कालशब्देश्वरैकत्वमतान्यप्येवमेव हि निराकृतानि
अन्यवाद्युक्तमोक्षस्वरूपनिरासः
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि निराकृतानि
सुधा
उक्तातिदेशेनाद्वैतमतान्तराणि दूषयति कालेति ।
अनुव्याख्यानम्
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥
निराकृतानि ……. ……. …….
यद्यदनुविद्धं प्रतीयते तत्तत्रारोपितम् । यथेदमाकारे रजतम् । कालानुवद्धिं च समस्तं प्रतिभाति । तस्मात्तत्रैवारोपितम् । स एव तु परमार्थः । अतस्तन्मात्रावस्थानं मुक्तिरिति कालैकत्ववादिनः । एवमेव शब्दैकत्ववादिना वैयाकरणाः प्राहुः । यथा ‘न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यत’ इति । शैवैकदेशिनः स्वागममाश्रित्येश्वरैकत्वमाहुः ।
कथं निराकृतानीत्यत आह तेषां चेति ।
अनुव्याख्यानम्
…….. तेषां च समत्वात्पक्षदोषयोः ॥
तेषां शून्यवादिप्रभृतीनाम् एतेषां च पक्षस्तावत्समान एव । शून्यादिशब्दभेदस्याप्रयोजकत्वात् । प्रतिपन्नस्वरूपजीवविनाशादेः सवर्रैरभ्युपगतत्वात् । अतः परमेष्टनाशेनापुरुषार्थत्वमित्यादिदोषोऽपि समान एवेति । अनुमानं तु प्रत्यक्षविरोधादिना दुष्टमेव । तथाऽऽगमोऽपीति स्फुटत्वान्नोक्तम् ।
वाक्यार्थचन्द्रिका
उक्तातिदेशेनेति । ‘आत्माभावेऽपुमर्थ’ इत्याद्युक्तदोषातिदेशेनेत्यर्थः ॥ एवमेवेति । यद्यदनुविद्धतया प्रतीयते तत् तत्रारोपितं, यथेदमाकारे रजतं, शब्दानुविद्धं च समस्तं प्रतिभाति तस्मात्तत्रैवारोपितं शब्द एव तु परमार्थ इति वैयाकरणाः प्राहुः । अत्र चशब्देन स्फोटाख्यं शब्दब्रह्मैवाभिमतम् । मायावादिना नित्यनिरतिशयचिदानन्दैकरसे ब्रह्मण्यसतोऽपि प्रपञ्चस्यानाद्यनिर्वाच्याविद्यायाः सत्त्वेनावभासस्येव वैयाकरणैरपि अनवयवे नित्ये स्फोटाख्ये शब्दब्रह्मण्यसतोऽप्यजगतो वर्णपदविभागस्य च अनाद्यविद्यायाः सत्त्वेनावभासस्याभ्युपगतत्वादिति द्रष्टव्यम् । शब्दानुविद्धतया प्रतीयमानत्वहेतोरसिद्धिमाशङ्क्य परिहरति यथा न सोऽस्तीति । यः प्रत्ययः स्वविषयवाचकशब्दानुवेधमन्तरेणोत्पद्यते स प्रत्ययो लोके नास्त्येव । कुतः । सर्वमपि ज्ञानं गृह्यमाणं घटस्य ज्ञानमिति शब्दविशिष्टविषयघटितत्वाकारेणैवानुव्यवसायस्य विषयो भवति । इवशब्दस्तु वाक्यालङ्कार इति सम्मतिग्रन्थार्थः । पाशुपतैकदेशिनां शैवानां भेदवादित्वेऽपि तच्छैवैकदेशिनां शैवानामैक्यवादित्वाच्छैवैकदेशिनइत्युक्तम् ॥
