लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः
देवानां देहलयात् तेषां मार्गाभावः
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः
सुधा
देवनामर्चिरादिमार्गो नास्तीत्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्सिद्धमित्याशयवान्स्तदनुवादेन युक्त्यन्तरमाह लयाच्चेति ।
अनुव्याख्यानम्
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥
कथं मार्गो भवेत्तेषां विशतामुत्तरं स्वतः ॥
देवतामुक्तेः प्रागेवेत्यर्थः । अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठ्यौ । सर्वेषामपि भवेद् अर्चिरादिरिति शेषः । स्वत(कं) उत्तरं विशतामित्युक्तानुवादः । ननु प्रायेणेत्युक्तत्वात्कदाचिद्देवानामुत्क्रान्तिमार्गावङ्गीकार्यौ । तत्रोक्तयुक्तिविरोध इत्यत आह जातानामिति ।
अनुव्याख्यानम्
जातानां मानुषे लोके देवानां तु कदाचन ॥
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ॥
यद्यपि भवतस्तथाऽपि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव । अतो नोक्तयुक्तिविरोधः । एतदुक्तं भवति । उत्क्रान्तिमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । न तु मुक्तिकालीनावुत्क्रान्तिमार्गौ । तस्य च व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इति ।
वाक्यार्थचन्द्रिका
मार्गान्तरमिति । स्त्रष्टृप्रवेशरूपमित्यर्थः । अर्चिरादयो ये लोकास्तेषामिति समानाधिकरणा षष्ठीति भ्रमनिरासायाह अर्चिरादीनामिति । लोकानामपीत्यपिशब्दस्य वैयर्थ्यादिप्रसङ्गेन यथाश्रुतसम्बन्धानुपपत्तेर्भिन्नक्रमतया तं योजयति सर्वेषामपीति । स्त्रष्टृप्रवेशरूपमार्गसद्भावात्कथमित्याक्षेपानुपपत्तिमाशङ्क्य न तदाक्षेपोऽत्राभिमतः किंनामार्चिरादिरूपस्यैवेति नानुपपत्तिरिति भावेनापेक्षितं माह अर्चिरादिरिति इति । ननु मुक्तिकालीनावुत्क्रान्तिमार्गौ कदाचिद्देवानां विद्येते न वा । आद्ये उक्तयुक्तिविरोधः । द्वितीये प्रायेणेत्यस्य वैयर्थ्यमित्यत आह एतदुक्तं भवतीति ।
***परिमल ***
मार्गान्तरमिति । स्त्रष्टरि प्रवेशार्थं तदभिसर्पणरूपमित्यर्थः । सर्वश इत्यस्यापि पदान्वयेनार्थः सर्वेषामपीति । भवेदित्यनुवादेन तत्र माह अर्चिरादिरिति इति । अपौनरुक्त्यायाह इत्युक्तानुवाद इति ॥ इत्युक्तत्वादिति । आद्यश्लोके उक्तत्वादित्यर्थः ॥ उक्तयुक्तीति । स्त्रष्टृष्विति श्लोके लयाच्चैवेति श्लोके चोक्तयुक्तीत्यर्थः । ननु न तदा मुक्तिरित्यनेन न चोद्यपरिहारः । प्रायःपदव्यावर्त्यसत्त्वे प्रागुक्तयुक्तिविरोधः, तदसत्त्वे तत्पदवैयर्थ्यमित्यतः कालभेदेन समाधिमाह एतदुक्तमिति ॥ सामान्यमिति । मोक्षामोक्षकालीनत्वविमनादाय मोक्षामोक्षकालीनसाधारण्यमपेक्ष्येत्यर्थः ।
यादुपत्यम्
मार्गान्तरमिति । स्त्रष्टृप्रवेशरूपमित्यर्थः ॥ तत एवैतत्सिद्धमिति । ‘विशतामुत्तरं स्वत’ इत्यनुवादेन देवतामुक्तेः प्रागेवेत्यस्य सूचितत्वादिति भावः । ननु मोक्षकालीनोत्क्रान्तिमार्गौ कदाचिद्देवानां विद्येते न वा । आद्ये उक्तयुक्तिविरोधः । द्वितीये प्राय इत्यस्य वैयर्थ्यमित्यत आह एतदुक्तं भवतीत्यादि ।
श्रीनिवासतीर्थीया
अर्चिरादीनां लोकानामिति सामानाधिकरण्यभ्रमं निवारयति व्यधिकरण इति । अर्चिरादीनां लयाल्लोकानां महरादीनां च सप्तानां लयादित्यर्थः । अर्चिरादयोऽन्तरिक्षलोकान्तर्गता एवेत्याशयः । सर्वश इत्यस्यार्थः सर्वेषामिति ॥ उक्तयुक्तीति । लयाच्चैवार्चिरादीनामित्युक्तयुक्तीत्यर्थः॥ प्रायेणेत्युक्तमित्यादि । उत्क्रान्तिमार्गौ देवानां न भविष्यत इत्येतत्प्रायः कदाचिदुत्क्रान्तिमार्गौ भवत इति सामान्यमेव नेत्यस्य व्यावर्त्यं न तु मोक्षकालीनोत्क्रान्तिमार्गौ व्यावर्त्यकथनपरप्रायःशब्दार्थौ । देवानां मोक्षसमये उत्क्रान्तिमार्गौ न भवतः कदाचिन्मोक्षसमयेऽप्युत्क्रान्तिमार्गौ भवत इति व्यावर्त्यकथनपरप्रायःशब्दार्थो न भवतीत्यर्थः ॥ तस्य चेति । देवानामुत्क्रान्तिमार्गौ न भविष्यत इत्यस्य व्यावृत्तिकथनपरप्रायःशब्दार्थभूतौ न भविष्यत इत्यस्य व्यावर्त्यावित्यर्थः । तथाच देवानां मोक्षसमये उत्क्रान्तिमार्गौ न भविष्यत इत्येतत्प्रायः । कोऽर्थः । कदाचिदमोक्षसमये स्त इति ।