सोमस्तु वारीशयुतोऽनिरुद्धं
शेषमार्गनिरूपणम्
सोमस्तु वारीशयुतोऽनिरुद्धं
सुधा
तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते ।
इह द्वौ मार्गौ मार्गो गरुडमार्गश्च ॥ तत्र मार्गमादावाह सोमस्त्विति ।
अनुव्याख्यानम्
सोमस्तु वारीशयुतोऽनिरुद्धं
विशत्यसौ काममसौ तु वारुणीम् ॥
***सा देवं स गिरं च सैव ***
वायुं विशत्यञ्ज इतीह निर्णयः ॥
वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्टये सोमस्य भूतेष्वपां च वायुप्रवेशे निर्णयः । प्राग्गिरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिद्धपदार्थका इति प्रतीतिं वारयितुमाह उमेति ।
अनुव्याख्यानम्
उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ॥
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ॥
उमागिरीशाविति भातरीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तं विमुक्तिकाल इति विमुक्तिप्रतिपादनावसरे । एतेनोमादीनां चतुर्णामिह जन्मनि मुक्त्यभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति ।
अनुव्याख्यानम्
त एव यत्तत्पदमाप्नुवन्ति …… …… …..
यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदमुत्तरकल्पे प्राप्नुवन्ति तस्मादिति पूर्वेण सम्बन्धः । अनेनोमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति । प्रसिद्धपदत्यागेनाप्रसिद्धपदप्रयोगे किं प्रयोजनमित्यत आह तत्काल इति ।
अनुव्याख्यानम्
……. …… …… तत्काल एतान्समुपास्य जीवाः ॥
ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक्तादृशतामुपैति ॥
तत्काले उमात्वादिकाले । एतानुमादीन्देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक् वेदवाणी । तादृशताम् उमादिशब्दवत्ताम् ।
एतदुक्तं भवति । यो यस्मिन्नतिपरिचयवांस्तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्तेऽपि तदभिज्ञास्तं प्रति तं पूर्वनाम्नैव व्यवहरन्तीति लोके सुप्रसिद्धम् । तथाऽत्रापि प्रयोग इति किं प्रयोजनान्वेषणेनेति ।
वाक्यार्थचन्द्रिका
यदुक्तमिति । इन्द्रादीनां ‘तत्र लय’ इत्यादिना ‘तस्मिल्लयं यान्ति भूतानी’त्यादिना चेति शेषः ॥ प्रागिति । संक्षेपेण क्रमाभिधायके वाक्य इत्यर्थः ॥ इदानीमिति । सोमस्त्विति प्रपञ्चवाक्य इत्यर्थः । भारतीरावितीत्यत्रत्येतिशब्दः योग्यत्वात्पूर्वत्रापि सम्बध्यत इत्याशयेनाह उमागिरीशावितीति । उमागिरीशावपीत्यपिशब्दस्य यथास्थितयोजनायां वैयर्थ्यमाशङ्क्य भिन्नक्रमतया तं योजयति ॥ इत्यपीति । निर्दिष्टशब्दमात्रपरत्वे वाक्शब्दस्य तत्पर्यायशब्दसमुदायस्य प्रसिद्धार्थपरित्यागेन अप्रसिद्धार्थपरत्वालाभप्रसङ्गात् । तल्लाभायाह वागित्येतत्पर्यायेति । किमनेन प्रसिद्धार्थत्वे बाधकमुक्तमित्यत आह एतेनेति ॥ वृत्ताविति । अमुख्यवृत्तावित्यर्थः । तस्याः शक्यसम्बन्धादिरूपनिमित्तापेक्षत्वादिति भावः । ननु तथाऽपि किं प्रयोजनमिति शङ्काया न परिहारः प्रयोजनानुक्तेरित्यतः प्रयोजनानुक्तावपि तदुपासनादिना तत्रातिपरिचयसूचनेन प्रयोजनानपेक्षत्वसूचनात्तत्परिहारोपपत्तिरित्याह एतदुक्तं भवतीति ॥ तस्येति । यस्मिन्नित्युक्तस्येत्यर्थः । तदभिज्ञास् तत्परिचयाभिज्ञास् तं प्रति यः परिचयवांस्तम् प्रतीत्यर्थः ॥ तमिति । यस्य नामान्तरप्राप्तिस्तस्येत्यर्थः ।
***परिमल ***
यदुक्तमिति । अक्रमानुरोधेनेत्यत्रोक्तमित्यर्थः । तस्य श्रुत्याद्युक्तसर्वक्रममनुसृत्येति व्याख्यानात् । इहेत्यनुवादः, इन्द्रादिचतुष्टय इति व्याख्या ॥ भूतेष्विति । प्रवेश इत्यन्वयः । ननु प्राक् उमादिशब्दानाम् अप्रयोगात् ‘उमागिरीशौ भारतीराविति वागि’ति कथमेकवचनं प्र(वा)युक्तं वाच इति वक्तव्यत्वादित्यत आह वागिति ॥ एतत्पर्यायेति । उमादिशब्दपर्यायाणां श्रुत्यन्तराद्युक्तपर्यायाणां च गिरिजां रुद्रं गिरं वायुम् इत्याद्युक्तगिरिजोमादिशब्दानां समुदायो गृह्यत इत्यर्थः । वेदगता वाक् तथा वदतु नाम भवन्तः किमर्थमेवं वदन्तीत्यत आह वेदवाक्येति । वयं मूलकाराः । तथैव गिरिजोमादि शब्देनैवेत्यर्थः । अस्फुटत्वादाह एतदुक्तं भवतीति ॥ आश्रमान्तरप्राप्त्यादिनेति । राजाऽऽदिना प्रीत्यादिना नामान्तरे प्राप्त इत्याद्यादिपदेन ग्राह्यम् ।
श्रीनिवासतीर्थीया
द्वौ मार्गाविति । गरुडमार्गौ ब्रह्माण्डाद्बहिरेवेति ज्ञातव्यम् ॥ इन्द्रादि चतुष्टय इति । ‘वायाविन्द्रः सोम आदित्यो बृहस्पतिरि’ति वाक्योक्तेन्द्रादिचतुष्टयमध्ये सोमस्य वायुप्रवेशे निर्णयः कृतः । भूतेषु मध्ये अपां वायुप्रवेशे निर्णय इत्यर्थः ॥ एतत्पर्यायेति । उमागिरीशपर्यायाणां पार्वतीशङ्करादिशब्दानां भारतीवायुपर्यायाणां विद्युत्प्राणादिशब्दानामित्यर्थः ॥ एकद्रव्येति । देवानां जीवस्वरूपैकद्रव्येत्यर्थः ।
वाक्यार्थरत्नमाला
भारतीरावितीत्यत्रत्येतिशब्द इति पाठः । निर्दिष्टशब्दमात्रपरत्व इति । वाक्शब्दस्योमागिरीशाविति वागिति प्रागुक्तनिर्देश प्रकारानुसरणीया वागुमागिरीशपदोपेता तस्या एवाहीन्द्रपत्न््नया वाचकत्वादिप्राप्तावपि पार्वतीरुद्रादितत्पर्यापपदोपेताया उक्तपरत्वाप्राप्तेरित्यर्थः । मूलानुसारेण वाक्शब्दस्येत्येवोक्तम् । इति वाक्शब्दस्येति वक्तुमुचितम् । इतीत्यनेन निर्देशप्राप्तेस्तत्रैव निर्देशान्तरोप लक्षणया प्राप्तावपि वाक्शब्दस्य यथास्थितार्थतया तत्र व्यत्यासाभावात् । एतेन वाक्शब्दपर्यायवचनादिशब्दग्रहणास्यात्रानभिप्रेतत्वाद्यथाश्रुतार्था सङ्गतिरिति परास्तम् । किं निमित्तमिति मूलम् । शक्यसम्बन्धादिरूपं किन्निमित्तमित्यर्थः ।