चतुर्थाध्यायस्य द्वितीयः पादः
चतुर्थाध्यायस्य द्वितीयः पादः
अतो विभागेनोक्तिर्युक्तेति वदता देवानां मोक्षो न देहात् । येन साऽप्युत्क्रातिः स्यात् । किंतु देहनाश एव । आद्ये मोक्षानुवादेनेत्यत्र मोक्ष इति चतुष्टयं फलं प्रोक्तः । अन्यथा प्रोक्त इति पुल्लिङ्गासम्भव इति भावः । द्वितीयत्यत्र इति चतुष्टयं फलं मोक्ष इति प्रोक्तमित्यर्थः । तत्रापि भोग इत्यतः परमिति शब्द आवर्तनीयः । चेतननिष्क्रमणात् प्रागेवेति वदता सर्पस्य मण्डूकदेह इवेति सूचयति । व्यधिकरणे षष्ठ्यौ इति वदता अर्चिरादीनां ये लोकास्तेषामित्यर्थ उक्तो भवति । विधौ भवेदिति प्रयोगः सार्वधातुकः । भूयादिति प्रयोगस्त्वार्धधातुकः । आशिषि तु सोऽपि सार्वधातुक एवेति वैयाकरणानां प्रक्रिया । अत आर्धधातुकत्वाद् भूयादिति साधुरित्युक्तम् । तस्मिन् पक्षे साध्यमादौ इत्यत्र तं हरिं प्राप्यावस्थितानामपि मुक्तिर् ब्रह्मणा सहैव भवति । यतस्तथा भूयादिति आशीरिति योजना । अनन्तचतुष्टयावाप्तिरित्यत्र अनन्तचतुष्टयमात्यन्तिक दुःखनिवृत्तिः प्रभाव्याप्त्यादिकं सुखार्थायां मन्दगतौ व्यभिचारापातादित्यङ्गीकृत्योक्तम् । क्षणेक्षणे पादोद्धरणपाद विक्षेपादिना तत्रापि किञ्चि दुःखमस्त्येव । अतो गतित्वादित्येवोक्ते न कुचोद्यावकाश इति द्रष्टव्यम् । दूरत्वस्य चानियतत्वादित्यत्र मन्दगतौ व्यभिचारपरिहाराय दूरगतित्वादिति वक्तव्यम् । तच्चानियतमिति भावः । अपरिनिष्ठितत्वादित्यस्य मन्दगतेः शीघ्रगमनं तीव्रमित्युच्यते । ततोऽपि पलायनं ततोऽपि धावनमित्यादिना अनियतत्वादित्यर्थः ।
सुप्तगतौ व्यभिचार इत्यत्र सुप्तस्यान्दोलिकायां गतावित्यर्थः । पूर्वनिपातः स्यादित्युपलक्षणम् । अन्नैकशरण इतिवत् कैवल्यार्थत्वेन न कोपि दोष इति द्रष्टव्यम् । शरगति व्यावर्तनाय विशिष्टं गतित्वमित्युक्तम् । विशिष्टं गतित्वं चेतनगतित्वमिति यावत् । इतिशब्दोऽध्याहार्य इति वदता तदा क्वचिदपि प्रसङ्गो न भवेदेवेत्यतिप्रसङ्गः स्यादेवेति योजना सूचिता । न खलु नग इति वाक्यं परकीयम् । अदिद्यमानं वर्णदैर्घ्यं भ्रान्त्याऽङ्गीकृत्यार्थभेदं प्रतिपद्यमाना अपि भ्रान्ता न भवन्ति खलु । अतो व्यावहारिकभ्रान्तिर्लोकमर्यादया भ्रान्तिरिति नोच्यत इति भावः । नन्वात्मन एवायमित्यत्र अयम् आत्मविनाशलक्षणो मोक्षः । आत्मन एव पुरुषार्थः । आत्मनः नाशेऽनिष्टस्यापि नाशादिति भावः । धर्मः धर्मसाध्यस्वर्गश्चात्मसमानकालीन एव दृष्टः । अयं त्वात्मा समानकालीनः कथमात्मनः पुरुषार्थ इत्यत आह धर्मादिवदिति । अभ्युदयत्वं नाम तेनैवानुभूयमानफलत्वम् ।
घटशून्यतापि देवदत्तस्य मोक्षः स्यादित्यत्र देवदत्तहितत्वाभावस्योभयत्रापि साम्यादिति भावः । किञ्चानिष्टनिवृत्तिरप्यनुभूयमानैव पुरुषार्थः स्यात् । न तूष्णीं सुप्तपादपङ्कप्रक्षालनस्य पुरुषार्थत्वादर्शनात् । अननुभूयाप्यात्मशून्यता पुरुषार्थश्चेद् घटशून्यतापि पुरुषार्थः स्यादिति भावः । अस्यैव रूपस्य परमप्रेमास्पदताया उपपादितत्वादित्यत्र कर्तृत्वभोक्तृत्वाधारतया अहन्तया च प्रतीयमानरूपस्य परमप्रेमास्पदतया निरुपाधिप्रेमास्पदताया इति यावद् उपपादितत्वान् निरुपाधिप्रेमास्पदं हि सुखमित्युच्यते । अहमात्मा च तादृशः । अतस्तस्यैव सुखरूपतेति भावेनोपपादितत्वादित्यर्थः । मा नाम भूवं भूयासमित्यत्र पूर्वं निराकरतादशायाम् अनेन साकाररूपेण मा भूवं नामेति प्रसिद्धिः । उपरि मोक्षकाले मा नाम भूयासम् । संवलितात्मरूप इत्यत्र संवलिते निर्गुणसंवलनात्मके रूपे तन्निर्गुणरूपमप्यस्तीति कृत्वा इयमाशीर् भूयासमित्याशीर् नतु मा नाम भूयासमित्याशीर्विरह इत्यर्थः । न तैर्विना दुःखहेतुरित्यस्य तैर्देहेन्द्रियादिभि र्विना आत्मा दुःखहेतुर्न भवतीति चेत् तर्हि तेऽपि देहादयोऽप्यात्मानं विना दुःखहेतवो न । एकाभावे एकस्य दुःखहेतुता नेत्येवमनेन प्रकारेण निर्दोषद्वयं निर्दोषं द्वयमपि । अतः कुत्रापि वैराग्यं न कर्तव्यम् । कथञ्चिद्दुःखहेतुतया देहे वैराग्यं चेत् ततस्तेनैव कारणेन द्वयोरपि वैराग्यं कार्यमित्यर्थः । दुःखहेतुत्वाद्द्वयोरपि विनाश आशास्यत इति भावः ।
निर्दुःखत्वादिति हेतूकुर्वता शून्यमायिनोर्निर्दुःखं तम एव मोक्ष इति भाव इति सूचितम् । तत्र च तदन्तर्विधिरित्यत्र द्वन्द्वान्ते श्रूयमाणः प्रत्येकमभिसम्पद्यते इति वचनात्तदन्तविधिरिष्यत इत्यर्थः । सति दुःखे खलु दुःखात्मत्वं स्यात् । एकजीवमते तु मोक्षदशायां दुःखमेव नास्ति । किमात्मता साध्यत इत्यत उक्तं बहुजीववादिनमिति । हेयमेव । न तु वस्तुतो मतभेदहेतुरित्यनेनापहाय हापयित्वेत्यन्तर्णीतणिजन्तः प्रयोगः सूचितः । क्वचिद्दुःखनिवृत्त्यभावेऽपीत्यत्र तृड्रहितस्यापि गुडरसास्वादनजन्यसुखाय गुडोदकपानदर्शनादित्यर्थः । दुःखनिवृत्तेरपीत्यत्र तिक्तौषधपानेनापि व्याधिनिवृत्तेर्दर्शनादिति हि परस्याशयः । वस्तुतस्तु तदैव शरीरलाघवादिना ईषत्सुखमप्यस्त्येवेति नेदमुदाहरणमिति ज्ञेयम् । सुखावस्थायां नियतो दुःखविरहोऽपि भवतीत्येतदपि तृड्रहितगुडोदकपानोदाहरणेन निरस्तम् । प्रत्युत अग्निमान्द्यादिदुःखं स्यादिति जानन्नेव पिबतीति ज्ञेयम् ।
परस्परनिरपेक्षपुरुषार्थत्वमनयोरित्येतदपि चिन्त्यम् । तर्हि भक्ष्यरहितभोजनवत् पुरुषापेक्षितैकपुरुषार्थाभावेन मोक्षस्य महाफलत्वं न स्यादिति । पुत्रादिवियोगजन्मदुःखहानिमिच्छतामित्यपि चिन्त्यम् । तत्रापि स्वदुःखहान्यै न प्रवर्तते ततोऽप्यतिशयितदुःखं भवतीति जानतैव प्रवर्तनात् । अतो दुःखमसहमानस्य भ्रान्त्या प्रवृत्तिर् नात्रोदाहर्तुं योग्येति । न तत्र कामः पुरुषार्थ इत्यपि चिन्त्यम् । अनर्थाभावे सुखस्य च बहुत्वे सर्वेषामपि प्रवृत्तिस्स्यादेव । मोक्षश्च तादृश इति नेदमप्युदाहरणमिति । प्रयागपातानशनादिनापि देहं त्यजन्त इत्येतदपि चिन्त्यम् । तत्रापि ‘‘ये वै तन्वा विसृजन्ति धीराः । न तपोऽनशनात्परमि’’त्यादिश्रुतिस्मृतिभिर् देहान्तरे महासुखं भविष्यतीत्याशयैव प्राक्तनरोगिष्ठदेहत्यागान् नेदमप्यत्रोदाहरणमिति ।
