भोगस्तु सर्वदेवानां नरादीनां च विद्यते
कर्मक्षयभोगौ सर्वेषाम्, उत्क्रान्तिमार्गौ देवेतरेषाम्
भोगस्तु सर्वदेवानां नरादीनां च विद्यते
सुधा
ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादोदितो भोगः किमसाधारणः । किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाह भोगस्त्विति ।
अनुव्याख्यानम्
भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥
असाधारण्ये प्रमाणाभावादिति भावः । अस्मिन्प्रथमभाष्ये देवानां मोक्ष इति प्रथमनिर्देशः कृतस्तस्य तात्पर्यमाह तत्रेति ।
अनुव्याख्यानम्
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ॥
उच्यते ……. …… …….
तत्र द्वितीयपादे । प्रथममिति शेषः । उत्तरोत्तरत उत्तरोत्तरेषु । अतः प्रथममसौ निर्दिष्ट इति ।
वाक्यार्थचन्द्रिका
ननु भोगस्त्वित्युत्तरवाक्ये भोगस्य सर्वसाधारण्यमुच्यते । तदनर्थकम् । न च तस्य साधारण्यासाधारण्यजिज्ञासापरिपूर्त्यर्थं तदिति वाच्यम् । तत्साधारण्यासाधारण्यकोटिद्वयप्रापकाभावेन तन्मूलकजिज्ञासाया एवायोगेन तत्पूरकत्वानुपपत्तेरित्यतो द्विविधफलदर्शनस्यैव तत्प्रापकत्वसम्भवेन तन्मूलकजिज्ञासोदयसम्भवादित्यभिप्रेत्य तन्मूलोपदर्शनेन जिज्ञासायाः सम्भावितत्वं दर्शयन्नेव तत्परिपूरकतया उत्तरग्रन्थं योजयति ननु यथेति । ननु चोत्क्रान्तिवदसाधारण्यमेव तस्य किं न स्यादित्यत आह असाधारण्य इति ॥ अस्मिन्प्रथमभाष्य इति । ‘देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यत’ इत्येतत्पादीयप्रथमभाष्ये देवानां मोक्ष इति प्रथमं देवमोक्षस्य निर्देशः कृत इत्यर्थ ॥ तस्य तात्पर्यमाहेति । किं तस्य प्रथमनिर्देशे कारणमिति जिज्ञासायां तदाहेत्यर्थः । यत्र क्वचिद्देवानामुत्तरोत्तरतः प्रवेशचिन्तनस्य द्वितीयपादे देवानां मोक्षस्य भाष्ये प्रथमनिर्देशे कारणत्वायोगात्तत्रेत्येतद्द्वितीयपादपरतया योजयति तत्रेति । द्वितीयपादे तत्प्रवेशनिरूपणस्य देवानां मोक्षे द्वितीयपादार्थत्वमात्रसम्भावकत्वेऽपि प्रथमनिर्देशे कारणत्वं कथमित्यतः प्रथमं तन्निरूपणस्यैव तत्प्रयोजकतयाऽभिमतत्वान्नानुपपत्तिरित्यभिप्रेत्यापेक्षितं पूरयति प्रथममिति इति ॥ उत्तरोत्तरेष्विति । अनेनोत्तरोत्तरत इत्याद्यादित्वात्सप्तम्यर्थे तसिरिति उक्तो भवति । अतः प्रथममिति सूत्रकारेण वाङ्मनसि दर्शनादित्यादिना ग्रन्थेन प्रथमं देवानां मोक्षस्यैव प्रतिपादितत्वात्तदनुसारेण भाष्यकृताऽपि भाष्ये देवानां मोक्ष एव प्रथमं निर्दिष्ट इति न भाष्यकारीयः प्रथमं निर्देशो निर्निबन्धनः, सूत्रकृता त्वितरापेक्षया देवानां प्राधान्यात्तद्देहलय एव प्रथमं चिन्तित इति न तं प्रत्यपि पर्यनुयोगावकाश इति भावः ।
***परिमल ***
अस्मिन्निति । पाद इत्यर्थः ॥ भाष्य इति । श्रीमत्सूत्रभाष्य इत्यर्थः । आद्यादिभ्य उपसङ्ख्यानमिति तसिप्रत्ययान्तत्वमुपेत्याह उत्तरोत्तरेष्विति ॥ अत इति । सूत्रकृता प्रथमं देवानां लयस्योक्तत्वादित्यर्थः ।
यादुपत्यं
तस्य तात्पर्यमाहेति । तस्य प्रथमं निर्देशे कारणमाहेत्यर्थः ॥ अतः प्रथममिति । तथा च सूत्रकारेण द्वितीयपादे वाङ्मनसि दर्शनादित्यादिग्रन्थेन प्रथमं देवानां मोक्षस्यैव प्रतिपादितत्वात्तदनुसारिणा भाष्यकारेण भाष्ये देवानां मोक्ष एवं प्रथमं निर्दिष्ट इति कारणमनेनोक्तमिति ज्ञातव्यम् । सूत्रकारेणापीतरापेक्षया देवानां प्राधान्यात्तद्देहलय एवात्र प्रथममुक्त इति भावः ।