लोकाधिपत्यं च विधातुरेव सर्वात्मना
सर्वमुक्तनियामकत्वं चतुर्मुखस्यैव
लोकाधिपत्यं च विधातुरेव सर्वात्मना
सुधा
यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाह लोकेति ।
अनुव्याख्यानम्
लोकाधिपत्यं च विधातुरेव सर्वात्मना ……….
सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकीयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह इत्याहेति ।
अनुव्याख्यानम्
……. …. …… इत्याह तुरश्रुतिश्च ।
सा चान्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ।
अनुव्याख्यानम्
सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य तु युक्तिमेति ॥
‘स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्ती’ति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतोऽप्येवमित्याह नेति । पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथा च सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव त(स्यैवोत्त)स्योत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः ।
वाक्यार्थचन्द्रिका
सर्वलोकाधिपत्यमिति । परार्वाक्तनलोकाधिपत्यमित्यर्थः ॥ स्वकीयेत्युक्तमिति । परार्वाक्तनलोकवर्तिस्वकीयावरमुक्तनियामकत्वमेव न तु मुक्तामुक्तस्वकीयास्वकीयादिसाधारण्येन तल्लोकवर्तिसकलनियामकत्वमित्यर्थः ॥ सा चान्यत्र द्रष्टव्येति । अत्र सा चान्यत्र पठितेति वक्तव्ये तथाऽनुक्त्वाऽन्यत्र द्रष्टव्येत्येकवचनात्तादृशश्रुतिरुन्नेतव्येत्येव ग्रन्थकृदभिप्रेतमिति विज्ञायते ॥ वक्ष्यमाणेति । ‘नान्यस्य हि युक्तिमेती’त्युत्तरत्र वक्ष्यमाणेत्यर्थः ॥ सर्वेषामिति । न सर्वेषामनवधिकं किं तु यथायोग्यमेवेत्यर्थः ॥ उक्तश्रुतेरेति । तुरश्रुतेरेवेत्यर्थः ॥ निवारितत्वादिति । ‘न प्रेत्य संज्ञाऽस्ती’त्यादिश्रुतेरिति भावः ॥ उक्त एवेति । स्वकीयावरसर्वदेवपूज्यत्वं विधातुरेव; अन्येषां तु यथायोग्यमित्युक्त एवेत्यर्थः ।
***परिमल ***
असङ्कुचितं लोकाधिपत्यमिति भ्रमनिरासायाह इत्युक्तमनुसन्धेयमिति ॥ सा चान्यत्रेति । ‘मुक्तानां न जगद्यत्नस्तथापि विबुधाः सदा । मुक्तानां तु नियन्तारस् तेषां ब्रह्माऽस्य वै हरिरि’ति न्यायविवरणे द्रष्टव्येत्येके । वक्ष्यमाणेति । ‘न चेह विज्ञानफलं समुक्तमि’त्यादिना वक्ष्यमाणेशधर्मत्वादिरूपयुक्तिसमुच्चयार्थ इत्यर्थः । उक्तेति । तुरश्रुतेरेवेत्यर्थः ॥ निवारितत्वादिति । ‘मुक्तस्वकीयावरयन्तृते’ति मूलकृता विकारावर्ति चेति सूत्रकृता चेति भावः ।
यादुपत्यं
सा चान्यत्रेति ॥ उक्तश्रुतेरेवेति । तुरश्रुतेरेवेत्यर्थः ।
श्रीनिवासतीर्थीया
वक्ष्यमाणयुक्तीति । ‘नान्यस्य तु युक्तिमेती’ति वक्ष्यमाणेत्यर्थः ॥ अनवधिकमिति । अधिकारिवर्ग इति शेषः ॥ उक्तश्रुतेरेवेति । तुरश्रुतेरेवेत्यर्थः । अमुक्ताः पूजकाः किं न स्युरित्यत आह अमुक्तानामिति ॥ निवारितत्वादिति । ‘न प्रेत्य संज्ञाऽस्ती’ति श्रुत्येत्यर्थः । अमुक्तानां मुक्तविषयकज्ञानस्यैवाभावे तत्पूजकत्वस्यैवायोगादिति भावः ।