न क्वचिद्दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तत इत्येतदपि न शोभां बिभर्ति । दुःखनिवृत्यनुभवपर्यन्तं धावनाभावे विषादजन्यमोहावस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तो न प्रवर्तन्त इति टीकाकृतोक्तत्वात् । स्वीयतयाऽननुभूयमानाया अपि दुःखनिवृत्तेर् दुःखनिवृत्तितयैव पुरुषार्थत्वे स्वोपेक्षकपुरुषदुःखनिवृत्त्यर्थं कुतो न प्रवर्तते । निद्रितपुरुषपादपङ्कप्रक्षालनाय तस्माद्धनार्थी कुतो न प्रवर्तते । वर्तमानाप्यचिरमनुभूयत इत्यपि चिन्त्यम् । देहे सति दुःखनिवृत्तिस् तवापि । देहनिवृत्तौ कारणानामपि पूर्वमेव निवृत्तत्वात् केनानुभवः स्यादिति । स्वात्मनिक्रियाविरोधादित्यत्र स्वस्मात् स्वस्य वियोग इत्येतत् स्थाणोः श्येनवियोगवत् स्वस्यैव स्थितिक्रियया स्वस्यैवान्यत्र गमनक्रियया च विरुद्धमित्यर्थः । अशरीरं वा व सन्तमिति श्रुत्युक्तोपपत्तिः श्लिष्यत इत्युपलक्षणम् । ‘‘प्रियाप्रिये न स्पृशत’’ इति उक्तसुखदुःखोभयहेतुभूतशरीराभावः प्राकृतशरीराभाव एव श्रुतावुदितः । तेन चात्र प्राकृतप्रियस्पर्शाभाव एव लभ्यते । न त्वप्राकृतप्रियस्यापि स्पर्शाभाव इत्यपि द्रष्टव्यम् । मोहान्तमापीपदित्यत्र मोहान्तं मोहाख्यनाशम् । यत्रादृष्टबाधनमित्यत्र दृष्टं प्रमाणं तेन बाधनं विरोधः । तदभावो ऽदृष्टबाधनमित्यर्थः । एतदेवाभिप्रेत्योक्तं प्रमाणविरोधाभाव इति । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तमित्यत्राभिधानं तूपरि वदिष्यत इत्यर्थः । मुक्तया किं प्रयोजनमिति तृतीयया भवितव्यम् । मुक्तेरिति षष्ठी कथमित्यत उक्तं सम्बन्धमात्रे षष्ठीति । जाङ्घिकादिर्जन इत्यत्र जाङ्घिको जङ्घासत्त्ववान् आन्दोलिकाबाहकादिर् अल्पतरलाभाय दूरधावनं शिबिकोद्वाहनादिना महान्तमायासं सहत इत्यर्थः ।
द्विविधाः पुरुषा रागिणो वीतरागिण इत्यादिना यदाशङ्कितं तदपि न रमणीयम् । विरागा वा सरागा वा भवन्तु चेतनानामयं स्वभावो ऽल्पमपि सुखम् आशासाना बहुत्वरमपिदुःखं सहन्त इति । एवं च सुखं यथा पुरुषैरर्थ्यमानत्वात् पुरुषार्थः न तथा दुःखनिवृत्तिरिति तावत्सिद्धम् । विरागा अपि नित्यमुखमोक्षमपेक्षमाणा एवानित्यं स्वर्गसुखमुपेक्षन्ते । सर्वथा सुखापेक्षाभावे कन्दमूलफलाद्याहारोऽपि नाद्रियेत् । अतः सुखलेशरहितो मोक्षः शतशो दुःखनिवृत्तावपि न पुरुषार्थ इति परमते मोक्षस्यैवापुरुषार्थत्वप्रसङ्गादिति ।
श्रुृणुपॄकृवृभ्यश् छन्दसीत्यत्र उक्तधातुभ्यः श्रुधिकृधीत्यादिरूपनिष्पत्तिर्भवतीत्यर्थः । शिरःकराद्यभावेनेत्युपस्थापितमित्यत्र नञ्द्वयेन शिरःकराद्युपलक्षितशरीरमेव सिद्ध्यतीति भावः । अन्यथा पुनर्दृष्टान्तदोषापातादित्यत्र इदानीमपि मुक्तजीवैक्यस्य परमते सत्त्वात् । इदानीन्तनजीवव्यक्तिः परैक्ययुतो न भवतीति साध्यनिष्कर्षः कर्तव्यः । तच्च परस्यापि सिद्धमिति दृष्टान्तदोषो न भवतीत्यर्थः । तर्हि सिद्धसाधनतेति न शङ्कनीयम् । अस्यापि मुक्तावैक्यं परेणाङ्गीक्रियते । सामान्यतोऽस्य जीवैक्यनिषेधे मुक्तजीवैक्यनिषेध इति कथं नानिष्टम् । यद्वा अनादौ संसारे तदातदा संसारिव्यक्तेरैक्यनिषेधेऽर्थादेकस्याप्यैक्यं न सिद्ध्यतीति कथं नानिष्टमिति भावः ॥ १४ ॥
‘‘पुरुषार्थोऽतः शब्दादिति बादरायण इत्यधिकरणे ज्ञानिनामौदार्यात्सांसारिकफलानामतिशयेन त्यागित्वान् मोक्षादन्यफलेच्छाया एवासम्भवात्तदुक्तिः प्रशंसामात्रमिति औदार्यमेव पूर्वपक्षप्रापकम् । प्रायशो न सम्भवत्येव । सौभरिर्यद्वत् तद्वत् कस्यचित्सम्भवेच्चेज् ज्ञानेनैवाशेषमभीप्सितं भवतीति व्यवस्थोपपत्तेर्व्यवस्थितिरेव सिद्धान्तस्थापिका । यद्यपि सौभरिः प्रारब्धकर्मभोगार्थमेव कायव्यूहं सम्पादितवान् । तथाऽपि एकदैव बहुतरकायव्यूहसम्पादनशक्तिर् ज्ञानशक्तयैवेति भावः ॥ ३४१ ॥
