०७ ब्रह्मैक्यत्वलक्षणमोक्षनिरासः

न ब्रह्मरूपत्वममुष्यदेहिनो मुक्तावपि स्यात्प्रमया कथञिचत्

ब्रह्मैक्यत्वलक्षणमोक्षनिरासः

सुधा

एवं साङ्ख्यादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणाऽत्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति नेति ।

अनुव्याख्यानम्

न ब्रह्मरूपत्वममुष्यदेहिनो मुक्तावपि स्यात्प्रमया कथञिचत् ॥

कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः । श्रुतीनां प्रागन्यथा व्याख्यातत्वात् । यद्वा कथञ्चित् केनापि साधनेन न स्यात् कुतः । प्रमया मुक्तावपि भेदे प्रमाणसद्भावादित्यर्थः ॥ तत्प्रमाणं पठति स इति ।

अनुव्याख्यानम्

स ब्रह्मणा सहितोऽभोगान्भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥

यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ॥

भुङ्क्ते स देवः पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः ॥

सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ॥

अनेन ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिते’ति श्रुतिमुपादत्ते । तथाशब्दः श्रुतिसमुच्चये । उपेत्येत्यने‘नैतमानन्दमयमात्मानमुपसङ्क्रम्ये’ति । उपेत्य तथाऽभोगान्भुङ्क्त इति वा । यत्तदित्यनेन ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन्क्रीडन्रममाणः, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मे’ति श्रुतिद्वयम् । यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुति पठतैव निराकृता । पराक्रन्तां चात्र सूत्रकृतैव ‘अन्यार्थश्च परामर्श’ इति । गुणपूर्तिहेतोर् इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् । सेतुरित्यनेन ‘अमृतस्यैष सेतुरि’ति । उतेत्यनेन ‘उतामृतत्वस्येशानो यदन्नेनातिरोहती’ति ।

उदाहृतवाक्यफलं दर्शयति इत्यादीति ।

अनुव्याख्यानम्

***इत्यादिवाक्यैर्भगवद्वशः सन्भुङ्क्तेऽखिलान्मुक्तिगतोऽपि ***

भोगान् ॥

इति ज्ञायत इति शेषः । भगवद्वश इत्युपलक्षणम् । तत्समीपं प्राप्त इत्यपि ग्राह्यम् । औतिनो भोगं न मन्यन्त इत्यतः सोऽप्यत्र वर्णितः ।

वाक्यार्थचन्द्रिका

प्राग्भिन्नस्येति । प्रागत्यन्तभिन्नस्येत्यर्थः । प्रतिज्ञातार्थे प्रमाणाभावकथनपरत्वात्कथञ्चित्प्रमयेत्यस्य न वैयर्थ्यमित्याशयेन तदनूद्य व्याख्याति कथञ्चिदिति । ननु ‘परेऽव्यये सर्व एकीभवन्ती’त्यादिश्रुतीनामेव तत्र प्रामाण्यात्कथं तत्र प्रामाण्याभाव इत्यत आह श्रुतीनामिति ॥ प्रागिति । पृथगुपदेशादित्यधिकरणे ‘सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपि चाभिदामि’त्यादिनेति शेषः । बाधकसद्भावोपदर्शकत्वाच्च न प्रमयेत्यंशस्य वैयर्थ्यमित्यभिप्रेत्य तथा तद्व्याचिख्यासुः कथञ्चिदित्येतत्प्रतिज्ञातया योजयति यद्वेति । स इत्यादि भाष्ये तथाशब्दो न श्रुतेरर्थानुवादः किन्तु श्रुतिसमुच्चयार्थ इत्याह तथाशब्द इति । उपेत्येत्येतावन्मात्रस्य श्रुत्यन्तरोपदर्शकत्वमङ्गीकृत्य तथाशब्दः श्रुतिसमुच्चयार्थतया व्याख्यातः । इदानीं स इत्यादि सम्पूर्णस्य भाष्यस्य श्रुत्यर्थानुवादकत्वमभिप्रेत्य ‘इमांल्लोकान्कामान्नी कामरूप्यनुसञ्चरन्नि’ति उपेत्येत्येतत्सङ्गृहीतश्रुतिशेषार्थानुवादरूपतामभिप्रेत्याभोगान्भुङ्क्त इति पूर्वप्रकृतपरामर्शकतया तथाशब्दं व्याचष्टे उपेत्य तथाशेषान्भोगान्भुङ्क्त इति वेति । यत्तत्परमित्यादिभाष्यं न केवलमर्थतः श्रुतिमात्रपरिग्राहकं किन्तु परकीयतच्छत्यपव्याख्याननिराकरणपरं चेत्यभिप्रेत्यापव्याख्यानप्रकारोपदर्शनपूर्वकं तन्निरासेऽपि तद्व्यापारयति य इत्यादिना । नन्वियमन्यथाप्रतीतिरेव कुतः । यथावत्प्रतीतिरेव किं न स्यादित्यतस्तत्सूत्रकृताऽस्यार्थस्य निराकृतत्वादित्याशयेन तन्निरासकं सूत्रं पठति पराक्रान्तं चेत्यादि । इह टीकायां पुरुषोत्तमत्वस्य चोपपादकमिति प्रायिकपाठः । पुरुषोत्तमत्वस्योपपादकमिति क्वाचित्कश्च । तत्राद्ये भाष्ये गुणपूर्तिहेतोरित्यस्य वैयर्थ्यमाशङ्क्य श्रौतात्मशब्दव्याख्यानार्थत्वात्पुरुषोत्तमत्वस्योपपादकत्वाच्च न वैयर्थ्यमित्याह गुणपूर्तिहेतोरिति इत्यवतारः कर्तव्यः । द्वितीये यथास्थितश्रुतियोजनाप्रदर्शनेनैवान्यथाव्याख्याननिराससिद्धेर्गुणपूर्तिहेतोरिति भाष्यकारीयश्रौतात्मशब्दव्याख्यानस्य वैयर्थ्ययाशङ्क्य तत्प्रयोजनमाहेति द्रष्टव्यम् ॥ पुरुषोत्तमत्वस्य चोपपादकमिति । अनेन श्रुतौ स उत्तमः पुरुष इत्युक्तं पुरुषोत्तमत्वं कुत इत्याकांक्षायामात्मेत्युक्तम् । तत्कथमस्य गमकत्वमित्यतो भाष्यकृता आत्मशब्दो व्याख्यातः । ततश्चात्मशब्देनास्य पुरुषस्य गुणपूर्त्यभिधानाद् युक्तमस्य पुरुषोत्तमत्वमित्युपपाद्योपपादकभावेन पदद्वययोजना सूचिता भवति ।

