सुक्रमविक्रमौ च
पूर्वपक्षसिद्धान्तयुक्तयः
सुक्रमविक्रमौ च
सुधा
अत्राधिकरणेषु पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्चाह सुक्रमेति ।
अनुव्याख्यानम्
……. ……. ……. सुक्रमविक्रमौ च ॥
अनुव्याख्यानम्
सान्तानिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः ॥
विसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥
सिद्धान्तनिर्णीतिकराः ……. ……. …….
अन्यमतस्येति जातावेकवचनम् । सिद्धान्तनिर्णीतिकरास्तर्का इति शेषः ॥
वाक्यार्थचन्द्रिका
एतत्पादीयतत्तदधिकरणनिरसनीयपूर्वपक्षाणामनेकत्वादन्यमतानामिति बहुवचनेन भवितव्यम् । अन्यमतस्येत्येकवचनं तु कथमित्यता नेदं व्यक्त्यैक्यनिबन्धनमेकवचनं किं नाम जातिरूपार्थैक्यनिमित्तकमेवेति नानुपपत्तिरित्याह अन्यमतस्येतीति ।
***परिमल ***
सुक्रमेत्यादेर्मूलस्थस्यायं सम्बन्धः । अर्चिरादिना तत्प्रथितेः सुक्रमः पूर्वमतस्य युक्तिर् विसम्प्राप्तिः सिद्धान्तस्य ॥ वायुशब्दादविविशेषाभ्यां सुक्रमः विसम्प्राप्तिः ॥ तटितोधिवरुणः सुक्रमः विसम्प्राप्तिः ॥ आतिवाहिकस्तल्लिङ्गात् सुक्रमः विसम्प्राप्तिः । वैद्युतेनैव ततस्तच्छतेर् विक्रम उरुत्वम् । कार्यं बादरिः सान्तानिकप्राप्तिर् अभीष्टता च सौकर्यमिति पूर्वपक्षयुक्तयः । आप्तिः क्रमानुरागःकथितानुवृत्तिरिति सिद्धान्तस्य । पूर्वत्र तर्का इति श्रवणादत्रापि तथैवेति भावेनाह तर्का इति इति ।
वाक्यार्थरत्नमाला
जातिरूपार्थैक्यनिमित्तकमेवेतीति पाठः ॥
आनन्दाब्धिप्रजातत्रिदशतरुगुरुश्रीनिवासानुजश्री
विद्याधीशाख्यरत्नाद्भुतविदमृतगोः केशवाचार्यवर्यात् ।
रुग्मिण्यायां प्रजातस्य विबुधनरसिंहस्य गुर्वीय
सौधव्याख्यापाठादिशोधात्मकविवृतिकृतौ मार्गपादः समाप्तः ॥
इति श्रीमत्सकलविद्वच्चक्रचूडामणिश्रीगुरुराजवर्यविरचितश्रीमन्यायसुधाव्याख्यानरूपवाक्यार्थचन्द्रिकाया व्याख्यापाठादिशोधे गुरुराजपुत्रनरसिंहकृते चतुर्थाध्यायस्य तृतीयः पादः ॥