०६ देवानां तदितरेषां च परब्रह्मप्राप्तिप्रकारः

अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम्

देवानां तदितरेषां च परब्रह्मप्राप्तिप्रकारः

अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम्

सुधा

किं देवानामेव ब्रह्मणा सह मुक्तिः । अन्येषामपीति ब्रूमः । तर्हि ‘भेजे खगेन्दध्वजपादमूलमि’त्यादिविरोध इत्यत आह अन्येषामपीति ।

अनुव्याख्यानम्

अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ॥

सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥

साक्षान्मुक्तिर् लिङ्गशरीरभङ्गलक्षणा । प्राप्यावस्थितानामपीति योज्यम् । तमिति वैकुण्ठादिस्थम् । छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ् आर्धधातुकत्वाद्भूयादिति साधु । इतीश्वराशीरिति वा । अस्मिन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं चानेनोच्यत इति ।

वाक्यार्थचन्द्रिका

ननु समानकर्तृकयोः पूर्वकाल इति समानकर्तृकत्व एव क्त्वाप्रत्ययविधानात् । प्रकृते च हरिप्राप्तिं प्रति पुरुषाणां, भवनक्रियां प्रति च मुक्तेः कर्तृत्वात्क्रियाद्वयस्य समानकर्तृकत्वाभावेन क्त्वाप्रत्ययस्याप्रसक्त्या कथं तदादेशः प्राप्येति ल्यप् स्यादित्यतोवस्थितिरूपक्रियान्तराध्याहारस्यात्राभिप्रेतत्वेन प्राप्त्यवस्थितिरूपक्रियाद्वयस्यैव कर्तृत्वेन क्त्वाप्रत्ययप्रसक्त्या न तदादेशस्य ल्यपोऽनुपपत्तिरित्याशयेन क्रियान्तरमध्याहरति प्राप्यावस्थितानामपीति । ननु भवतेर्लिङि तस्य लिङाशिषीत्याशीर्विषय एव लिङ आर्धधातुकसंज्ञाविधानेन प्रकृते चानाशीर्विषयतया आर्धधातुकसंज्ञाया अप्रसङ्गेन तिङ्शित् सार्वधातुकमिति सार्वधातुकसंज्ञायां कर्तरि शबिति कर्त्रर्थकसार्वधातुकनिमित्तकशपि सार्वधातुकार्धधातुकयोरिति गुणे अवादेशे च सति, यासुट् परस्मैपदेषूदात्तो ङिच्चेति लिङ्निमित्तया सुटि सुट्तिथोरिति तकारनिमित्ते सुटि च सार्वधातुकलिङः लिङः सलोपोऽनन्त्यस्येति सकारद्वयस्यापि लोपे इतश्चेति तिप इकारलोपे तकारमात्रावशेषे अतो येय इति या इत्यस्य ईयादेशे लोपो व्योर्वलीति यलोपे आद्गुण इति गुणे च सति भवेदिति भवितव्ये भूयादिति कथमित्यतश्छन्दस्युभयथेत्यनाशीर्विषयस्यापि लिङ आर्धधातुकसंज्ञाविधानेन तिप आर्धधातुकसंज्ञोपपत्त्या सार्वधातुकसंज्ञाया अप्रसङ्गेन तन्निमित्तकशपोप्राप्त्या यासुट् परस्मैपदेष्विति यासुटि लिङो ङित्वे च तस्मिन्परत क्ङिति चेति निषेधेन सार्वधातुकार्धधातुकयोरिति गुणाप्राप्त्या स्कोः संयोगाद्योरिति सलोपे इकारलोपे च सति भूयादित्यस्याप्युपपन्नत्वान् न दोष इत्याशयेनाह छन्दस्युभयथेति ।