ज्ञापकश्चायमर्थो न कारक इत्याशयेनानुरूपं माह इति ज्ञायत इति इति । ननु ‘सोऽश्नुतेस र्वान्कामानि’त्यादिवाक्यैर्भगवद्वशत्वस्येव ‘एतमानन्दमयमात्मानमुपसङ्क्रम्ये’त्यादिभिस्तत्समीपप्राप्तेरप्यभिहितत्वाद्भगवद्वशत्वमात्रकथनं भाष्यकारीयमनुपपन्नमित्यतोऽस्य तत्समीपप्राप्त्युपलक्षकत्वान्नानुपपन्नपपत्तिरित्याशयेनाह भगवद्वश इत्युपलक्षणमिति । ननु भगवद्वशत्वतत्समीपप्राप्त्युक्तिमात्रेणैव मुक्तस्येश्वरभेदसिद्धेस्तावदेव भाष्यकृता वक्तव्यम् । भोगकथनस्य तु क्वोपयोग इत्यत आह औतवादिन इति ।

***परिमल ***

श्रुतीनामिति । मुक्तावैक्यबोधकश्रुतीनां वियत्पादे पृथगधिकरणे तथा भक्तिपादे अत एव चोपमेत्यत्र च स्थानैक्यमत्यैक्यपरत्वेन ‘स्थानैक्यमैकमत्यं च मुक्तस्य तु वित’ इत्यादिना व्याख्यानादित्यर्थः । प्रमयेत्यनुवादः मुक्तावपीत्यादि व्याख्या ॥ उपेत्य तथेति । नेदं श्रुतिप्रतीकग्रहणं किन्त्वर्थोक्तिपरमिति भावः ॥ अन्यार्थ इति । अन्यार्थो भगवदर्थः स उत्तमः पुरुष इति परामर्श इति दहराधिकरणस्थसूत्रार्थः ॥ अमृतत्वमिति । मुक्तवर्गस्येत्यर्थः । अन्नेनान्नं मर्त्यसंसारिणम् । अतिरोहति अतिक्रम्य वर्तते । ‘मर्त्यमन्नं यदत्यगात्’ इति प्राग्व्याख्यानात् । परं ज्योतिरुपसम्पद्येत्यादि श्रुत्युक्तानुरोधायाह तत्समीपं प्राप्त इति । प्रस्तुताद्वैतिनं प्रति मुक्तौ भेदस्यैव वाच्यत्वाद् भोगोक्तिरसङ्गता । भोगस्य चतुर्थपाद एव वक्तव्यत्वादित्यत आह औतिन इति ।

यादुपत्यं

तत्समीपं प्राप्त इत्यपीति ॥ उपसम्पद्येति श्रुतेरपि पूर्वमुदाहृतत्वादिति भावः । सोऽप्यत्र वर्णित इति । वस्तुतस्तु मुक्तौ भेदप्रतिपादनमेव प्रकृतसङ्गतमिति भावः । यदैक्यमिति बुद्ध्या विवेकप्रदर्शनेनैक्यशब्दस्य नित्यसापेक्षत्वात्समास इति सूचितम् ॥

