एवं विज्ञानवादोऽपि
विज्ञानवाद्युक्ताद्वितीयज्ञानत्वापत्तिरूपमोक्षस्वरूपनिरासः
एवं विज्ञानवादोऽपि
सुधा
विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशति एवमिति ।
अनुव्याख्यानम्
एवं विज्ञानवादोऽपि …… ……
शून्यवादिमायावाद्यभिमतमोक्षवद्विज्ञानवाद्यभिप्रेतोऽपि मोक्षो हेय इत्यर्थः । ननु विज्ञानवादिनो विज्ञानं तत्त्वमाहुस् तस्यापि क्षणिकत्वं स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रकाशत्वं च । न चैवं पूर्वकावित्यतो वैषम्यात्कथमतिदेश इत्यत आह ज्ञानेति ।
अनुव्याख्यानम्
…. …………. ज्ञानमात्रविशेषतः ॥**
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥**
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ।
ज्ञानमात्रं चासौ विश्च ज्ञानमात्रविशेषः । तमिति द्वितीयार्थे तसिः । यस्मात्ज्ञानमात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविमप्यपहाय विज्ञानवादोऽप्यद्वैततामतं ज्ञातव्यम् । न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावोऽद्वैतता । तस्या मतमद्वैततामतम् । ततः कारणादुक्तदोषोऽपि समा भवेत् ।
इदमुक्तं भवति । अस्तु विज्ञानवादस्य पूर्वस्मात्कश्चिद्विशेषः । तथाऽपि स प्रकृतानुपयोगित्वान्नादरणीयः । मोक्षस्वरूपं तु प्रकृतं समानम् । प्रतिपन्नं जीवभावं विहायाद्वितीयविज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाऽप्यङ्गीकृतत्वात् । अतो युक्त एवातिदेश इति । यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादोऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति । न कश्चिद्विज्ञानवादस्य पूर्वाभ्यां विशेषः । ज्ञानमिति विस्य शब्दमात्रत्वेन हेयत्वात् । न हि ज्ञानत्वं नाम धर्मोऽभ्युपगम्यते परेण । भङ्गुरत्वादिकं तु तेनैव कल्पितमित्युक्तत्वाद्धेयमेव । न तु वस्तुतो मतभेदहेतुः । यथोक्तं ‘तत्र सन्ततिभेदश्चे’त्यादि । अतो युक्तोऽतिदेश इति । अतिदेशप्रकारस्तु स्पष्ट एव ।
वाक्यार्थचन्द्रिका
कर्मप्रवचनीयेन प्रतिना योगे या पञ्चमी विहिता तदन्तादेव प्रतियोगे पञ्चम्यास्तसिरिति तसिविधानात् । प्रकृते च कर्मप्रवचनीयप्रतियोगाभावेन पञ्चम्या एवासम्भवेन तदन्तात्तसेरयोगात्पञ्चम्यन्तस्यापहायेत्यनेनान्वयानुपपत्तेश्च द्वितीयार्थात्तसिरित्याह द्वितीयार्थे तसिरिति । तस्यादित उदात्तमर्धह्रस्वमिति सूत्रज्ञापितादाद्यादिभ्य उपसङ्ख्यानमिति वार्तिकादिति भावः । मूले तत इति श्रवणात्तदपेक्षितयस्मादित्यर्थतया हिशब्दं योजयति यस्मादिति । भङ्गुरत्वादिविमपीति । अनेन मूले तस्यापीत्यपिशब्दो भिन्नक्रम इत्युक्तं भवति । आदिपदेन स्वप्रकाशत्व परिग्रहः । औतमतमित्येतावता