असार्वत्रिकीत्यधिकरणे सर्वेषां ज्ञानाधिकारोऽस्तु । तर्हि मध्यमाधमजीवानां कुतो न ज्ञानमिति चेन्न । अधिकारसाम्येऽपि यस्य शक्तिरुच्चा तस्य ज्ञानं जायते यस्य तु शक्तिरवचा तस्य ज्ञानं न जायते इत्युच्चावचशक्तिरेव पूर्वपक्षप्रापिका । सर्वेषां ज्ञानाधिकारे समे एकस्य उच्चा शक्तिर् अन्यस्यावचा शक्तिरित्यविशेषः विशेषो न घटते । अतो यस्य सर्वदा शक्तिरवचा सोऽनधिकारीत्येव कल्प्यते । कदाऽपि फलाभावे अधिकारकल्पनाया व्यर्थत्वाद् इत्यविशेष एव सिद्धान्तस्थापकः । स्पष्टत्वाद्वा शिष्यस्यैवोहापोहशक्तयुद्बोधनाय वा न्यायविवरणे नास्योपपादनम् ॥ ३४२ ॥
नाविशेषादित्यधिकरणे अधिकारे समेऽपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेर् अधिकारविशेषकथनं व्यर्थमिति पुनरपि उच्चावचशक्तिरेव पूर्वपक्षप्रापिका । भक्तयाद्यधिकारानुसारेण शास्त्रात्फलप्राप्तेः सर्वेषामविशेषाद् दृश्यमानत्वाच्च भक्तयाद्यधिकारतारतम्यस्योच्चावचशक्तेरपि तन्निबन्धनत्वादिति पुनरप्यविशेष एव सिद्धान्तस्थापकः । उच्चावचशक्तेरपि तन्निबन्धनत्वादिति वदता पूर्वाधिकरणन्यायोऽपि सूचितः ॥ ३४३ ॥
स्तुतयेऽनुमतिर्वेत्यधिकरणे ज्ञानिनामात्मस्वरूपदार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्त्योरविशेष इति आत्मस्वरूपदार्ढ्यमेव पूर्वपक्षप्रापकम् । ‘एतावतोऽधिका नास्ति प्राप्तिरित्यन्ततः स्थिता । या स्थितिस् तां समाप्नोति यथाशक्तिप्रयत्नतः । विपरीतप्रवृत्तेस्तु तस्या ह्रासोऽधिकं भवेदि’ति स्वयोग्यतानुसारेण स्थितिरेव सिद्धान्तस्थापिका ॥ ३४४ ॥
सर्वथाऽपि तु त एवोभयलिङ्गादित्यधिकरणे सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फले ज्ञानाख्यफलेऽप्यविशेष इति निजस्वभावः पूर्वपक्षप्रापकः । निषेधसामान्यविधिक्रियाणां विभक्तत्वात् ‘‘नादेवो देवमन्विच्छेद् अन्विच्छन् यात्यधरं तम’’ इति । ‘‘न देवः स्वीयं पदमिच्छन् विदुष्यति । तदेव हि अस्य स्वमि’’ति निषेधविभागः । ‘‘स्थिरं ज्ञानं स्थिरो हरावभिषङ्गः स्थिरमोजो बलं विराग एतद्धि सामान्यं देवानाम् । अन्येषामस्थिराण्येवैतानि सर्वाण्यथापि यथायोगं विनेयानी’’ति सामान्यविभागः । ज्ञानदानमेव देवानां विहितम् । तप एव ऋषीणामाचार एव मनुष्याणां तदविरोधेनान्यानि करणीयानीति विधिविभागः । ‘‘चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्या’’ इति क्रियाविभाग इति निषेधसामान्यविधिक्रियाणां विभक्ततैव सिद्धान्तस्थापिका । यद्यपि सूत्रमर्यादया महोत्साहे कृतेऽपि त एवाधिकारिण एव ज्ञानं प्राप्नुवन्ति नानधिकारिण उभयलिङ्गात् ‘‘य आत्मा अपहतपामे’’ति एकप्रकारोपदेशेऽपि आत्मा परमात्मा अपहतपाप्मेति इन्द्रेण तत्त्वज्ञानं प्राप्तम् । विरोचनेन तु आत्मा जीव एवापहतपाप्मत्वादि विशिष्टो ब्रह्मेति मिथ्याज्ञानं प्राप्तमित्युभयविधलिङ्गादधिकारिण एव ज्ञानं नानधिकारिण इति प्रतीयते । पूर्वपक्षस्त्वधिकारिणामनधिकारिणां च सर्वेषां ज्ञानप्राप्तिरिति । एवं चासार्वत्रिकीत्यधिकरणेन गतार्थता स्यादिति चेत् तत्र श्रुत्यैव सिद्धान्तः । अत्र तु श्रौतलिङ्गेनेति युक्तिविशेषकथनाय पुनरारम्भाद् इत्येकः परिहारः । सर्वजीवानामेकप्रकार एव निजस्वभावश् चैतन्यमिति वदता नाधिकार्यनधिकरिमात्र विषयमिदमधिकरणम् । किन्तु अधिकारिणां देवर्षिमनुष्यादीनामपि चैतन्यस्य एकस्वभावात् तत्रापि न वैचित्र्यमित्यभ्यधिकाशङ्क्या पुनरारम्भ इत्यपरः परिहारः सूचितः । अत एव निषेधसामान्यविधिक्रियाणां विभक्ततेति सर्वसाधारण्येनैव स कृतः । ‘‘नादेवो देवमन्विच्छे’’दिति वदता उभयलिङ्गादिति सिद्धान्तोऽपि वर्णितः ॥ ३४५ ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगादित्यधिकरणे एकप्रकार एव निजस्वभावश्चैतन्यमिति वदता चेतनत्वाविशेषाद्यत्ने कृते सति भगवदैश्वर्यमपि प्राप्तुं शक्यते ब्रह्मादिपदमपि प्राप्तुं शक्यत इति निजस्वभाव एव पूर्वपक्षयुक्तिः सूचिता । निषेधसामान्यविधिक्रियाणां विभक्ततेत्यत्र ‘‘नादेवो देवमन्विच्छेदन्विच्छन् यात्यधरं तमः । न देवः स्वीयपदमन्विच्छन् विदूष्यती’’ति निषेधविभक्ततया देवातिरिक्त ऋषिमनुष्यादेर् दैत्यादेश्च देवपदाकाङ्क्षामात्रेण तमःप्राप्तिश्रवणान् नेश्वरैश्वर्यादिकमन्यैरभ्यर्थनीयमिति विभक्ततेति सिद्धान्तयुक्तिरपि सूचिता । न्यायविवरणे तु शिष्यैरेवोह्यतामिति न पृथग्विवृतम् ॥३४६॥
स्वामिनः फलश्रुतेरित्यधिकरणे स्वातन्त्र्याद्देवानामेव ज्ञानादिफलं न किञ्चिदन्येषामिति स्वातन्त्र्यमेव पूर्वपक्षप्रापकम् । ‘‘त्वस्यैव मनुष्याणां सिद्धिरत्वयैव तु । देवानां तत्प्रसादेन मुक्तया एव सतां नृणामि’’ति मनुष्यमुक्तयर्थमेव देवानामत्वरया सिद्धिश्रुतेरत्वस्यैव सिद्धिः सिद्धान्तस्थापिका । मनुष्याणां परान्तकाले ब्रह्मणोऽल्पदिनेनैव सिद्धिर्भवति । अत एव त्वस्यैव मनुष्याणामित्युक्तम् । अतस्तान् प्रेरयितुं तावत्पर्यन्तं तिष्ठासया शनैःशनैः प्रारब्धकर्मभुञ्जानास्तिष्ठन्ति । अत एव ‘‘अत्वरयैव तु देवाना’’मित्युक्तमिति भावः
॥ ३४७ ॥
कृत्स्नभावात्तु गृहिणोपसंहार इत्यधिकरणे गृहस्थानामशेषकर्मविशेषयोग्यत्वाद् यज्ञाध्ययनदानादिष्वधिकारात्तपोमात्राधिकारिभ्यो यतिभ्योऽपि गृहस्थानामेवाधिक्यं मुक्ताविति आपूर्णविशेषयोग्यतैव पूर्वपक्षप्रापिका । ‘‘त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतयस्तेभ्यश्चात्वरया देवास् तेषु च ब्रह्मे’’त्यादिश्रतेः ‘‘यो हि त्वरया साधयेत् स मन्दं सुखमाप्नुयात् । योऽत्वरया स महदि’’ति श्रुतेश्च गृहिभ्यो यतीनां तेभ्यो देवानामत्वरया सिद्धेः । अत्वरया साधकानामेवाधिक्यश्रुतेश्च यतीनामेवाधिक्यमिति अत्वरयैव सिद्धिः सिद्धान्तस्थापिका ॥ ३४८ ॥
अनाविष्कुर्वन्नत्वयादित्यधिकरणे आविष्कारेण कथनाद् अशेषतोऽपि योग्या ज्ञानिनो भवन्तीति आस्थानचत्वरादिषु स्थित्वैव प्रकथनीयमिति आपूर्णविशेषयोग्यतैव पुनः पूर्वपक्षप्रापिका । न ह्येवं त्वरमाणे सिद्धिर्भवति । अयोग्यानामपि श्रवणप्रसङ्गात् । तस्माद्विचार्य योग्यानामेवात्वरयैव कथितत्वात्सिद्धिर्भवति । ‘‘त्यक्तवा त्वरां ब्रह्मविद्यां वदेत जनाय योग्याय सदैव विद्वानि’’ति श्रुतेरत्वरयैव सिद्धिःसिद्धान्तस्थापिका ॥ ३४९ ॥
