०४ शून्यवाद्युक्तशून्यत्वापत्तिरूपमोक्षस्वरूपानुवादः

तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः

शून्यवाद्युक्तशून्यत्वापत्तिरूपमोक्षस्वरूपानुवादः

तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः

सुधा

तत्र शून्यवाद्युक्तं मोक्षमनुवदति तत्रेति ।

अनुव्याख्यानम्

…. तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ॥

ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥

तेषु चतुर्षु । ये शून्यमेव तत्त्वं वदन्ति ते मायिना यथाभूतं मोक्षमाचक्षते तादृशमेव ब्रूयुः । इयांस्तु विशेषः । मायिनो वेदः प्रमाणमित्यभिमानात् ‘परमं साम्यमुपैति’, ‘सोऽश्नुते सर्वान् कामानि’त्यादेर्वेदाच्छङ्कमानास्तस्यान्यथाव्याख्यानं विधाय स्वाभिमतं मोक्षं प्रतिपादयन्ति । शून्यवादिनस्तु वेदप्रामाण्यानभ्युपगमादुच्छृङ्खलमेवेति । तदिदमुक्तं निःशङ्कमिति । अज्ञानेति तमोगुणो लक्ष्यते । अज्ञानकारणत्वात् । ‘प्रमादमोहौ तमसो भवतोऽज्ञानमेव चे’ति वचनात् । तेन मोहिताः ।

वाक्यार्थचन्द्रिका

इयांस्तु वि इति । दृष्टान्तापेक्षया दार्ष्टान्तिके निःशङ्कमिति विशेषोक्तिरेव । न त्वेतदन्तर्भावेनापि दृष्टान्तदार्ष्टान्तिकभावोऽवधेय इति भावः ॥ अन्यथाव्याख्यानमिति । गौणमुक्तिपरत्वेन व्याख्यानमित्यर्थः । तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्याभासानां दोषानाच्छाद्य विपरीतज्ञानमुत्पादयतीत्युक्तरीत्या तमोगुणस्यैव विपरीतमतिरूपमोहं प्रति मूलकारणत्वात्प्रमाणजन्यज्ञानाभावरूपस्याज्ञानस्य तन्मूलकारणत्वानुपपत्त्याऽज्ञानशब्दस्य तत्परत्वानुपपत्तेस् तमोगुणपरएवात्राज्ञानशब्द इत्यभिप्रेत्य कथं तत्राशक्तस्तत्परः स्यादित्यतो लक्षणयेत्याह अज्ञानेति तमोगुणो लक्ष्यत इति । लक्षणाबीजभूतं शक्यसम्बन्धमाह अज्ञानकारणत्वादिति । तमोगुणस्याज्ञानं प्रति कारणत्वादित्यर्थः । यद्यपि प्रमाणजन्यज्ञानप्रागभावरूपाज्ञानस्यानादित्वान्न तमोगुणजन्यत्वं सम्भवति । तथाऽपि तस्याग्रिमक्षणसम्बन्धरूपपरिपालनसद्भावात्तद्रूपकार्यत्वविवक्षयेयमुक्तिरिति द्रष्टव्यम् । ननु भवेदज्ञानशब्दस्य तमोलक्षकत्वं यदि तमोगुणस्य मोहकारणत्वमज्ञानस्य तमोजन्यत्वं च प्रमितं स्यादित्यतस्तमोमोहयोरज्ञानतमसोश्च कार्यकारणभावोपपादकं प्रमाणं पठति प्रमादेति । तथा च मुख्यार्थानुपपत्तिशक्यसम्बन्धयोः प्रमाणेन सिद्धेर्युक्ता लक्षणेति भावः ।

***परिमल ***

अन्यथाव्याख्यानमिति । साम्यशब्दस्यैक्यपरत्वेन सर्वानित्यस्यापरममुक्तिपरत्वेन व्याख्यानं विधायेत्यर्थः । मोहिता इत्यक्तं मिथ्याज्ञानं न ह्यज्ञानमात्राद्भवतीति मूलकारणमाह तमोगुणो लक्ष्यत इति । लक्षणाबीजमाह अज्ञानकारणत्वादिति । अज्ञानं तत्त्वज्ञानाभावः ॥ इति वचनादिति । गीतायां चतुर्दशेऽध्याये ‘सत्त्वात्सञ्जायतेऽज्ञानं रजसो लोभ एव च । प्रमादेत्यादि । मोहिता इति । मिथ्याज्ञानिन इत्यर्थः ।