यद्यपि छन्दसि विषये सार्वधातुकासार्वधातुकं चेत्युभयथापि भवतीत्येतावत्सूत्राल्लभ्यते न त्वनाशीर्विषयस्यापि आर्धधातुकत्वमिति नैतद्बलेन तत्सिद्धिः । तथाप्येतत्सूत्रव्याख्यानावसरे सर्वमपि प्रकरणमपेक्ष्यैव तदुच्यते व्यत्ययो बहुलमित्यस्यैवायं प्रपञ्च इति वृत्तिकृतोक्तत्वात् । एतत्सिद्ध्यभिप्रायेणास्यात्रोपन्यास इत्यवधेयम् । अस्मिन्पक्षे छान्दसत्वमाश्रयणीयं भवतीत्यपरितोषात्पक्षान्तरमाह इतीश्वराशीरिति वेति । नन्वेवं साध्यानुक्तिप्रसङ्गेन तत्किमित्याकाङ्क्षाऽनुपरमेण साकाङ्क्षत्वाद्वाक्याभासत्वं स्यादित्यत आह अस्मिन्पक्ष इति । ईश्वराशीरिति पक्ष इत्यर्थः । सर्वेषामपि ब्रह्मणा सहैव मुक्तिर्भवतीति साध्यं पृथगेव श्लोकाद्बहिरेव वाच्यमित्यर्थः ॥ तस्येति । तस्य साध्यस्य, किं काणमिति जिज्ञासायामीश्वराशीर्ल क्षणं तद्भूयादित्यनेन, किं ज्ञापकमित्याकाङ्क्षायां शास्त्रलक्षणं ज्ञापकं च शास्त्रस्य निर्णय इत्यनेनोच्यत इत्यर्थः ।

***परिमल ***

भेज इति । प्रथमस्कन्धे सप्तदशेऽध्याये ‘स वै महाभागवतः परीक्षिद्येनापवर्गाख्यमद भ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेने’ति पूर्वशेषः । समानकर्तृकक्रियापूर्वकालीनत्ववाचित्वाऽऽदेशल्यपो निर्वाहाय क्रियान्तरमाह प्राप्यावस्थितानामपीति योज्यमिति ॥ वैकुण्डादिस्थमिति । अमुक्तस्थानगतमिति भावः । ननु भूसत्तायामित्यत आशिषिलिङ्लोटावित्याशीरर्थे लिङि लिङाशिषीति तस्यार्धधातुकसंज्ञायां तिबादेशशपोऽप्राप्तौ यासुट्परस्मैपदेषूदात्तो ङिच्चेति तिपो यासुडागमे गुणाभावे इतश्चेति तिप इकारलोपे स्कोःसयोगाद्योरिति सकारलोपे भूयादिति रूपं भवति न चेहाशीर्विपयत्वमस्ति येन लिङ आर्धधातुकतया शपोऽप्राप्तौ भूयादिति रूपं साधु स्यात् किन्तु भवेदिति भाव्यमित्यत आह छन्दसीति । यद्यपि तृतीयाध्यायस्य चतुर्थपादे तिङ्शित्सार्वधातुकम्, आर्धधातुकं शेषः, लिट् च, लिङाशिषि, छन्दस्युभयथेति छन्दोविषये आशीर्लिङ् सार्वघातुकमार्धधातुकं चेत्युभयथा भवतीत्येव प्रस्तावात्प्राप्तं न त्वनाशीर्विषयविषयम् आर्धधातुकमित्यपि तथापि सर्वप्रकरणमपेक्ष्यैतदुच्यते । व्यत्ययो बहुलमित्यस्यैवायं प्रपञ्च इति वृत्तावुक्तत्वादेतदपि तत्राभिप्रेतमिति भावः ॥ साध्यमादाविति । साक्षान्मुक्तिर्लिङ्गभङ्गरूपा मुक्तिर्ब्रह्मणा सहैव भवेदिति साध्यं श्लोकस्यादौ वाच्यमित्यर्थः । कुतो हेतोरित्यतः यतः साक्षान्मुक्तिर्ब्रह्मणा सहैव भूयादितीश्वरस्याशीर् आशासनमस्ति अतः कारणादिति निमित्तम् । कुतो ज्ञायत इत्यत इति शास्त्रनिर्णय इति ज्ञापकं चानेन श्लोकेनोच्यत इत्यर्थः । शास्त्रेण क्रियमाणो निर्णयः शास्त्रनिर्णय इति तस्यार्थो ध्येयः ।