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनादित्यधिकरणे एवं मुक्तिफलानियमस्तदवस्थावधृतेरित्यधिकरणे च विरोधाभावात्साधना नुष्ठानजन्मन्येवापरोक्षज्ञानं भवतीति विरोधहानिः प्रथमाधिकरणे पूर्वपक्षप्रापिका । अपरोक्षज्ञाने सति तदैव मुक्तिर्भवति विरोधाभावात् कारणे सति कार्यानुत्पादयोगाच्चेति विरोधहानिरेव द्वितीयाधिकरणे च पूर्वपक्षप्रापिका । ‘‘यद्यारब्धं कर्मनिबन्धकं स्यात् प्रेत्यैव पश्येद् योगमेवान्ववेक्ष्ये’’ति श्रुतेः प्रतिबन्धे सति तन्निरासेनात्वरयैव सिद्ध्युपपत्तेर् अपरोक्षज्ञानाक्यसिद्ध्युपपत्तेरिति अत्वरयैव सिद्धिः पूर्वाधिकरणे सिद्धान्तस्थापिका । अपरोक्षज्ञानानन्तरमपि ‘‘अनेकजन्मसंसिद्धस्ततो याति परां गति’’मिति भगवद्वचनात् प्रारब्धकर्माख्यप्रतिबन्धे सति तन्निरासेन भोगेन तत्क्षपयित्वा अत्वरयैव मुक्तयाख्यसिध्युपपत्तेरिति अत्वरयैव सिद्धिर् द्वितीयाधिकरणेऽपि सिद्धान्तस्थापिका ॥ ३४१०,११ ॥
आवृत्तिरसकृदुपदेशादित्यधिकरणे श्रवणाद्यनावृत्त्याऽपरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुण इति सुशक्यतैव पूर्वपक्षप्रापिका । महाफलत्वात्सर्वेषामशक्यताया एवोपपन्नत्वात् । अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षोपपत्तिरिति महाफलत्वमेव सिद्धान्तस्थापकम् ॥ ४११ ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति चेत्यधिकरणे शश्वदतिप्रसिद्धत्वादात्मशब्दोदितं स्वामित्वं न नित्यश उपास्यमिति शश्वदतिप्रसिद्धिरेव पूर्वपक्षप्रापिका । अन्येभ्योऽधिकफलत्वेन सविशेषत्वात् प्रकर्षेण विविक्तत्वादिति यावत् । आत्मत्वस्येति प्रविविक्ततैव सिद्धान्तस्थापिका ॥ ४१२ ॥
न प्रतीके न हि स इत्यधिकरणे तर्हि विशेषवत्त्वादेव प्रतीकमपीश्वर इत्युपास्यमित्युक्तविधविचाराख्यविवेक एव पूर्वपक्षप्रापकः । यत्र सन्धिरुपपत्तिः सन्धीयते प्रमेयमनेनेति व्युत्पत्त्या सन्धिरुपपत्तिर्विद्यते । तस्यैव ग्राह्यत्वादन्यस्येश्वरत्वग्रहस्य मिथ्याज्ञानत्वादेवानुपपत्तेरिति सन्धिग्रह एव सिद्धान्तस्थापकः ॥ ४१३ ॥
ब्रह्मदृष्टिरुत्कर्षादित्यधिकरणे प्रतिदिनं विविधगुणन्यासेन मनसि न्यासाख्यध्यानेन भगवत्प्रीत्युपपत्तेर्न ब्रह्मतादृष्टिनियम इति विन्यास एव पूर्वपक्षप्रापकः । अशेषगुणान्तर्भावेनाशेषगुणानां ब्रह्मशब्दार्थेऽन्तर्भावेन तस्यैवाधिकसाधनत्वादिति साधनमेव सिद्धान्तस्थापकम् ॥ ४१४ ॥
आदित्यामतयश्चाङ्ग उपपत्तेरित्यधिकरणे विविधस्थानेष्ववन्तानन्तजीवचक्षुरादिस्थानेषु आदित्यानां चरणात् सञ्चरणाद् विष्ण्वङ्गेष्वादित्यादिमतिनियमो नास्तीति विविधचाराख्यविचार एव पूर्वपक्षप्रापकः । तत्कृतावेव कृत्यस्याप्तत्वाद् आदित्यादीनाम् । आदित्यादीनां तत्कृतौ विष्णोश्चक्षुराद्यङ्गेषु वयं वर्ताम इति ध्यानस्य कृतावेव कृत्यस्य कर्तव्यस्याप्तत्वाद् विष्ण्वङ्गेषु ध्यानं कर्तव्यमित्याप्तकृत्यमेव सिद्धान्तस्थापकम्
॥ ४१५ ॥
आसीनः सम्भवादित्यधिकरणे ज्ञानस्य सम्यक् तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति भगवद्वाषयसमीचीनज्ञानाख्यसंज्ञैव पूर्वपक्षप्रापिका । आसनादिना निश्चलत्वादिविशेषकार्योपपत्तेरिति विशेषकार्यमेव सिद्धान्तस्थापकम् ॥ ४१७ ॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशावित्यधिकरणे ज्ञानोदयेऽशेषकर्मक्षये कृतकृत्यत्वात्तदैव मुक्तिः । न चेत् प्रारब्धकर्मादिप्रतिबन्धाङ्गीकारे तदाऽपि नित्यनैमित्तिककर्मकरणसद्भावान्न कदाऽपि कर्मक्षय इति कृतकृत्यतैव पूर्वपक्षप्रापिका । प्रारब्धस्यैव कृतस्य यावद्भोगं संस्थितेस्तदा क्रियमाणपुण्यकर्मणां मुक्तावानन्दवृद्धिहेतुत्वेन मुक्तयप्रतिबन्धकत्वात् । प्रामादिकपापस्य चालेपादिति कृतसंस्थितिरेव सिद्धान्तस्थापिका ॥ ४१८ ॥
