०७ मायावाद्युक्तश्रुत्यर्थनिरासः

न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं

मायावाद्युक्तश्रुत्यर्थनिरासः

न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं

सुधा

एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलोकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति न चेति ।

अनुव्याख्यानम्

न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं …….

इह श्रुतौ। लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत आह रवीति ।

अनुव्याख्यानम्

… …. …… …….. रविबिम्बगे हरौ ।

उक्तं पृथक्तच्च पुरैव यस्मात् …… ……..

चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात् कारणात् तद् लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् । आदित्यगतं प्रकृत्य ‘स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे (देवे) देवकामानां चे’ति । तथाऽक्षिगतम् । ‘स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चे’ति । तस्मान्नेति ।

एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति ।

वाक्यार्थचन्द्रिका

श्रुतिं व्याख्यायेति । अथ य एवं विद्वानित्याद्यां श्रुति व्याख्यायेत्यर्थः । विभागेनोक्तमित्येतदेव विशदयति आदित्यगतमित्यादि । ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’ इत्युपक्रमे श्रवणादिति भावः ॥ अक्षिगतमिति । प्रकृत्येति वर्तते । ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’ इत्युपक्रमे श्रवणादिति भावः । एतावताऽपि कथमुक्तशङ्कापरिहार इत्यत आह एतदुक्तं भवतीति ।

***परिमल ***

स्वमतेन श्रुतिं व्याख्यायेति । मुक्तब्रह्मणः परार्वाक्तनलोकमानिनस् तेन सह मुक्तान् प्रति नियन्तृत्वपरेयं श्रुतिरिति व्याख्यायेत्यर्थः । अमुष्मात् सूर्यमण्डलादित्यर्थः । पराञ्च उपरितनाः ॥ अक्षिगतमिति । प्रकृतेत्यनुषङ्गः ।

श्रीनिवासतीर्थीया

विदुषो ज्ञानिनो ऽमुक्तस्य । समुक्तं सम्यगुक्तम् । निराकरोति । लोकाधिपत्यं रविबिम्बचक्षुरन्तर्गतभगवद्धर्मत्वेनोक्तमस्ति तत्ज्ञानिनः फलत्वेन वक्तुं न युक्तमित्येवं निराकरोतीत्यर्थः । प्रकृत्य अधिकृत्य । अक्षिगतं प्रकृत्येति वर्तते ।