सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम्
गरुडमार्गनिरूपणम्
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम्
सुधा
इदानीं गरुडमार्गमाह सूर्य इति ।
अनुव्याख्यानम्
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ॥
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥
अग्नियुक्त इत्यनेनाग्नेः सूर्ये लय इत्युच्यते । अनेनाग्निरिन्द्र इति श्रुतिः परम्परापेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति ।
नन्वेतत्‘इन्द्र उमायामुमा रुद्रे विलीयत’ इति श्रुतिविरुद्धम् । उमारुद्रशब्दयोः स्वार्थपरित्यागेऽपि वारुणीपरतया व्याख्यातत्वादित्यत आह इन्द्रेति ।
अनुव्याख्यानम्
इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ॥
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ॥
यदातदाशब्दावधिकरणमात्रस्योपलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न््नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलवच्छतिसिद्धत्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः ।
वाक्यार्थचन्द्रिका
यदातदाशब्दयो; कालरूपाधिकरणविवाचकत्वात्तस्य च प्रकृतेऽसम्भवादुपलक्षणया श्रुतिरूपाधिकरणपरतामाह यदातदेति । एतदेव दर्शयति ॥ यत्र श्रुताविति । उमेत्येवेत्येवशब्दस्य वैयर्थ्यादिप्रसङ्गाद्भिन्नक्रमतया तं योजयति ॥ सुपर्णपत्न््नयेवेति । तावता गिरीशपदस्य सुपर्णपरत्वलाभेऽपि रुद्रशब्दस्य तदलाभान्नोमा रुद्रे विलीयत इति श्रुतिविरोधपरिहारसिद्धिरित्यत आह गिरीशपर्यायेणेति । प्रतीतार्थपरत्वे बाधकाभावान्न लक्षणया सुपर्ण्यादिपरत्वमित्यत आह सौपर्ण्यामिति । उमागिरीशपदयोः सुपर्ण्यादिषु वृतौ किं निमित्तम् । न हि तेन विना लक्षणा सम्भवतीत्यत आह अत्रेति ।
***परिमल ***
एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनामिति । इन्द्रादित्यबृहस्पतीनां क्रमाल्लयकथनेन इन्द्रस्य सुपर्णपत्न््नयाम् आदित्यस्य तु गुरौ, गुरोश्च शक्रे, इत्येवं लयो विवृतः । तथा सूर्योग्नियुक्त इत्युक्त्या सूर्यद्वारा तेजसो वायाविति विवृतं भवतीत्यर्थः ॥ अधिकरणमात्रस्येति । न तु कालरूपाधिकरणविस्येत्यर्थः । तथात्वे कोऽर्थस्सम्पन्न इत्यत आह अत्र श्रुताविति ॥ अत्रेति । इन्द्र उमायाम् उमा रुद्र इति श्रुतावित्यर्थः । एवकारान्वेनानुवाद; सुपर्णपत्न््नयेवेति । गिरीशशब्दग्रहणमतन्त्रमिति भावेनाह गिरीशनाम्ना गिरीशपर्यायेणेति । उमादिशब्देन सुपर्णपत्न््नयादिग्रहणं किं निमित्तमित्यत आह अत्र पदेति । उमादिपदं सौपर्ण्यादिपदसदृशं न न्यूनाधिकभावापन्नमित्यर्थः ।
श्रीनिवासतीर्थीया
भूतेषु मध्ये ते तेजसोऽग्नेः । यस्मिन्काले इन्द्रप्रवेशः कथ्यते तदा तस्मिन्काले एवम् इन्द्र उमायामित्यत्रोमाशब्देन सुपर्णपत्नी उक्ता नान्यदेत्येवं प्रतीतिनिरासायाह अधिकरणमात्रस्येति । न तु कालरूपाधिकरणस्येत्यर्थः । तदेव दर्शयति यत्र श्रुताविति । तथा च यदा यत्र श्रुतौ तदा तत्र श्रुतावित्यर्थो द्रष्टव्यः । उमाशब्दस्य सुपर्णपत्न््नयां प्रवृत्तौ गिरीशनाम्नः सुपर्णे प्रवृत्तौ च किं निमित्तमित्यत आह अत्र पदसादृश्यमिति । उमासुपर्णीपदयोर्गिरीशसुपर्णपदयोश्च साम्यं प्रवृत्तिनिमित्तमित्यर्थः ।
वाक्यार्थरत्नमाला
उमायां यत्रेन्द्रप्रवेश उच्यते तत्रोमापदेन सुपर्णपत्नीत्येतावतैव पूर्तेः सुपर्णश्च गिरीशानाम्नेत्यस्य वैयर्थ्यमित्यत इन्द्रप्रवेशोऽत्रेत्येतदुपलक्षणयाऽर्थान्तरस्यापि सङ्ग्राहकत्वेन योजयति । तस्याश्चोमाया रुद्र इति मूलम् ।