देहगानां च वृत्तीनामेवमेव तु
सूत्रेषु वागादिशब्दप्रयोगे निमित्तम्
देहगानां च वृत्तीनामेवमेव तु
सुधा
नन्वयुक्तमेतत् । वाङ्मनसीत्यादिसूत्रेषु देवानामश्रवणात् । अथ वागादिशब्दास्तदभिमानिनामुपलक्षका इति मतं तदा, सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम् । यद्वा वाचका एवेति पक्षस्तथाऽपि प्रसिद्धशब्दपरित्यागेनाप्रसिद्धपदप्रयोगे प्रयोजनं वक्तव्यमेवेत्यत आह देहेति ।
अनुव्याख्यानम्
…… …… देहगानां च वृत्तीनामेवमेव तु ॥
बाह्यतत्त्वव्यावृत्त्यर्थं देहगानामित्युक्तम् । वर्तते देह एताभिरिति वृत्तयो जडा वागाद्या यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिपदप्रयोग इति भावः । वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति ।
वाक्यार्थचन्द्रिका
बाह्यतत्त्वेति । ब्रह्माण्डबाह्यानां वागादीन्द्रियरूपतत्त्वानां तैजसाहङ्कारादुत्पन्नत्वात्तत्र, मनस्तत्त्वस्य च वैकारिकाहङ्कारकार्यत्वात्तत्रैव विलयादत्रोच्यमानो वागादीनां मनआदौ लयो न बाह्यत्तत्त्वविषय इत्यर्थः । एवमेवेत्युक्तं विवृण्वन्नेव किमनेन वागादिपदप्रयोजनमुक्तमित्याशङ्कापरिहारकतया वाक्यं योजयति यथेति । एतज्ज्ञापनस्य न प्रकृते कश्चिदुपयोगो दृश्यत इत्यत उक्तम् ॥ प्रसङ्गादिति । ननु वागादिशब्दप्रयोगस्य प्रयोजनोक्त्या तैर्देवानां लक्षणया मुख्यवृत्त्या वा श्रवणसिद्ध्या तदश्रवणप्रयुक्तनन्वित्युक्तदोषोद्धारसिद्धेर्न भाष्ये तुशब्देन किञ्चित्प्रयोजनमित्यत आह वागादिशब्दा इति । अनेन भाष्ये तुशब्दो विशेषार्थो विश्च वाचकत्वमित्युक्तं भवति ।
***परिमल ***
बाह्येति । अण्डाद्बाह्यानां वागादीन्द्रियरूपतत्त्वानां तैजसाहङ्कारे लयान् मनस्तत्वस्य च वैकारिके लयादत्रोक्तलयो न तद्विषय इति ज्ञापनाय देहगानामित्युक्तिरित्यर्थः ॥ वाचका एवेति । तदधीनत्वन्यायादिति भावः । पादार्थसङ्गत्योरुक्तिः ।
यादुपत्यम्
बाह्यतत्त्वेति । ब्रह्माण्डबाह्यानां वागादीन्द्रियरूपतत्त्वानां तैजसेऽहङ्कारे मनस्तत्त्वस्य च वैकारिके विलयादत्रोक्तो विलयो न तद्विषय इति भावः ।
वाक्यार्थरत्नमाला
तैर्देवानामिति । वागादिशब्दप्रयोगेत्यत्र बुध्याविवेकेन वागादिशब्दैरित्यर्थः ।