आगममिति । शैवाद्यागममित्यर्थः । मूले पक्षसाम्यं दोषसाम्यहेतुतया विवक्षितमित्यभिप्रेत्य तदुभयमुपदर्शयति तेषामित्यादिना । जीवविनाशादेरित्यादिपदेनाप्रतिपन्नशून्यब्रह्मभावादेः परिग्रहः । ननु तदुपन्यस्तयोरनुमानागमयोरनिराकरणे तन्निरासासिद्धेर्भाष्यकृता तन्निरासस्यावश्यं कर्तव्यत्वात्तदकरणाद्भाष्यन्यूनत्वमित्यतः स्फुटत्वात्तन्निरासस्य शिष्यैरेव कर्तुं शक्यत्वात्तदनुक्त्युपपत्तेर्न न्यूनत्वमित्याशयेन स्वयमनुमानागमनिरासप्रकारं दर्शयन्नेव भाष्यकृतस्तदनुक्तौ निमित्तमाह अनुमानं त्विति । सर्वं काले शब्दे वाऽऽरोपितं तदनुविद्धतया प्रतीयमानत्वात् । इत्यनुमानं दुष्टम् । प्रपञ्चस्य प्रत्यक्षानुमानागमबलेन सत्यत्वनिश्चयेन तद्विरुद्धत्वात् । तथेश्वरे सर्वस्यारोपितत्वसाधनतया परस्याभिमत आगमोऽपि दुष्ट एव । प्रत्यक्षादिप्रमाणात्तत्सत्यतानिश्चयेन तद्विरुद्धत्वादिति स्फुटत्वाद्भाष्यकृता नोक्तमित्यर्थः ।
***परिमल ***
न स इति । शब्दानुगमादृते यः प्रत्ययः स नास्ति सर्वं शब्देनानुविद्धमिव ज्ञानं गम्यतेऽनुभूयत इत्यर्थः ॥ ईश्वरैकत्वमीश्वरेण जीवानामेकत्वम् ॥ इत्यादिदोषोऽपीति । अनुमानविरोधानुभवविरोधादिरादिपदार्थः ॥ अनुमानं त्विति । सर्वं काले शब्दे ईश्वरे वाऽरोपितं तदनुविद्धतया प्रतीयमानत्वाद् इदं रूप्यमितीदमाकारानुविद्धतया प्रतीयमानरजतवदिति प्रागभिमतानुमानं त्वित्यर्थः । आगमोऽपि शैवागमोपि औतबोधकांशः प्रत्यक्षादिविरोधाद्दुष्ट इत्यर्थः । शून्यवादिमायावादिविज्ञानवादिकालशब्देश्वरैकत्ववाद्यभिमतमोक्षनिरासः ॥
यादुपत्यं
शब्दैकत्ववादिन इति । अत्र शब्दशब्देन तदभिव्यङ्ग्यः स्फोटो लक्ष्यते । एवं शब्दानुगमादृत इत्यत्रापि पदवाक्यस्फोटः पदशब्दशब्दने ग्राह्यः । प्रसिद्धशैवानां भेदवादित्वादाह शैवैकदेशिन इति ॥ आगममिति । शैवाद्यागममित्यर्थः । शिवस्याप्रत्यक्षत्वेनात्र युक्तेरसम्भवादित्यर्थः ।
श्रीनिवासतीर्थीया
पक्षस्तावदिति । सिद्धान्त इत्यर्थः । अनुमानं त्विति । यद्यदनुविद्धतया प्रतीयते तत्तत्रारोपितमित्येवं कालावयवारोपितत्वसाधकानुमानमित्यर्थः ॥ प्रत्यक्षविरोधादिनेति । सन्घट इत्यादिप्रत्यक्षेण प्रमाणदृष्टत्वानुमानेन विश्वं सत्यमित्यागमेन च विरुद्धत्वाद्दुष्टमित्यर्थः ॥ आगमोऽपीति । ईश्वरैकत्वसाधकशैवाद्यागमोऽपि द्वैतागमविरुद्धत्वाद्दुष्ट इत्यर्थः ।
वाक्यार्थरत्नमाला
जिज्ञासाधिकरणीय वाक्यार्थचन्द्रिकाद्यनुसारेणाह । शब्दब्रह्मैवेति । …..नुसारेण संमतिश्लोकार्थमाह । यः प्रत्यय इति ।