यादुपत्यम्

अन्यथाव्याख्यानमिति । गौणमुक्तिपरत्वेन व्याख्यानमित्यर्थः । अज्ञानमात्रस्य सज्जीवसाधारणत्वान्न मोहकारणत्वमत आह तमोगुण इति । अजहत्स्वार्थलक्षणेयम् अधिष्ठानगतविशेषाज्ञानस्यापि मोहकारणत्वात् । लक्षणाबीजं शक्यार्थसम्बन्धं दर्शयति अज्ञानकारणत्वादिति । अत्र यद्यप्यज्ञानशब्देन नाधिष्ठानगतविज्ञानप्रागभावात्यन्ताभावौ गृहीतुं शक्यौ तयोरजन्यत्वात् । अत एव न तद्विषयं भावरूपाज्ञानम् । तस्याप्यनादित्वात् । तथापि सञ्जनसङ्गत्यादिना कथञ्चित्प्रसक्तस्याधिष्ठानगतविज्ञानस्य प्रध्वंस एव ग्राह्य इत्याहुः । वस्तुतस्तु भावरूपस्यानाद्यज्ञानस्य ज्ञानप्रागभावस्य वा ग्रहणेऽपि न दोषः । तमोगुणोद्रेकेण तयोरग्रिमक्षणसत्त्वरूपस्य परिपालनस्य सत्वात् । परिपालनस्यैव चात्र कार्यतया विवक्षितत्वादिति ध्येयम् ।

श्रीनिवासतीर्थीया

यथाभूतं ब्रह्मभावरूपं परमं साम्यमित्यादि । ब्रह्मभावस्य मोक्षत्वे परमं साम्यमुपैतीति श्रुतिविरोधः ॥ साम्यस्य भेदगर्भत्वात् । सोऽश्नुत इत्यत्र ब्रह्मणा सहेति भेदोक्तेः । अन्यथाव्याख्यानं व्यावहारिकभेदपरत्वरूपम् । ननु ‘प्रमादमोहौ तमसो भवतोऽज्ञानमेव चे’त्यज्ञानमोहयोरुभयोरपि तमोगुणकार्यत्वेनाज्ञानमोहिता इति कथमुक्तं तमोगुणमोहिता इति वक्तव्यत्वादित्यतो लक्षणया तथैवोच्यत इत्याह तमोगुण इति । लक्षणाबीजं सम्बन्धं दर्शयति अज्ञानकारणत्वादिति । मुख्यार्थे बाधकं लक्षणाबीजसम्बन्धं च प्रमाणेन दर्शयति प्रमादेतीत्याहुः ।

वाक्यार्थरत्नमाला

नत्वेतदन्तर्भावनापीति । मायिनो यथानिःशङ्कमेवं शून्यवादिनोपि निःशङ्कमिति दृष्टान्तदार्ष्टान्तिभाव इत्यर्थः । ज्ञानप्रागभावरूपाज्ञानस्येति । अनेन भावरूपाज्ञानस्य स्वप्रमाणजन्यज्ञानप्रागभावत्वं लक्षणमुक्तं भवति । अग्रिमक्षणरूपं सम्बन्धपरिपालनमित्यर्थः । तद्-व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपं प्रयोज्यत्वमस्तीति भावः । इदं सम्यग्विचार्यम् । रक्षोहागमलध्वसन्देहाः प्रयोजनमित्येतद्भाष्योक्तासन्देहो व्याकरणप्रयोजनमित्यादेरुपपादनं कैयटादौ तदनुसारेणानादेः साध्यत्वविचारोस्माभिर् अधिकरणे कृतोऽस्ति तृतीयस्य …… प्रवर्तितोऽस्ति तदनुसारेणात्रापि विचारः कार्योऽस्ति ।