यादुपत्यम्

प्राप्यावस्थितानामिति । अन्यथा क्त्वादेशल्यबनुपपत्तिरिति भावः ॥ ननु भवतेर्लिङि तस्य तिपि लिङाशिषीत्याशीर्विषयस्य लिङ आर्धधातुकत्वेन शबाद्यप्राप्तौ यासुट् परस्मैपदेषूदात्तो ङिच्चेत्यनेन यासुटि इतश्चेतीकारलोपे स्कोः संयोगाद्योरन्ते चेति सकारलोपे भूयादिति रूपं भवति । अनाशीर्विषयत्वे तु आर्धधातुकत्वाभावाच्छबादिप्राप्त्या गुणावादेशादेरपि प्रसङ्गेन भवेदित्येवं रूपं स्यादित्यत आह छन्दस्युभयथेति । यद्यपीदं छन्दसि विषये उभयथा भवति सार्वधातुकमार्दधातुकं चेत्येव व्याख्यातं न त्वनाशीर्विषयस्याप्यार्दधातुकत्वमिति । तथाऽपि सर्वमपि प्रकरणमपेक्ष्यैतदुच्यत इति व्यत्ययो बहुलमित्यस्यैवायं प्रपञ्च इति च काशिकायामुक्तत्वादिदमप्यत्राभिप्रेतमिति भावः ॥ साध्यमिति । अन्येषां साक्षान्मुक्तिर्ब्रह्मणा सहैव भवतीति साध्यं पृथग्वाच्यं बहिरेवाध्याहार्यमित्यर्थः ॥ तस्य निमित्तमित्यादि । तस्य साध्यस्य किं कारकं किंवा ज्ञापकमिति जिज्ञासायां भूयादित्यनेनेश्वराशीर्लक्षणं कारकं, शास्त्रस्य निर्णय इत्यनेन ज्ञापकं चोच्यत इत्यर्थः ।

श्रीनिवासतीर्थीया

हरिं प्राप्य मुक्तिर्भूयादित्यत्र प्राप्तिभवनयोः पुरुषमुक्तिकर्तृकत्वेन समानकर्तृकत्वाभावात् क्त्वादेशभूतल्यबनुपपत्तिरित्यत आह प्राप्यावस्थितानामिति । तथा च प्राप्त्यवस्थानयोः पुरुषकर्तृकत्वान्न दोष इति भावः । भू इत्यस्मात् तिपि इष् इत्यस्य लोपे यासुडागमे सुट् इत्यस्य लोपे भूयादिति रूपम् । सार्वधातुकत्वे भवेदिति रूपं तस्य स्यादिति द्रष्टव्यम् ।

वाक्यार्थरत्नमाला

धातुकयोरिति गुण इति पाठः । लिङो ङित्वेचेति लिङो ङित्वेनेति मूलकोशे पाठः । पाठद्वयेपि लिङः सार्वधातुकमपिदिति सूत्रेणैव लिङित्वेपित आर्धधातुकस्य च तेनङित्वाप्राप्तेर्यासुट् परस्मैपदेष्वित्येतत्सूत्रगतङिच्चेत्यनेन ङित्वप्राप्तिरित्यर्थः । यासुट् सूत्रेहि यासुटो आगमतया गुणाकार्यस्य च प्रत्ययनिमित्तत्वेन परभूते प्रत्यय एव ङिविधानसार्थक्याल्लिङादेशपरस्मैपदेष्वेवाङित्वविधानं न यासुटीति निर्णीतं प्रमेयं मनसि निधायेदमुक्तम् । अन्यथा यासुटो ङित्वे चेत्येव ब्रूयादिति ज्ञेयम् । लिङ इत्यस्य यासुडुपलक्षितलिङ इत्यर्थः । किदाशिषीति सूत्रेणाशिषि लिङः कित्वप्राप्तेः कित्वादेव गुणनिषेध इति तु नाश्रितम् । किदाशिषीत्यत्रत्य किद्विधानस्य जागर्तेर्ङित्वेगुण निषेधेन गुणोपपत्यर्थं तदुत्तरङितः कित्वसंपादनार्थत्वेऽपि इत्यादौ वचिस्वपि यजादीनां कितीत्यनेन कित्वप्रयुक्तसंप्रसारेणार्थत्वेऽपि चान्यत्र गुणादिप्रतिषेधरूपकार्यस्य ङित्वाश्रयणेनैव सिध्या तदर्थत्वाभावस्याकारे निर्णीतत्वेन तदर्थं कित्वाश्रयणे वैय्यर्थ्यप्रसङ्गादित्याशयात् । सलोप इति । अत्र क्रमस्याविवक्षितत्वादादिविकारलोपः पश्चात्सलोप इति ज्ञेयम् । सुडागमसकारस्यापि लोप इत्याद्याकारे ज्ञेयम् । उभयथापीति । एकमेव सार्वधातुकमार्धधातुकं च भवतीत्यर्थः ।