्टे तमविहायेति । तत्समीप इत्यर्थः ॥ ४४७ ॥

॥ इति अनन्याधिपतित्वाधिकरणम् ॥