चतुर्थाध्यायस्य तृतीयः पादः
चतुर्थाध्यायस्य तृतीयः पादः
ॐ ॥ अर्चिरादिना तत्प्रथितेरित्यधिकरणे तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथक्पृथक् मार्गसुक्रमोपपत्तेरिति सुक्रम एव पूर्वपक्षप्रापकः । ‘‘सर्वे वा एते उत्क्रामन्ति तेऽर्चिषमेवाभियन्ति ततो वायुं ततोऽहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः द्वे सृती अृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चे’’ति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तत्वादिति श्रुतिविशेषाख्यविशेषसम्प्राप्तिरेव सिद्धान्तस्थापिका । अहं पितॄणां देवानां च द्वे सृती मार्गौ अृणवम् । उत मर्त्यानां स्वर्गलोकादधः पतताम् एकं मार्गमृणवम् इति पूर्वेणान्वयः । ताभ्यामेजत् ‘‘एजृ कंपने’’ इति धातोः कर्मिणो ज्ञानिनश्चेति द्विविधविशिष्टचेष्टायुक्त जगद्येति । देवयानेन विष्णुलोकं पितृयानेपेन स्वर्गलोमन्तरा इमौ द्वौ मार्गौ विना मध्ये यन्मर्त्यानां वर्त्म तेन पितरं मातरम् एतीति श्रुत्यर्थः ॥ ४३१ ॥
वायुशब्दादविशेषविशेषाभ्यामित्यधिकरणे ‘‘अर्चिषो वायुमागच्छति अर्चिषोऽहरागच्छति’’ इति श्रुतिद्वयोक्तयोर् अहर्वायोरुभयोरपि अधिकारिभेदेन द्वितीयप्राप्यत्वे मार्गद्वयस्यापि एकग्रामप्रापकत्वदर्शनेन सुक्रमः स्यादिति पुनरपि सुक्रम एव पूर्वपक्षप्रापकः । ‘‘स इतो गतो द्वितीयां गतिं वायुभागच्छती’’ति वायोर्द्वितीयगम्यत्वेन विशिष्य श्रवणाद् अर्चिषोऽहरिति सामान्यवचनं तृतीयप्राप्यतयापि नेयमिति विशेष एव सिद्धान्तस्थापकः ॥ ४३२ ॥
तटितोऽधिवरुणः सम्बन्धादित्यधिकरणे ‘‘संवत्सराद्वरुणलोकं संवत्सरात्तटितमागच्छती’’ति श्रुतिद्वयविगानदर्शनादधिकारिभेदेन र्मागद्वयकथने पूर्ववत् सुक्रम इति सुक्रम एव पूर्वपक्षप्रापकः । ‘‘तटिता ह्यूह्यते वरुणलोक’’ इति तटितो वरुणलोकस्य च वाह्यवाहकभावसम्बन्धकथनात् संवत्सरात्तटिदेव प्राप्या । संवत्सराद्वरुणलोकमिति सामान्यवचनं तु पूर्ववत्तृतीयप्राप्यतयाऽपि नेयमिति विशेष एव सिद्धान्तस्थापकः
॥ ४३३ ॥
वैद्युतेनैव ततस्तच्छतेरित्यधिकरणे ‘‘सोमादग्निम् अग्नेरिन्द्रमि’’ति सोमादवरस्याग्नेरपि प्राप्तेर् वैद्युतशब्दोक्तप्रधानवायोर् ब्रह्मणोऽर्वाक् कश्चिदवरः प्राप्योऽस्त्विति क्वचिद् विरुद्धक्रमाख्यविक्रम एव पूर्वपक्षप्रापकः । उत्तमत्वात्तस्यैव ब्रह्मप्रापयितृत्वशक्तेर्न मध्येऽन्यः कल्पनीय इति सम्यक् ब्रह्मणः प्राप्तर्यस्मात्स इति सम्प्राप्तिः सिद्धान्तस्थापिका ॥ ४३४ ॥
