०९ यादवप्रकाशाद्युक्तमोक्षस्वरूपनिरासः

न चैव मुक्तेन हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति

यादवप्रकाशाद्युक्तमोक्षस्वरूपनिरासः

न चैव मुक्तेन हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति

सुधा

एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नाभिन्नो जीवस्तस्य संसारे भेद एव व्यक्तोऽभेदस्त्वविद्यादिनाऽऽवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतमधुना निराकरोति न चेति ।

अनुव्याख्यानम्

न चैव मुक्तेन हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ॥

तथाशब्दः समुच्चये । इति च मतं युक्तिं नैवैतीति सम्बन्धः । कुतः । उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् । अनुमानस्य चाद्यस्यास्मान्प्रत्यसिद्धव्याप्तिकत्वाद् द्वितीयस्य चातद्भूतस्य तद्भावनिरासहेतोः सिद्धसाधनत्वादित्यतोऽनुमानान्तरमाह यत इति ।

अनुव्याख्यानम्

यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥

यतः कारणाच्चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चित्प्रमाणान्न दृष्टेत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वाद् देवदत्तयज्ञदत्तवत् । ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वाद्यज्ञदत्तवदित्याद्यनुमानं सूचितम् ।

वाक्यार्थचन्द्रिका

समुच्चय इति । पूर्वं निरस्तभास्करादिमतेन सहास्य मतस्य समुच्चय इत्यर्थः । उक्तमर्थमाक्षिपति कुत इति । इति च मतं युक्तिं नैवैतीत्येतत्कुत इत्यर्थः । किं नुतिविरुद्धत्वादुत कालोऽप्यसौ नैक्ययुत इति पूर्वानुमानविरुद्धत्वा किं वा कथं च यः पूर्वमसावित्युक्तानुमानविरुद्धत्वादिति विकल्पान्मनसि निधायाऽऽद्यं दूषयति उदाहृतेति । ‘सोऽश्नुते सर्वान्कामान्सहे’त्यादीनामित्यर्थः । द्वितीयं प्रत्याह अनुमानस्य चेति । दृष्टान्तीकृतेनेदानीन्तनकालेऽपि जीवस्य परैक्यसद्भावेन तदभावरूपसाध्यासिद्ध्या दृष्टान्ते साध्यवैकल्येनाद्यानुमानस्याभासत्वादित्यर्थः । न चात्यन्ताभेदाभावस्य साध्यत्वेनाभेदाभावमात्रस्यासाध्यत्वाद् अभेदसद्भावेन तदभावाभावेऽपि भेदाभेदवादिनाऽत्यन्ताभेदानभ्युपगमेन तदभावरूपसाध्यस्य दृष्टान्ते सद्भावान्न साध्यवैकल्यमिति वाच्यम् । संसारे भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदवादिनः प्रति तत्साधनावसरेऽपि संसार इव मुक्तावपि भेदाभेदावभ्युगच्छतो यादवप्रकाशादीन्प्रति अत्यन्ताभेदाभावसाधने सिद्धसाधनत्वप्रसक्त्यैक्याभावमात्रस्यैव साध्यत्वावश्यम्भावेन दृष्टान्ते साध्यवैल्यस्य वज्रलेपत्वादित्याशयात् । न तृतीय इत्याह द्वितीयस्य चेति । प्राक्ततोऽत्यन्तभिन्नत्वादिति तृतीयानुमानस्येत्यर्थः । सिद्धसाधनतामुपपादयति अतद्भूतस्येति । पूर्वमत्यन्ताभेदशून्यस्येत्यर्थः ॥ तद्भावनिरासहेतोरिति । तदत्यन्ताभेदनिरासहेतोरित्यर्थः । सिद्धसाधनत्वादित्युपलक्षणम् । प्राक्ततोऽत्यन्तभिन्नत्वाभावेन हेत्वसिद्धिश्चेत्यपि द्रष्टव्यम् । यद्वा हेत्वसिद्धेरत्र वक्तुं शक्यत्वेऽपि प्रथमप्राप्तत्वात्प्रतिज्ञाश्रयदोषस्य सिद्धसाधनत्वमात्रोद्भावनमिह टीकायां कृतमिति द्रष्टव्यम् ।