श्रीनिवासतीर्थीया

श्रुतीनां ‘परेऽव्यये सर्व एकीभवन्ती’त्यादीनाम् । मूले सुखार्णवं तमित्येतद् आनन्द मयमात्मानमित्यस्यार्थकथनमिति ज्ञातव्यम् । तथाशब्दः श्रुतिसमुच्चयार्थतया व्याख्यातः । इदानीं भोगान् भुक्तम् इत्यस्य परामर्शक इत्यभिप्रेत्याह उपेत्य तथाऽ इति । सुखार्णवं तमुपेत्येत्यर्थः । ‘इमान् लोकान्कामान्नी’त्यादिनोत्तरत्र भोगोक्तेरिति द्रष्टव्यम् ॥ आत्मेति चेति । स एवोत्तमः पुरुष आत्म जीव इत्यर्थः ॥ अन्यार्थश्चेति । यं प्राप्य जीवः स्वेन रूपेणाभिनिष्पद्यते स एष आत्मेति परमात्माऽर्थश्च परामर्श इति सूत्रार्थः ।

वाक्यार्थरत्नमाला

अमुष्य देहिनो न ब्रह्मरूपत्वमित्येतावता पूर्तेः कथञ्चित्प्रमेयेत्यस्य वैय्यर्थ्यमित्यतो नायं स्वरूपनिषेधः । किं तु प्रामाणिकत्वेन । तथा च प्रमाणेन ब्रह्मरूपत्वं नास्तीति साधकप्रमाणाभावप्रतिपादके वाक्ये साधकप्रमाणाभावरूपार्थोक्तयुपयोगितया तदुपस्थानार्थत्वान्न वैय्यर्थ्यमित्याशयेन योजयति । प्रतिज्ञातार्थ इति । एतेन केनापि प्रमाणेनेति मूलकृता कथंशब्दोत्तरचिच्छब्देन कथं शब्दीयाक्षेपशक्तेः प्रतिबन्धाश्रयणेन केनपि प्रमाणेन न ब्रह्मरूपत्वमित्येवार्थस्य सूचनात्कथञ्चित्प्रमेयेत्येतावन्मात्रस्य साधकप्रमाणाभावकथनपरत्वायोग इति शङ्का निरस्तेति ज्ञेयम् । एकीभवन्तीत्यादीति । अदिना तत्वमसीत्यादेर्ग्रहणम् । एवं साधकप्रमाणाभावकथनार्थतया कथंचित्प्रमेयेत्येतद्विशिष्ठं योजयित्वेदानीं कथंचिदित्येतावन्मात्रस्यैव साधकप्रमाणाभावप्रतिपादकत्वमित्याशयेन योजना ।

मूले यद्वाक्यं कथंचिदितीति । तर्हि प्रमेयेत्यस्य वैयर्थ्यमित्यतोऽस्य बाधकोपदर्शनार्थत्वान्न वैय्यर्थ्यमित्याशयेनाह । तथा योजयितुं तदुत्थापयति । कुत इत्यादीत्येवं मनसि कृत्वाह । बाधकसद्भावेति । न केवलं पूर्वयोजनायां साधकप्रमाणभावोपदर्शकसिध्यर्थं प्रमेयेत्यस्य न वैय्यर्थ्यं किं तु केनापि साधनेन न ब्रह्मरूपत्वमिति प्रतिज्ञाते कुत इत्याकाङ्क्षायां बाधकोपदर्शकत्वच्च न वैयर्थ्यमित्यर्थः । न श्रुतेरर्थ इति । इतरांशवदिति भावः । उपेत्येत्येतावन्मात्रेति । न तु तथा शब्दसहितस्येत्यर्थः । संपूर्णस्येति । तथाशब्दस्यपि श्रुतिगतार्थविप्रतिपादकत्वादिति भावः । उपेत्येत्येतदिति । उपेत्येत्यनेन संगृहीतथार्थतोनूदिताया एतमानन्दमयमात्मानमिति श्रुतिस्तस्या यः शेष इमाल्लोकानित्यादिरूपस्तदर्थानुवाद इत्यादि योजना । न केवलमर्थतः श्रुतीति । अर्थतः श्रुतिपरिग्रहमात्रं परं न भवतीत्यर्थः । आद्ये इति । पाठ इति परिणामेन वर्तते । व्याख्यानार्थत्वादिति । यच्चाप्नोति यदादत्त इत्यादि प्रमाणादिति भावः । उपपादकत्वाच्चेति । उत्तरपाठयोजनामेतत्स्पष्टम् । इत्यवतारः कर्तव्य इति । इति व्याख्येयमित्यर्थः ।