आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः
दूषणानुमानेऽपसिद्धान्तस्यादोषत्वम्
आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः
सुधा
स्यादेतत् । यत्किञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गान् मुक्तानां गतिः पक्षीकरणीया । तस्या दुःखेतत्वसाधने भवतामपसिद्धान्तः स्यात् । भवद्भिरपि मुक्तानां निर्दुःखत्वस्याभ्युपगतत्वात् । तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम् । अन्यथा तत्र व्यभिचारापत्तेः । ततोऽप्यपसिद्धान्त एव । शरीर(रि)वृत्तित्वस्य साधनव्यापकताऽङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम् । ततश्चापसिद्धान्त एवेत्यत आह आगमेति ।
अनुव्याख्यानम्
आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ॥
नापसिद्धान्तता दोषः ……. …… …..
यतो वेदादिकमागममनुसृत्य मोक्षस्वरूपानुमानेऽतिप्रसङ्गोऽयमस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि कस्मान्नानुमिनुया इति । ततः कारणादपसिद्धान्तता दोषो न भवति । प्रसङ्गेऽप्यपसिद्धान्तमुद्भावयन्तं बोधयितुमाह प्रसङ्ग इति ।
अनुव्याख्यानम्
………. …. प्रसङ्गे यदि सा भवेत् ॥
तदैवातिप्रसङ्गः स्यात् ….. ….. …..
सा अपसिद्धान्तता । भवेद्दोष इति शेषः । कथमतिप्रसङ्ग इत्यत आह नेति ।
अनुव्याख्यानम्
……… ….. न प्रसङ्गः क्वचिद्भवेत् ॥
इतिशब्दोऽत्रान्तेऽध्याहार्यः । सर्वेष्वपि प्रसङ्गेष्वपसिद्धान्तस्य कथञ्चिदुद्भावयितुं शक्यत्वादिति भावः । एतेन मुक्तानां सततोर्ध्वगतिः सिद्धा चेद्बाधोऽन्यथाऽऽश्रयासिद्धिरित्यपि परास्तम् । परसिद्धाश्रये प्रतिपक्षस्य प्रसञ्जनात् ।
वाक्यार्थचन्द्रिका
बाधादीति । अचेतनगतेर्दुःखेतत्वाभावस्य प्रमाणसिद्धत्वेन तत्र तत्साधने बाधः संसारिगतेर्दुःखेतत्वस्य प्रमाणसिद्धत्वेन तस्यास्तत्साधने सिद्धसाधनमित्यर्थः ॥ तत्रेति । ईश्वरगतावित्यर्थः । तत्र गतित्वसद्भावेऽपि दुःखेतत्वाभावादिति भावः ॥ नन्वतिप्रसङ्गप्रकारोपदर्शकत्वेन प्रसङ्ग इत्यादिभाष्यस्य ‘न प्रसङ्गः क्वचिद्भवे’दिति भाष्ये इतिशब्देन भवितव्यमिति तदभावो दोष इत्यतस्तदध्याहारस्यात्राभिप्रेतत्वाद्युक्तमस्य तत्प्रकारोपदर्शकत्वमिति भावेनाह इतिशब्द इति ॥ सर्वेष्वपीति । यदि निर्वन्हिः स्यात्तर्हि निर्धूमोऽपि स्यादित्यादिप्रसङ्गेष्वपीत्यर्थः ॥ अपसिद्धान्तस्येति । धूमादिलिङ्गजातस्य स्वयमभ्युपगतत्वेन निर्धूमत्वाद्युक्तस्तद्विरुद्धत्वादिति भावः । ‘प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषका’ इत्यादिभक्तिपादीयानुव्याख्यानतट्टीकोक्तरीत्या वस्तुतस्तत्रापसिद्धान्ताभावसिद्धेः कथञ्चिदित्युक्तम् । एतेनेत्युक्तमेव विवृणोति परसिद्धेति ।
***परिमल ***
एतेन प्रसङ्गरूपताकथनेनेत्यर्थः ॥ बाध इति । शरीरिवृत्तित्वरूपव्यापकनिवृत्त्या गतेरपि निवृत्युक्तौ बाध इति वा सततोर्ध्वगतिर् दुःखहीनेत्याद्यनुमाने भवद्भिरुक्तदुःखेतत्वरूपप्रत्यनुमाने बाध इति वाऽर्थः ।
यादुपत्यं
सर्वेष्वपि प्रसङ्गेष्विति । यद्यपि धूमादिकं न कस्यापि सिद्धान्तः येन तदभावापादनेऽपसिद्धान्तता । तथाऽपि प्रामाणिकं न परत्यिज्यमप्रामाणिकं न स्वीकार्यमिति सामान्यतः सर्वैराचार्यैरभ्युगतत्वेन धूमाभावाद्यापादनमपि केनचित्क्रियमाणं सामान्यतः स्वाचार्याभ्युपगमविरुद्धमेव प्रामाणिकपरित्यागादिरूपत्वात् । अतस्तत्राप्यपसिद्धान्तता वक्तुं शक्यैव । तदिदमाह कथञ्चिदिति । सामान्यतः स्वाचार्याभ्युपगतविरुद्धाचरणरूपत्वेनेत्यर्थः ॥ एतेनेति । उक्तरीत्या मुक्तगतौ व्यभिचारस्य परिहर्तुं शक्यत्वेनेत्यर्थः ।
श्रीनिवासतीर्थीया
नानुमिनुया एवमपि कस्मान्नानुमानं करोषीत्यर्थः । सततोर्ध्वगतिर् मुक्तिकालीना ॥ सिद्धा चेदिति । सिद्धान्तिनां भवतामिति शेषः ॥ बाध इति । दुःखेतत्वाभावादिति भावः ।