त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः
श्रुतेरभेदपरत्वेऽनुपपत्तिः
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः
सुधा
भवेदेतद्यद्यमुनाऽनेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेत । न चैवम् । किं नाम । अमुना रूपेणामुष्य तादात्म्यं प्राप्य, तथाऽनेन रूपेणास्य तादात्म्यं प्राप्येति । न चैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ।
अनुव्याख्यानम्
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ॥
चशब्दस्तत्समान(नार्थ)प्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देवं प)दयं परस्याभिलाषः श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदन्तयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)मुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमोऽयमर्थः श्रुत्यभिप्रेत इति । न चैतदस्तीति ।
वाक्यार्थचन्द्रिका
प्रत्ययान्तरेति । भाववाचकतल्प्रत्ययरूपप्रत्ययान्तरेत्यर्थः ।
***परिमल ***
शङ्कते भवेदिति । अमुना रूपेणेत्यनुवादः । अमुष्य तादात्म्यमाप्येत्यर्थोक्तिः । एवमग्रेपि ॥ प्रत्ययान्तरेति । तल्प्रत्ययेत्यर्थः ॥ रूपेणेति पदस्येति । समुच्चयार्थ इत्यनुकर्षः । रूपेणेति पदमपि अतिहायेत्यर्थकतया अपिशब्दः समुच्चयार्थ इत्यर्थः । ल्यबन्वयघटनाय क्रियान्तरमाह प्रवृत्तायामिति । इहेत्यनुवादः श्रुताविति व्याख्या । अस्फुटत्वान्निकृष्य स्वयमर्थं व्यनक्ति भवेदेवमिति ।
श्रीनिवासतीर्थीया
प्रत्ययान्तरेति । तल्प्रत्ययेत्यर्थः । ‘तस्य भावस्त्वतलावि’ति सूत्रादित्यर्थः । तथा च त्वप्रत्ययं चशब्दात्तत्समानार्थकं तल्प्रत्ययमपिशब्दाद्रूपेणेतिपदं चातिहाय प्रवृत्तायामिह श्रुतौ । तेन अमुना । अनेन रूपेणेत्यर्थे न भवेदिति मूलार्थे द्रष्टव्यः । प्रत्ययस् त्वतलेरन्यतरः प्रत्ययः । अपिशब्दसमुच्च्येयमर्थं दर्शयति यदि चेति । रूपेणेत्यस्यार्थः ॥ आत्मनेति । अमुख्यतादात्म्यं प्राप्येत्यर्थः । अनेन रूपेणेत्यस्यार्थ आत्मनेति । अस्य तादात्म्यं प्राप्येत्यर्थः ।