पूर्तेस्तल्प्रत्ययवैयर्थ्यमित्याशङ्क्य परिहरति न विद्यत इति । ननु वैषम्योपदर्शनेनातिदेशप्रयोजकस्य मतसाम्यस्याभावात् प्राप्ताया अतिदेशानुपपत्तिशङ्काया नानेन वाक्येन परिहारः । अत्र भङ्गुरत्वादिविमपहाय हीत्यादिना मतवैषम्यस्योपपादितत्वादित्यत आह इदमुक्तं भवतीति । सर्वांशे साम्यस्यातिदेशेऽप्रयोजकत्वान्निराकार्यांशसाम्यस्यैव च तत्प्रयोजकत्वात्तस्य च प्रकृतेऽपि सद्भावान्नातिदेशानुपपत्तिरित्येवंपरतया समाधानमभिहितम् । इदानीं सर्वांशसाम्यस्यैव तत्र प्रयोजकत्वेऽपि प्रकृते तस्यापि सद्भावान्नानुपपत्तिरित्याशयेन वैषम्योपदर्शनपरभाष्यतात्पर्यकथनेन मतसाम्योपदर्शनपूर्वकमतिदेशमुपपादयति यद्वेति । ज्ञानमिति विस्य शब्दमात्रत्वमेव कथं येन हेयत्वमित्यत आह न हि ज्ञानत्वं नामेति । तथा सति तेनैव सद्वितीयत्वापत्त्याऽपसिद्धान्तापातादिति भावः । भङ्गुरत्वादेः कल्पितत्वे ज्ञापकमाह यथोक्तमिति । ‘न भावोऽनुपलब्धेरि’त्यधिकरणनिवर्त्यपूर्वपक्षप्रदर्शनावसर इति (भावः) । तत्र त्रिविधभेदस्य कल्पितत्वप्रतिपादनमुखेन ज्ञानव्यतिरिक्तस्य सर्वस्यापि कल्पितत्वसमर्थनात्तत्सिद्धिरिति भावः । अस्त्वेवं मतसाम्यं तथाऽप्येवमित्युक्तोऽतिदेशस्तु कथमित्यत आह अतिदेशेति । ‘आत्माभावे पुमर्थः क’ इत्यादिनोक्तसमस्तदूषणातिदेशप्रकारः स्पष्ट इत्यर्थः ।
***परिमल ***
पूर्वकौ पूर्वोक्तावित्यर्थः ॥ तसिरिति । आद्यादिभ्य उपसङ्ख्यानम् इत्युक्तेर् आद्यादेराकृतिगणत्वादिति भावः । ननु वैषम्यात्कथमतिदेश इत्यस्य नानेनोत्तरमित्यतो व्यनक्ति इदमुक्तमिति ॥ यथोक्तमिति । समयपादीयानुव्याख्याने ‘तत्र सन्ततिभेदश्च स्वभेदोऽभेद एव च । कल्पिता’ इत्यादिना एतन्मतानुवादप्रस्तावे उक्तमित्यर्थः ॥ स्पष्ट इति । ‘एतादृशानां पक्षाणां दूषणं प्रभुणा कृतमि’त्यादिनोक्तदोषाणामत्रापि योजयितुं शक्यत्वादित्यर्थः ।
श्रीनिवासतीर्थीया
पूर्वकौ शून्यवादिमायावादिनौ । कश्चिद्विशेषो भङ्गुरत्वादिरूपः । पूर्वाभ्यां शून्यवादिमायावादिभ्याम् ॥ स्पष्ट एवेति । अहमिति परमप्रेमास्पदतया साक्षिणाऽनुभूयमानाकारापगमस्य तेनाऽप्यङ्गीकारेण तन्नाशस्यापुरुषार्थत्वमेवेत्यादिदूषणप्रकारातिदेशः । तथोक्तरूपे मोक्षेऽनुमानविरोधातिदेशश्च स्पष्ट इत्यर्थः ।
वाक्यार्थरत्नमाला
प्रतियोगे पञ्चम्यास्तसिरिति सूत्राप्रवृत्तिवर्णनपूर्वकं तत्सूत्रीयवार्तिकेन तसिमुपपादयति । कर्मप्रवचनीयेत्यादिना साम्यस्याभावादिति । साम्याभावमुपपाद्येति ल्यब्लोपनिमित्ता पञ्चमी । वैषम्यबलेन प्राप्तशङ्कापरिहाराय वैषम्यस्यैवाभिधानायोग इति भावः । तदर्थं मतवैषम्यस्योपपादितत्वादित्येतद्वैषम्यस्यैवोपपादितत्वादिति योज्यम् । पूर्वपक्षप्रदर्शनासर इतीति । अनुव्याख्यान इति शेषः ।