कार्यं वादरिरस्य गत्युपपत्तेरिति सूत्रे चतुर्मुखमुक्तिपर्यन्तं बन्धस्य सन्ततत्वनियमात्तावत्परब्रह्मप्राप्तिर्नास्ति । किंतु कार्यब्रह्मप्राप्तिरेवेति सान्तानिकत्वमेव पूर्वपक्षप्रापकम् । परं जैमिनिर्मुख्यत्वादिति सूत्रे परब्रह्मण एव ब्रह्मशब्दमुख्यार्थत्वेन प्रथमप्राप्तत्वादवरोहायुक्तेस् तस्यैव प्राप्तिनियम इति प्राप्तिः पूर्वपक्षप्रापिका । न च कार्ये प्रतिपत्त्यभिसन्धिरिति सूत्रे परप्राप्तिर्यस्याभीष्टा तस्य तत्प्राप्तिरिति नियमः । न तु प्राप्नुवानीत्यभिसन्धिरहितकार्यप्राप्तिरित्यभीष्टतैव पूर्वपक्षप्रापिका । बहुधा श्रुतेर्यथासौकर्यं चतुर्मुखस्य परस्य वा प्राप्तिरिति सौकर्यमेव श्रुतिद्वयविगानपरिहाराय कस्यचित्पूर्वपक्षप्रापकम् ॥ ४३५ ॥
अप्रतीकालम्बनान्नयतीत्यादिसिद्धान्तसूत्रे ‘‘यान्ति देव परं केचित् पूर्वं केचिल्लये विभुम् । योग्यतातारतम्येन विशेषोऽयमपीष्यते ।’’ इति श्रुतेर्योग्यतातारतम्यबलेन केषाञ्चिदवरत्वात् केषाञ्चिदुरुत्वादुच्चनीययोरेकप्रकारप्राप्त्ययोगेन न तथा प्राप्तेर्यथा श्रुतौ कथितं तथैव परब्रह्मप्राप्तिरिति वादरिमतप्राप्तपूर्वपक्षस्योरुत्वमेव सिद्धान्तस्थापकम् । परं ब्रह्मैव प्राप्नुवन्तीति जैमिन्युक्तपूर्वपक्षस्याप्युक्तश्रुतावेव ‘‘केचिल्लये विभुमि’’ति केषाञ्चित् परान्तकालह एव परब्रह्मप्राप्त्युक्तेः सर्वेषां पूर्वमेव परब्रहमप्राप्तिरिति नियमो नेत्याप्तिरेव सिद्धान्तस्थापिका । ‘‘क्रमानुरागी भगवान् क्रमात्पुम्भिरवाप्यते । अतः क्रमात्समृद्धे तु ज्ञाने ब्रह्मलये नरैः । प्राप्यते नियमेनैव कैश्चिदेवाप्यते मृता’’विति भगवतः क्रमानुरागस् तृतीयपूर्वपक्षस्य सिद्धान्तस्थापकः । ‘‘प्रतीकाश्चतुर्मुखमप्रतीकाश्च परममुहैते गच्छन्त्यागच्छन्ति च । चतुर्मुखात्परमं परमाच्चतुर्मुखं यावद्विलयम् । अथ सह चतुर्मुखेन विमुच्यन्ते । आनन्दिनो भवन्ती’’ति श्रुत्युक्तानुवृत्तेरेव न्याय्यत्वात् । अप्रतीकालम्बनाः परमं प्राप्नुवन्ति । कदाचित् स्वेच्छया चतुर्मुखं चाप्नुवन्ति प्रतीकालम्बनास्तु चतुर्मुखमेवेति कथितानुवृत्तिरेव यथासौकर्यं चतुर्मुखप्राप्तिर्वा परब्रह्मप्राप्तिर्वेति पूर्वपक्षस्य पूर्वोक्तपूर्वपक्षत्रयस्य च सिद्धान्तस्थापिका इति बादरायणस्य मतम् । न चैतेषां मतानां परस्परविरोधः शङ्कनीयः । बादर्युक्तप्रकारेण प्रतीकालम्बनानां चतुर्मुखप्राप्तिरेव । अप्रतीकालम्बनानां तु जैमिन्युक्तरीत्या परब्रह्मप्राप्तिरेव । स्वेच्छयाऽपि परब्रह्मप्राप्तियोग्यानामेव परब्रह्मप्राप्तिः । कार्यब्रह्मप्राप्तियोग्यानां तु तत्प्राप्तिः । नतु सर्वेषामनियमेव बादरिजैमिन्युक्तरीत्यानियमेन च प्राप्तिर्न । अतः सर्वथा विरोधो न । ईषद्विरोधस्तु उभयथा च दोषादिति सर्वमतेष्वपि ईषदीषद्दोषदर्शिव्यासवत् सर्वज्ञत्वाभावान् न दोषाय । अत एव किचिन्मतभेदे सत्यपि सर्वथा मतभेदाभावादैकाधिकरण्यमिति सर्वमवदातम् ॥ ४३६ ॥
इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां चतुर्थाध्यायस्य तृतीयः पादः ॥