०४ मार्गोपसंहारः, सायुज्यमोक्षस्वरूपम्

भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम्

मार्गोपसंहारः, सायुज्यमोक्षस्वरूपम्

भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम्

सुधा

अधुना ‘तानि पर’ इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति ।

अनुव्याख्यानम्

भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ॥

विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ॥

सुपर्णपत्न््नयाः सुपर्णे लयः सिद्ध एव । इन्द्रपर्यन्तमेव वक्तव्येऽधिकवचनमुक्तदार्ढ्यार्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्या ये च राजमुख्याः प्रियवत्राद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते ।

भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यस्तमाह आकाश इति ।

अनुव्याख्यानम्

आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ॥

सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥

वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । अमुख्याभिमानिनस्तु ‘शक्रं मरुद्गणा’ इति लयो वक्ष्यते ॥ सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्टा उक्तेभ्यः । एतेन ‘अग्नौ सर्वे देवा विलीयन्त’ इत्यस्य विषयो दर्शितः ।

अस्यापवादमाह वर्णाश्रमेति ।

अनुव्याख्यानम्

वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले ॥

तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ॥

एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्णाश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वायम्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरस् तं धर्ममेव संयान्ति । सर्वे सुरानुगा गन्धर्वाद्या कुबेरम् ।

उपसंहरति विमुक्तीति ।

अनुव्याख्यानं

विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते ॥

एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रविशन्ति किं तर्हीत्यत आह अभीक्ष्णमिति । आविष्टग्रहवदित्यर्थः ॥ किमनेन प्रवेशेनेत्यत आह आनन्देति ।

अनुव्याख्यानम्

आनन्दसुव्यक्तिरमुत्र तेषां भवति …….. ……..

अमुत्र उत्तमेषु प्रवेशेन ।

वाक्यार्थचन्द्रिका

ननु तथाऽपि हिरण्यगर्भे लयप्रकारानुक्तेः कथं तत्र लयमाहेत्यवतार इत्यतः सुपर्ण्याः सुपर्णेतरस्य च वाणीद्वारा हिरण्यगर्भे उक्तरीत्या लयस्य सिद्धत्वान्न तदनुक्तिर्दोष इत्याह सुपर्णपत्न््नया इति । ननु तर्हि इन्द्रपर्यन्तमेव लयो वक्तव्यः स्यात् । इन्द्रस्य सुपर्णपत्न््नयादिद्वारेण हिरण्यगर्भे लयस्य सिद्धत्वादित्यत आह इन्द्रपर्यन्तमेवेति ॥ एवमिति । यत्र यत्राधिकवचनं दृश्यते तत्सर्वमुक्तदार्ढ्यार्थमित्यवगन्तव्यमित्यर्थः । उभयत्रेति । सुपर्णपत्नी विशन्तीति पूर्वत्र महेन्द्रं प्रविशन्तीत्युत्तरत्र, चेत्युभयत्र सम्बध्यत इत्यर्थः ॥ उक्त एवेति । ‘काममसौ च वारुणीमि’त्युक्तत्वादिति भावः ॥ अस्येति । ‘विशन्ति शिष्टा अपि हव्यवाहमि’त्यस्येत्यर्थः । मनुष्या धर्मम् इत्येतावता पूर्तेर्वर्णाश्रमेत्यादितद्विणानर्थक्यमाशङ्क्य तत्प्रयोजनमाह वर्णेति ॥ लय एवेति । न प्रवेशमात्रमित्यर्थः । सप्तम्यर्थेऽत्र लय इत्यभिप्रेत्यापेक्षितं पूरयन्योजयति उत्तमेषु प्रवेशेनेति ।

***परिमल ***

सुपर्णपत्नीं विशन्तीत्यत्र विशन्तीति पदस्य महेन्द्रमित्यत्राप्यन्वय इति भावेनाह इत्युभयत्र सम्बध्यत इति । भूतचतुष्टयस्य लय उक्तः वायुभूतस्य लयो वक्तव्य इत्यत आह वायुभूतस्येति ॥ प्रधानेति । तस्य तु लयः प्रागुक्त इति भावः ॥ लय एवेति । न तूक्त्रान्तिरित्यर्थः ।

यादुपत्यम्

एतन्प्रसङ्गादिति । इदमुपलक्षणम् । वक्ष्यमाणानामपि पितॄणां सुरानुगानां च प्रवेशमात्रं न देहलयः । तेषां प्रतीकालम्बनत्वेनोत्क्रमणस्य विद्यमानत्वात् । गन्धर्वाद्या इत्यत्राद्यपदेन सिद्धचारणानां ग्रहणम् ।

श्रीनिवासतीर्थीया

नन्वत्र सुपर्णपत्नीपर्यन्तमेव लय उक्तो न तु तस्या अन्यत्र लयोऽतो न्यूनतेत्यत आह सुपर्णपत्न््नया इति । ननु शक्रसहितेन सुपर्णपत्नीमिति पूर्ववाक्येनैवेन्द्रस्य सुपर्णपत्न््नयां लय उक्त एवास्त्यत एतेन सुपर्णपत्नीमिति पुनः किमर्थमुच्यत इत्यत आह इन्द्रपर्यन्तमेवेति ॥ उभयत्रेति । विशन्तीत्येतत् सुपर्णपत्नीं महेन्द्रमित्युभयत्र सम्बद्ध्यत इत्यर्थः । भूतेषु वायोर्लयानुक्तेराह वायुभूतस्येति । भूतवायोरित्यर्थः । एतेन शिष्टा इत्यनेन ॥ विषयो दर्शित इति । ‘अग्नौ सर्वे देवा विलीयन्त’ इत्यत्र सर्वदेवशब्देन, ‘अग्नावग्नय’ इति महोपनिषदि ‘अग्नयस्तेजसी’ति चतुर्वेदशिखायां च प्रधानाग्नौ लीयमानत्वेन ये निर्दिष्टा एकोनपञ्चाशदग्नयस्त एव सर्वे देवा इत्यनेन ग्राह्या इत्यर्थः । अग्नीनामनेकत्वं च ‘त एवैकोनपञ्चाशत्साकं पितृपितामहैरि’ति भागवते प्रसिद्धम् । अत एवानलकुलेन्द्र इति प्रधनाग्निनाम । यथोक्तं भाष्ये । ‘अग्नौ सर्वे देवा विलीयन्त इति तत्र तत्र निर्दिष्टानामेवे’ति ॥ अपवादमिति । शिष्टा इति सामान्योक्या यमधर्मपितृगन्धर्वादीनामप्यग्नौ लयप्राप्तेस्तदपवादमाहेत्यर्थः ।

वाक्यार्थरत्नमाला

सुपर्णेतरस्य च वाणीद्वारा हिरण्यगर्भ इति । अनेन मूले सुपर्ण्याः सुपर्ण इत्येतदुपलक्षणम् इति सूचितं भवति । प्रवेशेनेत्यस्योद्भाष्यत्वं परिहरति । सप्तम्यर्थ इति । सप्तम्यास्त्रलिति सूत्रादिति भावः ।