१० अन्यथामोक्षस्वरूपनिरासोपसंहारः

इत्थं मतानि भ्रमजानि

अन्यथामोक्षस्वरूपनिरासोपसंहारः

इत्थं मतानि भ्रमजानि

सुधा

मोक्षवादार्थमुपसंहरति इत्थमिति ।

अनुव्याख्यानम्

इत्थं मतानि भ्रमजानि …….. …….

इत्थमुक्तप्रकारेण जैनादिमतानि भ्रमजानि । उपलक्षणमेतत् । कानिचिद्विप्रलम्भजानि इत्यपि ज्ञेयम् । तस्माद्धेयानीति शेषः । ननु वक्तॄणां क्वचिद्भ्रमः सम्भवत्येव । को दोष इत्यत आह यस्मादिति ।

अनुव्याख्यानम्

…. ….. ……. यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण ॥

विदुर्न सम्यक् …… …… ………

मतानां प्रणेतार इति शेषः । अप्राकरणिकं प्रसक्तानुप्रसक्तयागतमर्थं कथञ्चिदन्यथा जानन्तोऽपि नातीव निन्द्या भवन्ति । एते तु प्रधानोद्देश्यमपि मोक्षं सम्यङ् न विदुः । किन्तु भ्रमेन वैपरीत्येन विदुः । तस्मात्तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः ।

न चातिसूक्ष्मप्रमेये अज्ञानविपर्ययावेतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाह यदपीति ।

अनुव्याख्यानम्

यदपीह लौकिकाः सुखं मम स्याद्धि सदेति जानते ॥

यद्यस्मादिह प्राणिषु लौकिका वैदिकबुद्धिरहिता अपि, मे सदा सुखं स्यादिति स्वोद्देश्यं जानते हि । न तु वयमेव न भूयास्मेत्यादि । अतस्तेभ्योऽप्येते मन्दा इति । तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम् ॥

वाक्यार्थचन्द्रिका

बौद्धमतस्य भ्रमजत्वासम्भवात्तत्सङ्ग्रहायाह उपलक्षणमेतदिति । शिष्टं स्पष्टम् । समर्थितमिति । तत्तद्वाद्युक्तमोक्षस्वरूपनिराकरणपूर्वकं ‘कर्मक्षयस्तथोत्क्रान्तिरि’त्यादिना स्वोक्तमोक्षस्वरूपसमर्थनेनेति शेषः ॥

***परिमल ***

भगवदवतारादिसर्वज्ञकृतानां बौद्धशैवादिमतानां भ्रमजत्वाभावादाह कानिचिदिति । सुविदित इति सप्तम्यन्तम् । प्रमेये इत्यनुषङ्गः ॥ वयमेव न भूयास्मेति । मम सत्त्वं मा भूदिति स्वात्माभावमेवोद्देश्यं न जानत इत्यर्थः । इत्यादीत्यादिपदेन मम क्लेशनिवृत्तिरेवास्तु सुखं मा भूदिति न जानत इति ग्राह्यम् ॥ तदनेन प्रबन्धेनेति । ‘तत्र मोक्षस्वरूपं त्वि’त्यतोऽधस्तनग्रन्थेन पादप्रतिपाद्यं पादानां सङ्गतिं चोक्त्वा तत्स्थैर्याय तत्र मोक्षेत्यादिना परमतानां हेयत्वोपपादनेन समर्थितमित्यर्थः ॥ (पादप्रतिपाद्यसङ्गतिसमर्थनम् ।)

यादुपत्यं

कानिचिदिति । बौद्धपाशुपतादीनीत्यर्थः ॥ पादप्रतिपाद्यमिति । एतत्प्रकरणोपक्रमे ‘भवेदेवं पादार्थः सङ्गतिश्चे’त्याक्षिप्तत्वादिति भावः ॥

श्रीनिवासतीर्थीया

कानिचिद् बौद्धमतानि । प्रसक्त्यनुप्रसक्त्यागतं प्रसङ्गानुप्रसङ्गाभ्यामागतमर्थम् । सुविदिते प्रमेयेज्ज्ञान विपर्ययाविति सम्बन्धः ॥ वयमेवेत्यादि । शून्यवाद्याद्युक्तप्रकारेणेत्यर्थः ॥ तेभ्यः वैदिकबुद्धिरहितेभ्यः ॥

इति अन्यथामोक्षस्वरूपनिराकरणम्