०५ श्रौतलोकशब्दस्य मुक्तपुरुषवाचित्वम्

लोका इतीहापि तु लोकिनां वचो

श्रौतलोकशब्दस्य मुक्तपुरुषवाचित्वम्

लोका इतीहापि तु लोकिनां वचो

सुधा

स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद्भवतु मुक्तः । तस्य चात्र लोकाप्तिरेवोच्यते । न तु (मुक्त)स्वकीयावरयन्तृतेत्यत आह लोका इति ।

अनुव्याख्यानम्

लोका इतीहापि तु लोकिनां वचो …….

इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमित्यपिशब्दः । तुशब्दो वृत्तिविद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दोऽपि लोकस्थेषु पुरुषेष्विति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोका इति ।

अनुव्याख्यानम्

…. ……. …. ……. लोका इति ह्येव रवः प्रजासु ।

प्रयुज्यते सर्वजनैः सदैव …… …… …….

हिशब्दः प्रसिद्धौ । प्रयोजनानुसन्धानेन विनेत्येवशब्दः । रवः शब्दः । प्रजासु प्रजाविषये । रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः ।

अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति सर्वजनैरिति शब्दशक्तिज्ञैः ।

प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ।

अनुव्याख्यानम्

……….. ….. …… तन्मानिनो लोकपदेन चोक्ताः ।

लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः ।

वाक्यार्थचन्द्रिका

तुशब्दद्योतितं वृत्तिविमेव सूचयति सम्बन्ध इति । तत्तल्लोकस्थत्व इत्यर्थः ॥ स्फुट एवेति । अतस्तदनिरूपणं न भाष्ये न्यूनत्वापादकमिति भावः ॥ वाच्यमिति । अन्यथा स्वायत्तन्यायविरोधादिति भावः । विषयत्वं सप्तम्यर्थ इति भावेनाह प्रजाविषय इति । तथाऽपि प्रयोजनानुक्तेः किं प्रयोजनमिति शङ्काया नानेन परिहार इत्यतस्तदनुक्तावपि तदनपेक्षत्वसूचनात्तत्परिहार इत्याह रूढेति । अस्वतन्त्रप्रयोगरूपेत्यर्थः । अखण्डशक्त्युपपादकतया भाष्यकारीयप्रयोगबाहुल्यकथनस्योपयोगसम्भवे तत्परित्यागेन प्रयोजनानपेक्षत्वसूचकतया रूढलक्षणात्वोपपादकत्वेन तदुपयोगवर्णनं क्लिष्टमित्यपरितोषात्पक्षान्तरमाह अथवेति । अङ्गीकारवादत्वाल्लक्षणापक्षस्य न पूर्वेत्तरविरोध इत्याशयेनाह किं लक्षणयेति ॥ वाचक इति । ‘लोकस्तु भुवने जन’ इत्यभिधानादिति भावः । अखण्डशक्त्युपपादनानुरूपतया सर्वजनैरित्येतद्व्याचष्टे शब्दशक्तिज्ञैरिति । सर्वजनानामव्यवधानेन प्रकृतत्वेऽपि योग्यत्वाल्लोकानामेव तच्छब्देन परामर्श इत्याह लोकाभिमानिन इति । नन्वस्तु लोकिनां लोकाभिमानित्वं लोकशब्दवाच्यत्वं तु कुत इत्यतोऽभिमन्यमानवाचकानां शब्दानामभिमानिनि मुख्यताया ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामित्यभिमान्यधिकरणसिद्धत्वाल्लोकशब्दस्यापि तदभिमानिवाचकत्वमेवेत्याह अभिमान्यधिकरणन्यायेनेतीति ।

***परिमल ***

इत्युक्त आ(प्त इति)प्तेति । अनेन देवेनेत्यत्र सुधायामुदाहृतछन्दोगश्रुत्युक्तलोकाप्तिमानित्यर्थः । मूलं योजयति इह श्रुताविति ॥ आप्ता इति (प्तेति) । लोकाप्ति(मानित्य)मन्त इत्यर्थः ॥ वृत्तिविशेषेति । लक्षणावृत्तेर्मुख्यवृत्तेर्वा द्योतकः । स्फुट एवेति । आधाराधेयभावरूपो व्यक्त इत्यर्थः ।

यादुपत्यं

यतो वाचक एवेति । ‘लोकस्तु भुवने जन’ इत्यभिधानादिति भावः ।

श्रीनिवासतीर्थीया

सम्बन्धस्त्विति । तत्रस्थरूप इत्यर्थः । शब्दशक्तिज्ञैरिति । ‘लोकस्तु भुवने जने’ इत्यभिधानादिति भावः । तद्विवक्षेति । जनविवक्षेत्यर्थः ।


तद्गास्तु मुक्ता इह लोकशब्दा

तद्गास्तु मुक्ता इह लोकशब्दा

सुधा

अस्तु लोकशब्दस्य जनेषु वृत्तिस्तथाऽप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते । न तावताऽपीष्टसिद्धिः । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते न तु तन्नियमनमित्यत आह तद्गा इति ।

