ॐ नैकस्मिन्दर्शयतो हि ॐ
॥ अथ अनेकलयाधिकरणम् ॥
भूतप्रकरणस्थवायुशब्दस्य मुख्यवायुपरत्वसमर्थनम्
ॐ नैकस्मिन्दर्शयतो हि ॐ
सुधा
ॐ नैकस्मिन्दर्शयतो हि ॐ ॥ अत्राग्नौ सर्वे देवा विलीयन्ते । भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रतिपत्त्या किमग्नावेकस्मिन्सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्विति संशयेऽग्नावेकस्मिन्नेव सर्वेषां देवानां लयः । अग्निश्रुतेर्निरवकाशत्वात् । भूतश्रुतेस्तु सावकाशत्वात् । एकस्मिन्नग्नौ सर्वेषां च लयेऽग्न्रेश्च वायौ वायोराकाशे सति भूतेष्विति बहुवचनोपपत्तेरिति प्राप्ते सिद्धान्तितम् । नैकस्मिन्नग्नौ सर्वेषां देवानां लयः ॥ किन्तु पञ्चस्वपि भूतेषु । कुतः । ‘पृथिव्यामृभवो विलीयन्ते, वरुणेऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते’ (मृत्यवः) ‘ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्त’ इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति ।
अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते । पृथिव्यादिसङ्कीर्तनेन भूत(प्रकर)कारणात् । सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीतेऽयं श्रुतिः । भूतेषु तच्छतेरित्युपक्रमात् । ततोऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय आह प्रधानेति ।
अनुव्याख्यानम्
॥ ॐ नैकस्मिन्दर्शयतो हि ॐ ॥
प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या ॥
तुशब्दोऽवधारणे । इह श्रुतौ भूतेष्विति प्रोक्तगतोऽपीति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतोऽपीति । यद्वा भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतोऽपीति । कुतः । युक्त्या उत्तमानामिन्द्रादीनामधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति ।
अनुव्याख्यानम्
यस्माच्छतौ पवते चेति भूरिप्रोक्तो ………
यस्मात्कारणात् ‘सा वा एषा देवताऽनादिर्योऽयं पवत’ इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुर् भूरि भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मिन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्विह वायुनामेति सम्बन्धः । यद्वा ‘एष वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरि’ति श्रुतिरत्र विवक्षिता । तत्र भूरि स्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति ।
अनुव्याख्यानम्
……… ….. …. …… यतो भूतमानी च सोऽपि ॥
न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद्भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात्प्रधानवायुरेवेह वायुनामेति ।
उक्तमेव प्रपञ्चयति महामानीति ।
अनुव्याख्यानम्
महामानी त्वल्पमानी च यस्मा
त्तच्छब्देनाप्युच्यते तेन सोऽपि ॥ ५ ॥
महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् । यथा समस्तराष्ट्राधिपती राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवत्येवं सर्वाभिमानी प्रधानवायुरल्पस्य वायोर्भूतस्याभिमानी भवेदेव । तच्छब्देन भूतशब्देन । न केवलं वायुशब्देनेत्यपेरर्थः ॥ ४२५ ॥
वाक्यार्थचन्द्रिका
निरवकाशत्वादिति । अग्नावित्येकवचनश्रुतियुक्ततयेति शेषः । ननु बहुवचनश्रुतियुक्तत्वाद्भूतश्रुतेरपि निरवकाशत्वमेवेति कथं निर्णय इत्यतस्तस्याः सावकाशतामुपपादयति एकस्मिन्निति ॥ शङ्काबीजेति । भूतप्रकरणादिरूपशङ्काबीजेत्यर्थः । तदुभयानुवादतामेव दर्शयति भूतेष्वित्यादिना ॥ यद्वेति । पूर्वोदाहृतश्रुतौ वायोरुत्तमत्वोक्त्या तत्रेन्द्रादीनामार्थिको लयलाभः । अत्र तु पक्षे वायाविन्द्र इत्यादौ निर्दिष्टानां केषाञ्चित्साक्षादेव तत्र लयोक्तिरिति पक्षयोर्भेदोऽवधेयः । नन्वनेन महत्तत्त्वाभिमानित्वप्राप्तावपि न सर्वाभिमानित्वप्राप्तिरिति विवक्षितासिद्धिरित्यतो भवेदेवं यद्यत्र महतोऽभिमानीति षष्ठीतत्पुरुषो विवक्षितः स्यात् । न चैवम् । किन्तु समानाधिकरणसमास एव । तथा च परमधार्मिक इत्यादौ धर्मेण परमत्वलाभवदत्रापि सन्निधानादभिमानित्वेनैव महत्त्वलाभात्सर्वाभिमानित्वसिद्धिरित्यभिप्रेत्य समानाधिकरणसमासमाह महांश्चासाविति ॥ ग्रामकस्येति । अल्पार्थे कप्रत्ययविधानादल्पस्य ग्रामस्येत्यर्थः ॥ ४२५ ॥
***परिमल ***
नैकस्मिन्दर्शयतो हि । इहेत्यनुवादः श्रुताविति व्याख्या । ‘पृथिव्याम् ऋभव’ इति श्रुतावित्यर्थः ॥ शङ्काबीजेति । भूतवायुरेवेति शङ्कायां यद्बीजं भूतप्रेरणरूपं तदनुवाद इत्यर्थः । भूतेष्वित्यस्य श्रुतावभावात्तथोक्तिं घटयति भूतेष्विति । प्रोक्तमित्यनुवादः । सूत्रकृता गृहीतमिति व्याख्या । इत्यर्थ इत्युत्तरवाक्यमत्र पूर्वत्र चाकृष्यते । युक्तयेत्यनुवादः ॥ इति श्रुताविति । बह्वृचब्राह्मणे ॥ राष्ट्राधिपती राजेति । ढूलोपे पूर्वस्य दीर्घोऽण इति दीर्घः ॥ ४२५ ॥
श्रीनिवासतीर्थीया
ॐ नैकस्मिन्दर्शयतोहि ॐ ॥ श्रुती महोपनिषच्चतुर्वेदशिखे । अत एव अस्वरसाद् अजीवः समस्तजीवा इति कर्तृवाचकपदद्वयसार्थक्याय समस्तजीवा इत्यस्य हरौ लयं यान्तीति क्रियापदस्यैकस्य सद्भावादजीवा इत्यस्यैकं क्रियापदमध्याहरति यद्वेति ॥ ४२५ ॥
वाक्यार्थरत्नमाला
वायाविन्द्र इत्यादिमूलम् । इन्द्रादयश्चत्वारो वायौ विलीयन्त इत्यर्थः । प्रकरणादीति । आदिपदेन श्रुतेर्भूतेष्विति सूत्रेण गृहीतत्वपरिग्रहः । तदुभयेत्यत्रापि प्रकरणसूत्रपरिग्रहयोः परामर्शः । भूतेषु लयमिति प्रथमेनाद्यानुवादताया यद्वा भूतेष्विह्यनेन द्वितीयेनतु द्वितीयानुवादतायाश्च प्रदर्शनमिति विवेकः । यद्वेष वै ब्रह्मेति श्रुतिस्थयद्वेत्यस्य प्रतीकोपादानम् । यद्वेतीति । वायाविन्द्र इत्यादावित्यादिपदेन तदुत्तरवाक्यस्येवाग्नयस्तेजसीति वाक्यान्तरस्यापि ग्रहणं तेन निर्दिष्टानां मध्ये केषाञ्चिदेवेति वचनं युक्तमिति ज्ञेयम् । केषाञ्चित्सोमादित्याग्नीनाम् ।
॥ इति अनेकलयाधिकरणम् ॥