मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरःसराणाम्
मुक्तानां स्वोत्तममात्रनियम्यत्वम्
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरःसराणाम्
सुधा
न केवलं मुक्तानां भगवानधिपतिः किं त्वन्येऽपि यथासम्भवं भवन्तीत्याशयवानाह मुक्तेति ।
अनुव्याख्यानम्
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरःसराणाम् ॥
ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च तेऽवराश्च मुक्तस्वकीयावरास्तन्नियन्तृताऽस्ति । अमुक्तान्प्रति यन्तृता सर्वथा नास्ति । यथाऽऽह सूत्रकारः ‘विकारावर्ति चे’ति । मुक्तेष्वपि कल्पान्तरे मुक्तान्स्वकल्पे मुक्तेष्वप्युत्तमान्समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति ॥
कुत एतदित्यत आह अनेनेति ।
अनुव्याख्यानम्
अनेन देवेन तथामुना च हीष्टे परार्वाक्तनलोकिनामिति ॥
फलं श्रुतिर्ज्ञानत आह …… …… ……..
अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथाऽमुनाऽऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्टे ईशिता भवतीति श्रुतिर्ज्ञानतो मुक्तनियन्तृत्वं फलमाह हीति । अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । अनेन ‘अथ य एवं विद्वा’नित्याद्यां ‘सोऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चे’ति श्रुतिमुपादत्ते ।
नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत्कुत इत्यत आह मुक्ताविति ।
अनुव्याख्यानम्
……. ….. ….. मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ।
एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ इति सर्वपापक्षयलिङ्गात् । न हि मुक्तेरितरत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमानत्वात् ।
वाक्यार्थचन्द्रिका
यन्तृशब्दस्य तृन्नन्तत्वेऽपि तद्योगे न लोकेति षष्ठ्या निषेधेन तत्समासस्य दूरापास्तत्वात् । तृजन्तत्वे च तद्योगे कर्तरि चेति वा तृजकाभ्यां कर्तरीति वा षष्ठीसमासनिषेधेन षष्ठीसमासासम्भवात्कथं समास इत्यतो द्वितीयासमास एवायं श्रितादिषु गम्यादीनामुपसङ्ख्यानाद् गम्यादेश्चाकृतिगणत्वादित्याशयवान् अवरान्प्रति यन्तारो ऽवरयन्तारस्तेषां भावस्तत्तेति विग्रहमभिप्रेत्याह तान्यन्तृतेति । इदं च तृन्योगे न लोकेति योगस्य षष्ठीमात्रनिषेधकत्वम् । निषेधस्य नित्यत्वं कर्तरि चेत्यादेः षष्ठीमात्रसमासनिषेधकत्वं कारकषष्ठीसमासनिषेधकत्वेऽपि निषेधस्य नित्यत्वं चाभ्युपगम्यैव न तु वस्तुतः । यथा चैतत्तथा ‘सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः’ इत्यत्रैव प्रपञ्चितमिति न पुनः प्रपञ्च्यत इति ध्येयम् । मुक्तस्वकीयावरेत्यत्र मुक्तग्रहणप्रयोजनमाह अमुक्तानिति । स्वकीयत्वविणकृत्यमाह मुक्तेष्वपीति । अवरत्वविणस्य तदाह स्वकल्प इति ॥ परोदाहृतेति । जगद्व्यापरवर्जमिति सूत्रव्याख्यानावसरे ‘आप्नोति स्वाराज्यं’ ‘सर्वेऽस्मै देवा बलिमावहन्ति’ । ‘तेषां सर्वेषु लोकेषु कामचारो भवती’ति सङ्करोदाहृतश्रुतीनामित्यर्थः । मुक्तस्वकीयावरयन्तृत्वनिरूपणेन तद्वाक्यानामप्येतदर्थकत्वसूचनादिति भावः ॥ अनन्वयपरिहाराय इतिशब्दाध्याहारेण योजयति इति श्रुतिरिति । चक्षुरन्तस्थप्रसादेन परार्वाक्तनवर्तिनां लोकानामीष्ट इत्यादित्यान्तःस्थभगवत्प्रसादेनापि परार्वाक्तनलोकवर्तिनां मुक्तानामीष्टे इति चक्षुरन्तरस्थप्रसादेन परलोकवर्तिनां मुक्तानामीष्ट इति आदित्यान्तःस्थभगवत्प्रसादेनार्वाक्तनलोकवर्तिनां मुक्तानामीष्ट इति चान्यथाप्रतीतिनिरासाय यथावत्सम्बन्धमाह अत्रेति । ‘अनेन देवेने’त्यादि भाष्यं न स्वरूपेण श्रुतेरनुवादरूपं किं त्वर्थत इत्यभिप्रेत्य तत्सङ्गृहीतां श्रुतिं दर्शयति अनेनेति । मुक्तनियन्तृताया ज्ञानफलत्वस्य श्रुत्यारूढतालाभाय अथ य एवं विद्वानित्याद्यामित्युक्तम् । प्रारब्धपापस्येत्यत्र पापशब्दोऽशुभमात्रपरः । अत एव पाप्मशब्देनाशुभस्य प्रकृत्यादेर्बन्धस्य विवक्षितत्वादिति वक्ष्यतीति ध्येयम् ॥ आमोक्षमिति । लिङ्गदेहभङ्गलक्षणमोक्षपर्यन्तमित्यर्थः । ‘प्रारब्धकर्मस्तु विरजातरणावधिरि’ति वचनात्सतोऽपि प्रारब्धकर्मस्याल्पत्वात् । अल्पत्वे च निःस्वप्रयोगदर्शनात् । ‘वैश्वानरे द्युनद्यां वा देहे वा सूर्य एव वा । विधूय सर्वपापानि यान्ति किन्स्तुघ्नकेशवमि’ति ततः पूर्वमेव सर्वपापविधूननवचनमप्युपपन्नम् । अत एवात्र स्त्विति पदं प्रयुक्तमित्यवधेयम् ।
***परिमल ***
अपिपदान्वयेनानुवादो ब्रह्मपुरस्सराणामपि मुक्ताविति । मुक्तेत्युक्तिकृत्यमाह अमुक्तानिति ॥ (तथा)यथाऽऽहेति । अत्रैव पादे ॥ विकारेति । विकारं संसारम् आवर्तयतीति विकारावर्ति तद्विषयं व्यापरणं मुक्तानां नास्ति । चशब्दो नञनुकर्षणार्थः । इमं मानवमावर्तं नावर्तन्त इति तथाहि दर्शयतीति सूत्रस्यार्थः ॥ इत्याद्युक्तमिति । मुक्तस्वकीयावरनियन्तृतेत्युक्तमित्यर्थः ॥ अनेनेति । मुक्तस्वावरनियन्तृताकथनेन ‘आप्नोति स्वाराज्य’ ‘सर्वेऽस्मै देवा बलिमावहन्ति’ ‘तेषां सर्वेषु लोकेषु कामचारो भवती’त्यादिश्रुतीनां जगद्व्यापारेतिप्रधानसूत्रे परभाष्योदाहृतानां मुक्तस्वकीयावरनियामकविषयत्वेन गतिश्चोक्ता भवतीत्यर्थः । कुत एतदिति । मुक्तस्वकीयावरनियन्तृत्वं कुतो मानाज्ज्ञेयमित्यर्थः । मूलपदानामर्थयोजनां चाह अनेन चक्षुरन्तःस्थेनेत्यादिना । मूले अनेनामुनेत्युक्तिक्रमानुरोधेन परार्वाक्तनलोकिनामित्यपि यथाक्रममन्वेतीति भ्रमनिरासायाह अत्रेति । मूल इत्यर्थः ज्ञानिपरत्वज्ञापनायोक्तम् इत्याद्यामिति । अस्य इति श्रुतिमिति वक्ष्यमाणेनान्वयः ॥ इति श्रुतिमिति । प्रथमाध्यायस्थछन्दोगश्रुतिमित्यर्थः ।
यादुपत्यं
तान् यन्तृतेति । तृजन्तस्य कर्तरि चेति षष्ठीसमासप्रतिषेधात्तृन्नन्तेनायं द्वितीयासमासः । गम्यादावस्याप्युपसङ्ख्येयत्वादिति भावः ॥ परोदाहृतश्रुतीनामिति । जगद्व्यापारवर्जमिति सूत्रव्याख्यानावसरे सङ्करेणोदाहृतानां ‘आप्नोति स्वाराज्यं’ ‘सर्वेऽस्मै देवा बलिमावहन्ति’ ‘तेषां सर्वेषु लोकेषु कामचारो भवती’त्याद्यानां श्रुतीनामित्यर्थः । स्वाराज्यादिपदानां मुक्तस्वकीयावरपरताया अनेन सूचितत्वादिति भावः ॥ आमोक्षमिति । शिंशुमारप्राप्तिरूपमोक्षपर्यन्तमित्यर्थः । न तु लिङ्गशरीरभङ्गरूपमोक्षपर्यन्तमिति । ‘वैश्वानरे द्युनद्यां वा देहे वा सूर्यमण्डले । विधूय सर्वपापानि यान्ति किंस्तुघ्नकेशवमि’ति प्रमाणविरोधात् । ‘प्रारब्धकर्मस्तु विरजातरणावधिरि’ति वचनं तु पुण्यप्रारब्धावस्थानपरमन्यथोक्तवचनविरोधादिति ज्ञातव्यम् ।
श्रीनिवासतीर्थीया
विकारावर्ति चेति । चशब्दान्नञः समाकर्षः । विकारावर्तिव्यापारो मुक्तानां न विद्यत इत्यर्थः । अनेन देवेन तथाऽमुना च देवेन परार्वाक्तनलोकिनामीष्ट इत्यत्र यथायोगं सम्बन्धो न यथाक्रममित्याह अत्रामुनेति । सोऽमुनैवेत्यत्र तच्छब्दो ज्ञानिपरामर्शक इति दर्शयितुम् अथ य एवं विद्वानित्याद्यामित्युक्तम् ।
वाक्यार्थरत्नमाला
श्रुतत्वत इत्यत्रैवेति । तृतीयस्य तृतीय इति शेषः । एतदर्थकत्वसूचनादितीति पाठः । चक्षुरन्तस्थप्रसादेनेत्यादिग्रन्थः प्रथमः । अनेन देवेनेत्यादीत्यादिरित्युक्तमित्यन्तर इति ज्ञेयम् । चक्षुरतस्थ प्रसादेन परार्वाक्तनलोकवर्तिनां मुक्तानामिति पाठः । अन्यादृशस्तु लेखक प्रमादात् । अत्रैकैकप्रसादेनोभयलोकप्रवर्तिनियामकत्वक्रमेणोभयोरुभयनियामकत्वं चान्यथाप्रतीत्वेन दर्शितमिति ज्ञेयम् । मोक्षपर्यन्तमिति पाठः । अत एवात्रेति । प्रारब्धकर्मेति वाक्य इत्यर्थः ।