अनुव्याख्यानम्

तद्गास्तु मुक्ता इह लोकशब्दा

अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ॥

तुशब्दोऽवधारणे । इह ये चामुष्मादित्यस्यां श्रुतौ तद्गाः परावरलोकगता मुक्ता एव लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथा उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत्सिद्धम् । तथाऽपि दार्ढ्याय श्रुत्युदाहरणम् । एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः ॥

वाक्यार्थचन्द्रिका

अङ्गीकृत्यापि तद्विवक्षां दूषयति तावतेति । अङ्गीकृत्यापि मुक्तविषयतादूषणमाह आप्तेरेवेति । अन्योन्यनाथा इत्यस्य परस्परनियम्यनियामकभाववन्त इत्यन्यथाप्रतीतिनिरासाय तात्पर्यमाह उत्तमा इति ॥ एतत्सिद्धमिति । मुक्तानामवरनियामकत्वमित्येतत्सिद्धमित्यर्थः । एतेनेति । श्रुत्युदाहरणेनेत्यर्थः । बाधकमिति । लोकशब्दस्य तद्वाच्यलोकपरत्वे लोकिपरत्वव्यवस्थापकश्रुतिविरोधलक्षणमित्यर्थः । नन्वभिमान्यधिकरणन्यायेन लोकशब्दस्य लोकिपरत्वपक्षे कथं लोकशब्देन मुक्तप्राप्तिः । मुक्तानां लोकाभिमानाभावादित्यत आह अभिमानिपक्ष इति ॥ भूतपूर्वेति । मुक्तिदशायां लोकाभिमानाभावेऽपि पूर्वं तदभिमानित्वेनेत्यर्थः ।

***परिमल ***

तद्विवक्षा लोकस्थजनविवक्षा ॥ न तावतापीति । लोकविवक्षयापीत्यर्थः ॥ आप्तिरेवेति । लोकप्राप्तिरेवेत्यर्थः । इहेति व्याख्येयानुवादः ॥ एतत्सिद्धमिति । लोकस्थमुक्तनियन्तृत्वं सिद्धमित्यर्थः ॥ एतेनेति । व्याख्यानरूपश्रुतिकथनेन । लक्षणापक्षे साधकीभूतमिति शेषः । मुख्ये लोकपदस्य लाकेरूपेऽर्थे पैङ्गिश्रुतिविरोधरूपबाधकं चोक्तम् । न केवलं तत्स्थत्वरूपसम्बन्धाख्यं लक्षणाबीजमिति चार्थः ॥ भूतपूर्वगत्येति । मुक्तेः पूर्वं लोकाभिमानित्वं भूतमिति इदानीमपि लोकशब्देन गृह्यन्ते । भ्रष्टाधिकारेऽपि लोके घट्टाधिकार्ययमिति व्यवहारदर्शनादिति भावः ।

श्रीनिवासतीर्थीया

कुतः प्रमाणात् ॥ तावताऽपीष्टसिद्धिरिति । जनविवक्षाज्ञापकसद्भावमात्रेणापि भवतामिष्टसिद्धिर्न भवतीत्यर्थः । कथमित्यत आह मुक्तविषयतायामिति । तथा च लोकशब्दोक्तजनानां मुक्तत्वमित्यर्थः । इदमेव च भवतामिष्टं तन्न सिद्धमिति भावः । अस्तु वा मुक्तविषयकत्वं तथाऽपि भवदिष्टं तन्नियमनमपि अत्र नोच्यत इत्याह आप्तिरेवेति ॥ पैङ्गिश्रुतिरस्तीति । सा चात्र न पठिताऽन्यत्र द्रष्टव्येति भावः ॥ यद्यपीति । मुक्तो लोकान् जनानाप्नोतीति नियमनं तावदुक्तं मुक्तानाममुक्तनियमनस्य निषिद्धत्वात्तदन्यथाऽनुपपत्त्या मुक्तनियमनमेवात्रोच्यत इत्येवमस्य वाक्यस्य मुक्तविषयकत्वं मुक्तस्य विकारावर्तिव्यापारनिषेधादेव सिद्धमिति नैतच्छतिव्याख्यानरूपपैङ्गिश्रुत्युदाहरणं कर्तव्यमित्यर्थः ॥ लक्षणापक्ष इति । लोकशब्दस्य तत्रस्थेषु पुरुषेषु लक्षणेति पक्ष इत्यर्थः ॥ बाधकं चेति । जडभूतलोकनियामकत्वरूपामुख्यार्थाङ्गीकारो न युक्तः । लोकानां विकारत्वेन मुक्तानां विकारावर्तिव्यापारस्य निषिद्धत्वाद्वा तद्गास्तु मुक्ता इह लोक इत्याद्यर्थे पैङ्गिश्रुतिसद्भावेन मुख्यार्थाङ्गीकारे तद्बाधापत्तेरिति बाधकं चोक्तं भवतीत्यर्थः ।