ॐ अत एव चानन्याधिपतिः ॐ
॥ अथ अनन्याधिपतित्वाधिकरणम् ॥
मुक्तानां क्लृप्तस्वोत्तमान्यनियम्यत्वाभावः सूत्रार्थः
ॐ अत एव चानन्याधिपतिः ॐ
सुधा
ॐ अत एव चानन्याधिपतिः ॐ ॥ इदं (एतत्)सूत्रं कश्चिद्व्याख्याति । अत एव चावन्ध्यसङ्कल्पत्वा(देवान)दन्यानधिपतिर्विद्वान्भवति । नास्यान्योऽधिपतिर्भवतीत्यर्थ इति । तदिदमसदिति भावेनाह अनन्येति ।
अनुव्याख्यानम्
ॐ अत एव चानन्याधिपतिः ॐ ॥
अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥
इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तं तत्तूदितेभ्यो ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्यो ऽन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । न तु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथाऽपतिरित्यवक्ष्यत् ।
इतश्चैवमेवेत्याह पतिमिति ।
अनुव्याख्यानम्
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्घरेः ॥
यद् यस्माद्धरेरमृतत्वस्योत यत्पतित्वं तस्य वाक् ‘उतामृतत्वस्येशान’ इति श्रुतिरिति यावत् । विष्णुमेषां मुक्तानां पतिमाह । ततोऽप्युक्त एव सूत्रार्थो नापर इति ।
वाक्यार्थचन्द्रिका
ॐ अत एव चानन्याधिपतिः ॐ ॥ अन्यथेति । तदुक्तेः सर्वथाऽधिपतिनिवारणार्थत्व इत्यर्थः ॥ अवक्ष्यदिति । तावतैव विवक्षितप्रमेयसिद्धेरिति भावः ।
***परिमल ***
ॐ अत एव चानन्याधिपतिः ॐ । विद्वान् ब्रह्मज्ञानी यत्तच्छब्दाध्याहारेण योजयति तदनन्येति । उदितेभ्य इत्यनुवादः य इत्यादि व्याख्या ॥ हरेरिति । यत्पतित्वमित्यन्वयः । कस्य पतित्वमित्यत आह अमृतत्वस्योतेति । मुक्तवर्गस्यापीत्यर्थः । मूले अर्थानुवाद इति भावेन तद्वाक्यमाह उतामृतत्वस्योतेति । मुक्तवर्गस्यापीत्यर्थः । मूले अर्थानुवाद इति भावेन तद्वाक्यमाह उतामृतत्वस्येति । ‘मुक्तवर्गस्यापीशान इत्यर्थः ।
श्रीनिवासतीर्थीया
ॐ अत एव चानन्याधिपतिः ॐ ॥ अवन्ध्यसङ्कल्पत्वादिति । सर्वथा पतिशून्यो भविष्यामीति सङ्कल्पवशादिति भावः ॥ अनन्यभृत्यत्वमिति । अन्योऽधिपतिरस्य नास्तीत्युक्तेऽयमन्यभृत्यो न भवतीति लब्धमित्यर्थः । इत्यवक्ष्यदिति । लघु चैवं सति सूत्रं स्यादिति भावः ।
वाक्यार्थरत्नमाला
मूले अत एव चानन्याधिपतिसूत्रपाठः । मूलकोशे तथैव सत्वात् । सूत्रभाष्ये तथैव पाठाभिप्रायेणैव चशब्दो विपक्षव्यावृत्यर्थ इत्युक्तेः । पूर्वपक्ष्यभिमतराजग्रहादिनिविष्टस्याधमनियम्यत्व वत्स्वावरनियम्यत्वमिति शङ्कानिरासार्थत्वस्य तत्त्वप्रकाशिकायामुक्तेश्च । तद्विवरणं च तत्वप्रकाशिकावाक्यार्थप्रदीपेऽस्मत्कृतं द्रष्टव्यम् । तत्वप्रदीपादौ चर्चार्थकथनादिकमस्मि । परभाष्येप्येवमेव पाठः । व्याख्यानावसरे चात एव चा वन्ध्य संकल्पत्वादेवेति पाठः । तथैव परभाष्ये सत्वात् । यत्र क्वचिदनन्याधिपतिरित्येव पाठस् तत्र न च शब्दाभवो निमित्तम् । अपि तु भाष्ये पूर्वपक्षप्रदर्शनेन सिद्धान्ताभिधानं पूर्वपक्षप्रतिक्षेपार्थतया चशब्दयुक्तं संपूर्णसूत्रमुपात्तम् । अत्र तु परोक्तमनन्याधिपतिरित्यस्य व्याख्यानमात्रं निराक्रियत इति चशब्दत्यागेनावशिष्टमेव सूत्रं पठितम् । एवमेव द्वितीयपादीयटीकास्थानुवादोपि योज्य इति ज्ञेयम् । अमृतत्वस्योत यत्पतित्वमिति मूले उतामृतत्वस्येति न श्रुतिवाक्यं किंतु स्ववाक्यमेव । वागित्येव श्रुत्युपादानमिति सूचितं भवति ।