०४ वैभाषिकसौत्रान्तिकोक्तमोक्षस्वरूपानुवादः, तन्निरासश्च

ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते

वैभाषिकसौत्रान्तिकोक्तमोक्षस्वरूपानुवादः, तन्निरासश्च

ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते

सुधा

वैभाषिकसौत्रान्तिकाभिमतं मोक्षं निरूपयति ज्ञानमिति ।

अनुव्याख्यानम्

ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥

बौद्धाभ्यामपराभ्यां तु ……. ……..

एवशब्देन विषयसम्बन्धं व्यावर्तयति । इष्यते मुक्तौ । अयमर्थः । ज्ञानमेवात्मा । तच्च ज्ञानं स्वभावेनैव भङ्गुरम् । अत एव क्षणिकम् । तत्सन्तानस्तु नित्यः । तस्यानादिवासनावशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वासनायामुत्सन्नायां यो विषयोपप्लवं विना शुद्धस्यैवोदयः स मोक्ष इत्युभयसमानम् । सौत्रान्तिकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विमाहुरिति ।

निराकरोति तत्रापीति ।

अनुव्याख्यानम्

……… …. तत्राप्युक्तानुमा रिपुः ॥

विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तनकालवदित्यादिरुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यर्थः ।

वाक्यार्थचन्द्रिका

मूले स्वरसभंग्येवेत्येवशब्दवैयर्थ्येन यथाश्रुतसम्बन्धायोगाज् ज्ञानमित्यनेन सम्बन्धमभिप्रेत्य तद्व्यावर्त्यमाह एवशब्देनेति । विषयसम्बन्धस्य ज्ञानस्य संसारत्वेन मोक्षत्वाभावादिति भावः । तस्य ज्ञानसन्तानस्य ॥ अनादिवासनावशादिति । रागादिरूपचतुर्विधवासनावशादित्यर्थः ॥ भावनाप्रकर्षवशेनेति । क्षणिकदुःखशून्यस्वलक्षणरूपचतुर्विधभावनाया यः प्रकर्षः परिपाकस्तद्वशेनेत्यर्थः । क्षणिकं क्षणिकमिति भावना क्षणिकभावना । दुःखं दुःखमिति भावना दुःखभावना । शून्यं शून्यमिति भावना शून्यभावना । स्वलक्षणं स्वलक्षणमिति भावना स्वलक्षणभावना तत्राद्यया स्थायित्वभ्रमनिवृत्तिर् द्वितीयया रागादिनिवृत्तिस् तृतीयया विषयाकारोपप्लवविच्छेदश् चतुर्थया द्रव्यगुणादिवैलक्षण्यबुद्धिनिवृत्तिरिति ज्ञेयम् । शुद्धस्यैव विषयानुपप्लुतज्ञानसन्तानस्येत्यर्थः । ततश्च भावनाप्रकर्षपरिलब्धविषयानुपप्लुतज्ञानसन्तानोत्पादो मोक्ष इति फलितं भवति । विमत इति । संसारिणो यज्ञदत्तस्य भावी मोक्षकाल इत्यर्थः ॥ निर्विषयेति । साध्ये एतत्पदत्यागे दृष्टान्ते साध्यवैकल्यम् । इदानीन्तनकालस्य यत्किञ्चित्पुरुषीयनिर्विषयज्ञानसन्ततिमत्त्वात् । गृहीते तु न । यज्ञदत्तीयनिर्विषयज्ञानसन्ततिमत्त्वाभावात् । नन्वियमनुमा न पूर्वमुक्तेति कथमुक्तानुमा रिपुरित्युक्तमित्यतस्तात्पर्यमाह उक्तोक्तसरूपेति । चेतनधर्मत्वाद्रिपुत्वस्य कथमचेतनानुमानधर्मत्वोक्तिरित्यत आह विरोधिनीति ।

***परिमल ***

तस्येति । स्वतो निर्विषयकक्षणिकज्ञानाख्यात्मन इत्यर्थः ॥ विषयोपरक्तस्येति । विषयसम्बन्धविशिष्टस्येत्यर्थः ॥ इत्यादिरिति । विमतः कालः प्रपञ्चवान् कालत्वादिदानीन्तनकालवदित्याद्युक्तानुमानमादिपदार्थः ।

यादुपत्यं

निर्विषयैतज्ज्ञानेति । परमते इदानीन्तनकालेऽपि कस्यचिद्देवदत्तस्य मुक्त्यङ्गीकारेण तदीयनिर्विषयज्ञानस्य सत्त्वेन साध्यवैकल्यशङ्का स्यादत एतदित्युक्तम् । तथा च संसारीयो यज्ञदत्तस्य भावी यो मोक्षकालः स पक्षः वर्तमानकालस्तु दृष्टान्तः । तत्र च तदीयज्ञानसन्ततिर्न निर्विषयेति न साध्यवैकल्यशङ्केति भावः ।

श्रीनिवासतीर्थीया

भङ्गुरम् अनित्यं क्षणिकं क्षणमात्रावस्थायि । शुद्धस्यैव निर्विस्यैव । एतदनुमानस्य पूर्वमनुक्तत्वादुक्तसरूपेत्युक्तम् । उक्तानुमानसदृशेत्यर्थः । मुक्तस्य अद्वितीयत्वनिराकरणपरत्वेनोक्तसादृश्यं द्रष्टव्यम् ।

वाक्यार्थरत्नमाला

तृतीयायाविषयाकारेति पाठः । एतच्च भावनाचातुर्विध्यं तत्फलं चापरे पुनर्भावनाप्रकर्षेति न्यायमकरन्दव्याख्यानरूपक्षणिकदुःखशून्येत्यादिचित्सुखग्रन्थक्षणिकं क्षणिकमिति भावेनेत्यादि नरेन्द्राचार्यविरचितटिप्पणग्रन्थं च मनसि निधायेति ज्ञेयम् । साध्ये एतत्पदेति । एतदिति पदेत्यर्थः । यत्किञ्चित्पुरुषीयेति पाठः । नेत्यन्तरं साध्यवैकल्यमित्यनुवर्तते ।