वाङ्मनसि दर्शनाच्छब्दाच्चेत्यधिकरणे ‘‘वाक् पूर्वरूपम् । मन उत्तररूपम् । मनः पूर्वरूपम् । वागुत्तररूपमि’’त्युक्तेर्व्यामिश्रत्वादनिर्णीतिरेव । कस्य कुत्र लय इत्यनिर्णीतिरेवेति व्यामिश्रतैव पूर्वपक्षप्रापिका । ‘‘वाक् पूर्वरूपम् । मन उत्तररूपमि’’ति वाचःपूर्ववर्णदेवतात्वनिर्देशमात्रेण सन्ध्यक्षरेषु पूर्ववर्णदेवतात्वेनैव पूर्वरूपत्वोक्तिः । नतु मनसस्सकाशादपि पूर्वरूपत्वेन । यथाकथञ्चित्पूर्वरूपत्वमात्रेणमनस्साम्यम् । ‘‘मनसा वा अग्रे सङ्कल्पयति । अथ वाचा व्याहरती’’ति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्य मनस एव हि ज्ञायत इति विशेषसाम्ययोविशेषश्रुतिरेव सिद्धान्तस्थापिका । साम्यश्रुतेस्सावकाशत्वाद्विशेषश्रुतिरेव निर्णायिकेति भावः ॥ ४२१ ॥
तन्मनः प्राण उत्तरादित्यधिकरणे मनःपूर्वकत्वातिनियमादशेष दृष्टव्यापाराणां तस्य प्राणादनूनतेति कार्यकरत्वमेव पूर्वपक्षप्रापकम् । ‘‘इन्द्रियस्थैस्स्वरूपैस्तु ज्ञानानि जनयत्यसौ । मनस्थेन विशेषेण कामैः कर्मकृदेव च । पृथक् स्थितेन रूपेण वेदयत्यहमित्यपि । प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वर’’ इत्यादिश्रुतेर् बहुतरकार्यकारित्वेन प्राणस्यैवाढ्यतावगमाद् आढ्यतैव सिद्धान्तस्थापिका ॥ ४२२ ॥
सोऽध्यक्ष इत्यधिकरणे सोऽध्यक्षे तदुपगमादिभ्य इत्यत्रापि एवमेव शङ्कापरिहारश्च । एवमेव मनोवच्छङ्का बहुतरकार्यकारित्वेन परमात्मसाम्यमिति शङ्केति । तत्रापि कार्यकरत्वमेव पूर्वपक्षप्रापकमित्यर्थः । प्राणादपि स्वातन्त्र्येण जगज्जन्मादिबहुतरकार्यकारित्वेनाढ्यत्वात् स मुख्यप्राणो ऽध्यक्षे परमात्मनि लीयत इति तत्रापि आढ्यतैव सिद्धान्तस्थापिकेत्यर्थः ॥ ४२३ ॥
भूतेषु तच्छतेरित्यधिकरणे ‘‘अग्नौ सर्वे देवा विलीयन्ते’’ इति श्रुत्यर्थपर्यालोचनया अग्नावेव सर्वेषां लय इति अर्थक्लृप्तिरेव पूर्वपक्षप्रापिका । ‘‘भूतेषु देवा विलीयते’’ इति श्रुतेर् नाग्नावेव सर्वदेवानां लयः । किन्तु सर्वेषु भूतेष्वपि यथायोग्यं देवानां लयः । धराया अप्सु । तत्समानदेवानामपि अवनुत्पन्नत्वेऽपि समानदेवतास्थानत्वादप्यु । एव मेवाग्नौ तत्समानदेवतानामपि स्वसमानदेवतालयस्थानत्वादग्नौ । एवमुत्तरत्रापीति समानलोप एव तत्रापि सिद्धान्तस्थापक इति शिष्यैरेवाह्यतामिति न्यायविवणे न स्पष्टीकृतम् ॥ ४२४ ॥
नैकस्मिन्दर्शयतो हीत्यधिकरणे भूतानामुत्पत्तिकमवैपरीत्येव लयोक्तेर्मुक्तिलययोर्विशेषाभावाच्च एकस्मिन्नेव भूते अग्नावेव सर्वदेवानां लयः । तस्य च वायौ । तस्य चाकाशे । एवं लयेऽपि सर्वदेवानाम् अग्न्यादिभूतत्रये लयोऽर्थतः क्लृप्त इति अर्थक्लृप्तिरेव पूर्वपक्षप्रापिका । तत्तद्भूतोद्भवत्वात्तत्तद्देवानां तत्समानां च विशेषवचनाभावे स्वसमानलयस्थाने एव लयोपपत्तेरिति समानलोप एव सिद्धान्तस्थापकः । पूर्वोक्तमार्गेण केषाञ्चिद्देवानां धरायां तत्समानदेवानां चाप्सु अपां तत्समानदेवानां चाग्नौ । एवमुत्तरत्रापीति समानलोपन्यायेन भूतानुत्पन्नसर्वदेवानामपि यथायोगं भूतेष्वेव लयः न त्वग्न्यादिभूतत्रय एवेति भावः ॥
