केचित्तेष्वन्यथा प्राहुः
अनेकात्मवादिमतानुवादः
केचित्तेष्वन्यथा प्राहुः
सुधा
एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयति केचिदिति ।
अनुव्याख्यानम्
केचित्तेष्वन्यथा प्राहुः ……. …….
तेषु शून्यवादिषु । अन्यथा एकात्मवादिमतात् । कथमित्यत आह संवृत्यैवेति ।
अनुव्याख्यानम्
……….. ….. संवृत्यैव त्वनेकधा ॥
अवच्छिन्नं महाशून्यं नानापुद्गलशब्दितम् ॥
तुशब्देनैकात्मवादं स्वाभाविकानेकात्मवादमुपाधिकृतानेकात्मवादं च व्यावर्तयति । संवृत्या नानाभूतया संवृत्यावच्छिन्नमेव न तु स्वभावतः । संवृतेस्तत्कृतावच्छेदानां च मिथ्यात्वान्नानापुद्गलशब्दितमित्युक्तं भवतीति शेषः ।
ततः किमित्यत आह यस्येति ।
अनुव्याख्यानम्
यस्य शून्यैकरसताज्ञानात्सा त्वपगच्छति ॥
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥
संवृत्या यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ॥
इति ……….. ……….. ………..
तत्रानेकेष्वात्मसु यस्यात्मनस्तु शून्यैकरसताज्ञानाच्छून्याद्वितीयताज्ञानात्सा संवृतिरपगच्छति मूलसंवृतिर्व्यावृत्ता भवति । अन्या नश्यति । स पुद्गलत्वात्कर्तृत्वादिरूपान्निर्मुक्तो महाशून्यत्वमेष्यतीव । यस्तु संवृत्याऽवच्छिन्न आत्मा स पुद्गलभावेन दुःखान्यलं परमार्थबुद्ध्यैवानुभवति । इति प्राहुरिति सम्बन्धः ।
वाक्यार्थचन्द्रिका
नानाभूतयेति । अन्यथैकस्य जीवस्य तत्त्वज्ञानेन मूलसंवृतिनाशे सर्वेषां मोक्षप्रसङ्गः । अनाशे च नैकस्यापि मोक्ष इत्यतिप्रसङ्गादिति भावः । संवृत्यैवेत्येवकारो भिन्नक्रम इति भावेनाह अवच्छिन्नमेवेति । तत्प्रयोजनमाह न त्विति । नानापुद्गलरूपमित्यनुक्त्वा नानापुद्गलशब्दितमित्युक्तौ निमित्तं दर्शयन्योजयति संवृतेरिति । साकाङ्क्षत्वान्मूलेऽपेक्षितं पूरयति भवतीति इति । मूले सेति तच्छब्दः संवृतितदितरसाधारणः । अपगच्छतीत्येतदप्यपसरणनाशपरमित्यभिप्रेत्य योजयति मूले संवृतिरित्यादि ॥ व्यावृत्ता भवतीति । भीरुभटवदपसरतीत्यर्थः । अन्यथा सर्वमोक्षप्रसङ्गादिति भावः ॥ अन्येति । प्रातिस्विकीत्यर्थः । पुद्गलत्वादित्यस्य विवरणं कर्तृत्वादिरूपादिति । ननु महाशून्यत्वस्य स्वाभाविकत्वेन सर्वदा सत्त्वात्कथमेष्यतीत्युक्तिरित्यत आह एष्यतीवेति ।
***परिमल ***
अनेकधेति श्रवणादुक्तं नानाभूतयेति । बहुविधया प्रातिस्विकरूपयेत्यर्थः । संवृत्यैवेत्येवकारान्वयमाह अवच्छिन्नमेवेति । शब्दितपदस्वारस्यमाह संवृतेरिति । शब्दितमित्यत्र माह भवतीति इति ॥ व्यावृत्ता भवतीति । शैवालवदिति भावः ॥ अन्येति । अवच्छेदकत्वेन प्रातिस्विकं विद्यमानेत्यर्थः ।
यादुपत्यं
नानाभूतयेति । अन्यथैकस्य जीवस्य तत्त्वज्ञानेन मूलसंवृतिनाशे सर्वेषां मोक्षप्रसङ्ग इति भावः । न तु स्वभावतः । संवृतेस् तत्कृतावच्छेदानां च मिथ्यात्वादिति भावः । नानापुद्गलतां यातीत्यनुक्त्वा शब्दितामिति किमर्थमुक्तमित्यतोऽभिप्रायमाह संवृतेरित्यादिना ॥ व्यावृत्तेति । भीरुभटवदपसरतीत्यर्थः । अन्यथा सर्वमोक्षप्रसङ्ग इति भावः ॥ अन्यथेति । प्रातिस्विकेत्यर्थः । महाशून्यस्य स्वभाविकत्वादाह ॥ एष्यतीवेति । अनाद्यनिर्वाच्यस्येत्यत्र प्रागभावादिव्यावृत्त्यर्थं भावत्वमपि विवक्षितमिति ज्ञातव्यम् ।
श्रीनिवासतीर्थीया
एकात्मवादम् एकजीववादम् । स्वाभाविकात्मवादमिति सिद्धान्तरीत्या भास्करमतानुसारेणोक्तमुपाधिकृतानेकात्मवादमिति । तन्मते आत्मभेदस्यौपाधिकत्वात् । संवृत्यावच्छिन्नमेव नानापुद्गलशब्दितमिति सम्बन्धः । न तु स्वभावत इत्यत्र हेतुः संवृतेरिति ॥ तत्कृतावच्छेदानां संवृतिकृतभेदानाम् । भास्करमत इव सत्योपाधिकृतसत्यभेदवादो नाभ्युपगत इति भावः । शब्दितमित्येतदनूद्य व्याख्याति इत्युक्तमिति । अध्याहार्यमाह भवतीति इति ।
वाक्यार्थरत्नमाला
अपसरणनाशेति । अपसरणं च नाशश्च तदुभयपरमित्यर्थः ।