***परिमल ***

मुक्तावपि भेदाभेदवादी शङ्कते कुत इत्यादिना । कुतोऽस्मन्मतमयुक्तम् । भवदुक्तवचनानाम् अनुमानयोश्च भेदाभेदवादिनो ममाविरोधादित्युपपादयति उदाहृतेति । न वर्तते यत्रेत्यादिवचनानां भेदज्ञापकत्वात् । भेदस्य च मन्मते मुक्तावपि सत्त्वादिति भावः ॥ आद्यस्येति । ‘कालोऽप्यसौ नैक्ययुतः परेण जीवस्ये’त्यत्रोक्तस्येत्यर्थः ॥ असिद्धव्याप्तिकत्वादिति । संसारकालेऽप्यभेदस्य सत्त्वादिति भावः । द्वितीयस्य चेति । ‘कथं च यः पूर्वमसौ न पश्चादि’त्यत्राभिमतस्य भोक्तापत्तिनयोक्तस्येत्यर्थः ॥ सिद्धसाधनत्वादिति । पूर्वं भिन्नाभिन्नस्य पश्चादपि तथैवोपगमनेना तद्भूतस्य तद्भावानभ्युपगमादिति भावः ।

यादुपत्यं

शङ्कते कुत इत्यादिना ॥ अनुमानस्य चेति । मोक्षसम्बन्धी कालो जीवस्य परेण यदैक्य तद्युतो न भवति कालत्वात्संसारकालवदित्याद्यनुमानस्येत्यर्थः । अत्र यथाश्रुतमेव साध्यं विवक्षितं नैक्यशब्दोऽत्यन्ताभेदपरो व्याख्येयः । तथात्व एतन्मते सिद्धसाध्यताप्रसङ्गात् । दृष्टान्ते साध्याभावेनासिद्धव्याप्तिकत्वमुपपन्नमिति ध्येयम् । द्वितीयस्य चेति । जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते । प्राक् ततो भिन्नत्वादिति द्वितीयानुमानस्येत्यर्थः ॥ अतद्भूतस्येति । पूर्वमत्यन्ताभेदशून्यस्येत्यर्थः ॥ तद्भावनिरासहेतोरिति । तदत्यन्ताभेदनिरासहेतोरित्यर्थः । ततश्च प्राक् ततो भिन्नत्वादित्यस्य प्राक् तदभेदशून्यत्वादित्येवार्थो वर्णनीयः । यः पूर्वमसौ नेति मूलस्वारस्यात् । भेदाभेदवादिमते भिन्नेऽप्यभेदाङ्गीकारेणाप्रयोजकत्वप्रसङ्गाच्च । न चासिद्धिः । तन्मते पूर्वमप्यभेदसद्भावात् । अतः पूर्वमत्यन्ताभेदशून्यत्वात्पश्चादत्यन्तमैक्यं नेत्येव साधनीयम् । तथा च सिद्धसाधनत्वमित्यर्थः ।

श्रीनिवासतीर्थीया

शङ्कते ॥ कुत इत्यादिना । कुत इत्यनन्तरं मुक्तिं नैतीति वर्तते । सोऽश्नुत इत्याद्युदाहृतवचनविरोधस्तावदस्मन्मते नास्तीत्युपपादयति उदाहृतेति ॥ आद्यस्येति । मोक्षकाले जीवस्य यत्परेणैक्यं तद्युता न भवतीति साधने संसारकाले भेदाभेदाङ्गीकारेण दृष्टान्ते साध्यवैकल्यापत्त्याऽस्मान्प्रत्यसिद्धव्याप्तिकत्वादित्यर्थः ॥ अतद्भूतस्येति । पूर्वमत्यन्ताभेदशून्यस्य तदत्यन्ताभेदानिरासहेतोः प्राक् ततोऽत्यन्तभिन्नत्वादित्यस्येर्थः । जीवो न कालान्तरे ब्रह्मणाऽत्यन्तैक्यम् आपत्स्यते । प्राक् ततोऽत्यन्तभिन्नत्वादित्यनुमानस्य सिद्धसाधनता । मुक्तौ भेदाभेदाङ्गीकारात् । संसारेऽपि भेदाभेदाङ्गीकारेण प्राक् ततोऽत्यन्तभिन्नत्वहेतोः स्वरूपासिद्धिश्च स्यादित्यपि द्रष्टव्यम् ।

वाक्यार्थरत्नमाला

प्रतिज्ञाश्रयदोषस्य प्रथमप्राप्तत्वादिति पूर्वेणान्वयः । सिद्धसाधनत्वमात्रेति । प्रतिज्ञाभूतेति शेषः ।