समना चासृत्युपक्रमादमृतत्वं चानुपोष्येत्यधिकरणे प्रकृतेस्संसाराभावादिना ईशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण । न चेत्संसारित्वमिति युक्तमिति सुदार्ढ्यमेव पूर्वपक्षप्रापकम् । ‘‘सदा नित्यतया नित्यं नित्यं नित्यात्मना यतः । नित्ययैव स्वशक्तयेशो नियामयति नित्यदा । द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षये’’त्यदिश्रुतेरीश्वरस्यैव महामहिमत्वान् नित्यासंसारित्वस्य नित्यतदनुग्रहेणैवोपपत्तेरिति महिमैव सिद्धान्तस्थापकः ॥ ४२६ ॥
तानि परे तथा ह्याहेत्यधिकरणे अन्यदेवानां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येवेति प्राणाधीनत्वाख्यपरतन्त्रतैव पूर्वपक्षप्रापिका । ‘‘प्राणं प्राप्य परं देवास् तदन्ये चैव तद्गताः । प्राप्नुवन्ति परं देवं वसन्ति च यथासुखमिति विशेषश्रुतेःश्रुतिविशेष एव सिद्धान्तस्थापकः ॥ ४२७ ॥
अनिभागो वचनादित्यधिकरणे सत्यसङ्गल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति समानधर्म एव पूर्वपक्षप्रापकः । ईश्वरसङ्कल्पानुसारि सङ्कल्पत्वेनैव सत्यसङ्कल्पत्वेऽपि कृतार्थत्वेनैव संसाराद्विशेषोपपत्तेरिति कृतार्थतैव सिद्धान्तस्थापिका । संसारे ईश्वरसङ्कल्पानुसारिसङ्कल्पनियमाभावेन मुक्तौ तन्नियमसद्भावेन च संसाराद्विशेष इत्यप्यूह्यम् ॥ ४२८ ॥
तदोकोग्रज्वलनमित्यधिकरणे प्रारब्धकर्मशेषत्वादुत्क्रान्तावविशेषो ज्ञानिन इति प्रारब्धकर्मशेषत्वाख्यकृतशेषतैव पूर्वपक्षप्रापिका । ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेः । ‘‘प्रारब्धकर्मशेषस्तु विरजातरणावधिः । स्वोदयात्फलदं ज्ञानमादेहं कर्म वाऽऽरवेः । तथाऽपि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यत’’ इति श्रुतेर् ज्ञानफलेनान्यनाडीप्रापक प्रारब्धकर्मनिवारणेन ब्रह्मनाड्यैवोत्क्रमणमिति ज्ञानफलस्य शश्वदनुप्रवृत्तिरेव सिद्धान्तस्थापिका ॥ ४२९ ॥
योगिनः प्रतिस्मर्यते इत्यधिकरणे कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति लोकोपमैव पूर्वपक्षप्रापिका । कृष्यादिषु यथाशक्ति कृषिक्रियामेवावर्तयन्ति । फलं तु वृष्टिभाग्यादिदैविकसाधने सति स्यादन्यथा न स्यादिति फलं न निश्चिन्वन्ति तथाऽत्रापीति भावः । ‘‘यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोष’’ इति हि लौकिकाः । ‘‘क्रियानुवृत्तिर्लौकिके साधने तु मनोऽनुवृत्तिर्वैदिके साधने स्यात् । भवेत्फलं सर्वथेत्येव तस्मात्स्मरेत्सदा निश्चितत्वेन विद्वानि’’ति श्रुतेस् तत्तदनुसार्यनुवृत्तेर् लौकिकवैदिकयोः साम्याम् । अतोऽत्र फलानुस्मरणम् । लवनादिकृष्यनुवृत्तिवद् द्रष्टव्यमिति शश्वन्मनसा फलानुस्मरणाख्यानुवृत्तिरूपा शश्वदनुप्रवृत्तिरेव सिद्धान्तस्थापिका । अनुवृत्तिमात्रेण लोकोपमा । वृष्टिनिरपेक्षतात्कालिक फलरूपलवनादिकृषौ फले मनोऽनुवृत्तेरपि दर्शनेन तदुपमा चेति भावः ॥ ४११० ॥
इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थददीपिकायां चतुर्थाध्यायस्य द्वितीयः पादः ॥