सापि कदेति च
कालाभावस्याप्रामाणिकत्वम्
सापि कदेति च
सुधा
एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषोऽपीति वाच्यम् । प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत् । मैवम् । कालाभावस्यावस्थामधिकरणं वदता न किञ्चिदात्महितमाचरितम् । अनुमानान्तरविरोधस्यापरिहार्यत्वात् । न हि प्रतिवादिनिग्रहमात्रेण विरुद्धं तत्त्वं व्यवतिष्ठते । मा हि भूत्कस्मिंश्चिदनुमाने सद्दूषणद्वयेन दूषितेऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति प्रदर्शनार्थमेवानुमानान्तरमुपन्यस्तम् । वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाह साऽपीति ।
अनुव्याख्यानम्
…….. …….. सापि कदेति च ॥
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥
मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षवास्थाऽपि कदेति केनचित्पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल एव वक्तव्यः । न ह्येवं कदाऽपि न प्रष्टव्यमिति नियामकमस्ति । ततः कालस्य सर्वथाऽपरिहार्यत्वादकालत्वं कालाभावो न भवेत् । तथा च तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति ।
वाक्यार्थचन्द्रिका
ननु हेत्वसिद्धिपरिहारवद् दृष्टान्तदोषस्यापि अवश्यं परिहर्तव्यस्यापरिहाराद् भाष्ये न्यूनत्वमित्यतोऽपेक्षितं पूरयति एवमिति ॥ दृष्टान्तदोषोऽपीति । साधनवैकल्यलक्षण इत्यर्थः । ननु पूर्वोक्तदोषस्य परिहारात्कथं न हितमाचरितमित्यत आह अनुमानान्तरेति । ननु प्रतिवादिनिग्रहमात्रेणेव मदभीप्सितसिद्धिः स्यादित्यत आह न हीति । विपक्षे बाधकमाह मा हि भूदिति । न भवति हीत्यर्थः ॥ तस्येति । सद्दूषणद्वयेन दूषितानुमानस्येत्यर्थः ॥ प्रथमानुमानमपीति । कालो न केवलज्ञानीत्यनुमानमपीत्यर्थः । ततश्च प्रथमोक्तपक्षे हेतुदृष्टान्तानामत्यागान्न प्रतिज्ञाहानिरपीति भावः ।
***परिमल ***
प्रतिज्ञाहानिरिति । येन यद्यथा प्रतिज्ञातं तत्र दूषणे प्राप्ते तेनैव तस्य तथा परित्यागः प्रतिज्ञाहानिरिति तल्लक्षणादिति भावः ॥ निग्रहेति । निग्रहस्थानेन प्राप्तपराजयमात्रेणेत्यर्थः ॥ विरुद्धमपि तत्वं व्यवतिष्ठतां को दोष इत्यत आह मा हि भूदिति । सदनुमानत्वमित्यन्वयः ॥ सदनुमानत्वं मा भूदित्येतदर्थं विरुद्धं तत्वं व्यवस्थितमिति नाभ्युपेयमित्यर्थः । अन्यथा तदपि सदनुमानं प्राप्नोतीति भावः ।
श्रीनिवासतीर्थीया
तर्हि वर्तमानकालरूपे दृष्टान्ते साधनवैकल्यमित्यत आह संसारावस्थैवेति ॥ अनुमानान्तरेति । अवस्थापक्षकेत्यर्थः । ननु प्रतिज्ञाहान्या भवतां निग्रहस्तावत्प्राप्तस्तन्मात्रेण मदीयं मोक्षतत्त्वं व्यवतिष्ठत इति चेत्तत्राह न हीति । प्रतिवादिनिग्रहमात्रेण विरुद्धं तत्त्वं न व्यवतिष्ठत इत्येतावन्मात्रे दृष्टान्तमाह मा हि भूदिति । न हि भवतीत्यर्थः ॥ कस्मिंश्चिदिति । नित्यः शब्दः कृतकत्वादिति वादिना प्रयुक्ते विरुद्धत्वमनैकान्त्यं वेति दूषणद्वये प्रतिवादिनोक्ते, वादिना दूषणाधिक्यं नाम निग्रहस्थानमिति प्रतिवादिनि निग्रहीते सति तन्मात्रेण नित्यत्वानुमानस्य समीचीनत्वप्राप्त्या तेन नित्यत्वरूपं प्रमेयं न सिद्ध्यति । आधिक्येनानैकान्तिकत्वपरित्यागेऽपि विरुद्धत्वेन दुष्टत्वात् । एवं वाद्युक्ते मोक्षे कालपक्षकानुमानेन प्रतिवादिना दूषिते तस्मिन्नाश्रयासिद्ध्या दूषिते तत्परित्यागेनावस्थापक्षकानुमानकरणे प्रतिज्ञाहानिरूपनिग्रहस्थानप्राप्तौ सत्यां प्रतिवादिभूतास्मन्निग्रहमात्रेण त्वदीयं मोक्षतत्त्वं न सिद्ध्यति । अवस्थापक्षकानुमानविरोधस्यापरिहार्यत्वादित्यर्थः । दूषणद्वयस्यासमीचीनत्वे आधिक्येन प्रतिवादिनि निगृहीते प्रथमदूषणदूषितत्वेनानुमानस्यासमीचीनत्वं वक्तुं न शक्यते । तस्य दूषणस्यासमीचीनत्वात् । अतः सद्दूणणद्वयेनेत्युक्तम् ।
वाक्यार्थरत्नमाला
माङ्योगे लुङः सर्वलकारापवादकतया लडर्थेयं लुङित्याशयेन व्याचष्टे । न भवतिहीत्यर्थ इति ।