अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः
अथ चतुर्थाध्यायस्य चतुर्थः पादः
एतत्पादीयपूर्वपक्षसिद्धान्तयुक्तयः
अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः
सुधा
पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तीरेवाह अतिक्रमेति ।
अनुव्याख्यानम्
अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे ॥
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमताऽस्तदोषः ।
विक्लृप्तिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥
अन्यपक्षे पूर्वपक्षेषु । सुनिर्णयः सिद्धान्तनिर्णयो ऽर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः ॥
वाक्यार्थचन्द्रिका
नन्वेकवाक्यतासिद्धये पादप्रतिपाद्यस्य, तस्य सङ्गतेश्चावश्यवक्तव्यत्वात्तदनुक्तेमूले न्यूनत्वमित्यतो ‘भोगमाहास्मिन्पाद’ इति भाष्या‘त्कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयमि’त्यनुव्याख्यानाद्वा तयोः सिद्धत्वान्न तदनुक्तिर्न्यूनत्वापादिकेत्याशयवानाह पादेति । अत इत्यतःपरं तदुभयमनुक्त्वेति शेषः ॥ पूर्वोत्तरेति । अन्यथा ‘व्याख्यां करोम्यन्वपि चे’ति प्रतिज्ञाव्याघातादिति भावः । सिद्धान्तस्यापि पूर्वपक्षादन्यत्वादन्यशब्देन तत्प्रतीतिं निवारयन्नेव जात्यभिप्रायमेकवचनमित्याशयेनाह पूर्वपक्षेष्विति । सिद्धान्तस्यैव सुनिर्णयविषयत्वाद्युक्तीनां तदसम्भवेन षष्ठीतत्पुरुषानुपपत्तेः सुनिर्णयस्य साध्यत्वालाभेनार्थशब्देन चतुर्थीसमासस्याप्यनुपपत्तेर्बहुव्रीहिपक्षेऽपि सुनिर्णयशब्दस्य यथार्थनिर्णयमात्रपरत्वे तत्प्रयोजनत्वलाभेऽपि सिद्धान्तनिर्णयप्रयोजनकत्वालाभात् तल्लाभाय सुनिर्णयशब्दार्थकथनपूर्वकं बहुव्रीहिमेवाह सुनिर्णय इति । पूर्ववाक्यादनुवर्तत इत्याशयेनाह युक्तय इति ।
***परिमल ***
प्रसिद्धैवेति । ‘कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोग’ इति प्रागुक्तदिशेति भावः ॥ अतिक्रमेत्यादिमूलपदानामयं सम्बन्धः ॥ सम्पद्याविहाय स्वेन शब्दात्, अतिक्रमोक्तिः पूर्वपक्षस्य युक्तिः सामान्यरूपं सिद्धान्तस्य ॥ मुक्तः प्रतिज्ञानात्, कृतिः प्रतिभानम् ॥ आत्मा प्रकरणात्, अर्थलाभ उक्तः ॥ अविभागेन दृष्टत्वात्, परागतिर् आश्चर्यता ॥ ब्राह्मेण जैमिनिः, परागतिर् अकृत्रिमता ॥ सङ्कल्पादेव च, तदोको ऽस्तदोषः ॥ अत एव चानन्याधिपतिः, तदोको ऽस्तदोषः ॥ अभावं बादरिः, समस्तकार्यं विक्लृप्तिः ॥ जगद्व्यापारवर्जं, समस्तकार्यं विक्लृप्तिः ॥ स्थितिमाह दर्शयतश्चैवं, वशिता कृतनिश्चयः ॥ अनावृत्तिश्शब्दात्, विश्वसम्भावना माहात्म्यम् ॥ युक्तय इति पूर्वत्र श्रवणात्तदनुवृत्तिं मत्वाह सुनिर्णयार्था इति ।
यादुपत्यम्
प्रसिद्धैवेति । ‘भोगमाहास्मिन्पादे’ इति वा, ‘कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयमि’ति पूर्वग्रन्थे वेति शेषः ।
वाक्यार्थरत्नमाला
सिद्धत्वान्न तदनुक्तिरिति । अनेन तत्सङ्गतिश्च सिद्धैवेत्येव मूलपाठः । प्रसिद्धैवेति पाठेऽपि सिद्धत्वमेवार्थ इति सूचितं भवति । सुनिर्णयविषयत्वादित्युक्तयाऽर्थशब्दोयं विषयवाचित्युक्तं भवति ॥ षष्टीतत्पुरुषेति । सुनिर्णयस्यार्थाः सुनिर्णयार्थाः षष्ठीतत्पुरुषेत्यर्थः । उपलक्षणं चैतत् । युक्तानां सुनिर्णयप्रयोजनत्वापत्यार्थशब्दस्य प्रयोजनार्थत्वेऽपि षष्ठीतत्पुरुषानुपपत्तिरिति ध्येयम् । चतुर्थीसमासस्यापीति ॥ सुनिर्णयायायं सुनिर्णयार्था इति देवदत्तायायं देवदत्तार्थं पय इत्यादौ सुरूपादेर्देवदत्तार्थत्वेऽपि देवदत्तस्य तदसाध्यवत्सुनिर्णयास्याप्यसाध्यत्वमिति भावः । बहुव्रीहिपक्षेऽर्थशब्दस्य विषयपरत्वम् । सुनिर्णयस्य मुक्तिविषयत्वाभावादयुक्तमिति मत्वाह । सुनिर्णयशब्दस्येति ।