०४ देवतामुक्तिप्रकारः

स्त्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये

देवतामुक्तिप्रकारः

स्त्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये

सुधा

देवानां मार्गो नास्तीत्युक्तम् । तत्किं यत्र स्थितास्तत्रैव मुक्ता भवन्तीत्यत आह स्त्रष्टृष्वेवेति ।

अनुव्याख्यानम्

स्त्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ॥

देवानां मार्ग उद्दिष्टो ……. ……

क्वचिदस्त्रष्टृष्वपीति चशब्दः, तता च न्यायविवरणे । ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः । तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह नेति ।

अनुव्याख्यानम्

….. ….. …. नार्चिरादिः …….

देवानां देहादुत्क्रमो नास्तीत्युक्तम् । तत्कुतः । सदेहानामेवावस्थानप्रसक्तेरित्यत आह न चेति ।

अनुव्याख्यानम्

…… …… …… ….. न चोत्क्रमः ॥

अत एवेत्युपस्कर्तव्यम् । चशब्देन सदेहानामवस्थानं समुच्चिनोति ।

एतदेव विवृणोति स्त्रष्टु(स्त्विति)रिति ।

अनुव्याख्यानम्

स्त्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥

यतः, सृज्यस्य देवस्य नैवात्क्रान्तिस्ततो भवेत् ॥**

देहश्चेतनाधिष्ठित एव । तत्र स्त्रष्टरि । उत्क्रान्तिः शरीरात् । चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्त्रष्टुषु विलीयत यत इत्यर्थः । स्त्रष्टुषु लये निमित्तं स्त्रष्टुर्ग्रासभूतस्येति । देहस्त्विति सम्बन्धः ।

वाक्यार्थचन्द्रिका

मार्गो नास्तीत्युक्तमिति । मार्गाभावे च तत्र गमनमपि नास्तीत्युक्तप्रायमिति भावः । ननु तत्तत्सृज्यानां तत्तत्स्त्रष्टृष्वेव प्रवेश इति तु नियमो न युक्तः । तथा सत्यश्विप्रभृतीनां वरुणादौ लयाभावप्रसङ्गादित्यतोऽत्र चशब्देनास्त्रष्टृष्वपि लयप्रतिपादनेनोक्तनियमासिद्धेर्नानुपपत्तिरित्याशयेन चशब्दार्थमाह क्वचिदिति । तथा सति नियामकाभावादतिप्रसङ्ग इत्याशङ्क्याह तथा चेति । तत्समानानां च विवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेरिति । अस्त्रष्टृष्वपि लयोऽभिहित इत्यर्थः । न्यायविवरणे वरुणाद्युत्पन्नाबादिदेवतासमानानां वरुणाद्यनुत्पन्नानामश्विप्रभृतीनां स्वसमानादिदेवतालयस्थाने वरुणे युक्त्या लयसमर्थनान्नातिप्रसङ्ग इति भावः ।

ननु ब्रह्मणो लयात्पूर्वमेव देवतानामपि लयावश्यम्भावात्कथं प्रवेशोक्तिस्तदेत्यत आह प्रत्यासन्न इति । ननु मूले मार्गगमनस्यानुक्तत्वात्कथमनेनैवोक्तशङ्कापरिहार इत्यतोऽत्र प्रवेशशब्दस्य लक्षणया तदर्थाभिसर्पणपरत्वेन प्रवेशमात्रपरत्वाभावात् तस्यैव च र्मागगमनत्वसम्भवादुक्तशङ्कापरिहारकत्वमस्येत्याह प्रवेशार्थमिति ॥ तर्हीति । तदभिसर्पणस्य मार्गगमनत्व इत्यर्थः । असति मार्गे तद्भमनानुपपत्त्या तत एव मार्गस्य सिद्धेरिति भावः ॥ अत एवेति । सृज्यदेहानां स्त्रष्टृप्रवेशेन लयादेवेत्यर्थः ॥ चशब्देनेति । अनेनात एवोत्क्रमश् चशब्दात्सदेहानामवस्थानं च नेति चशब्दो भिन्नक्रमतया योजितो भवति ॥ एतदेवेति । अत एवेत्युक्तमेवेत्यर्थः । मूले स्त्रष्टुस्त्विति तुशब्दो विशेषार्थ इति भावेन तं दर्शयति चेतनाधिष्ठित एवेति । अन्यथा तत्रत्यचेतनस्योत्क्रान्तिप्रसङ्गेन तन्निषेधानुपपत्तेरिति भावः । अनेनात एवेत्येतत्कथं विवृतं भवतीत्यतस्तं प्रकारमाह चेतनेति । मूले स्त्रष्टुस्तु ग्रासभूतस्येत्यस्यानर्थक्यमाशङ्क्य सृज्यदेहस्य स्त्रष्टृषु लये किं निमित्तमित्याशङ्कानिरासाय तन्निमित्तोपदर्शनार्थत्वान्न तदिति भावेन तत्परतया तद्योजयति स्त्रष्टृष्विति । अनेन तत्र ग्रासत्वं तत्र लये निमित्तम् । यो यद्ग्रासः स तत्र लीयत इति व्याप्तेरित्युक्तं भवति ।

***परिमल ***

न्यायविवरण इति । ‘भूतेषु तच्छतेरि’ति सूत्रन्यायविवरणे तत्तद्भूतोद्भवत्वात्तत्तद्देवानामित्युक्त्वा तत्समानानां च विवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेरित्युक्तेरस्त्रष्टृष्वपि प्रवेशोऽभिमत इति भावः, यथाऽश्विप्रभृतीनां वरुणाद्यजातत्वेऽपि स्वसमानाऽबादिदेवतालयस्थाने वरुणादौ लय इति ध्येयम् । उक्तं हि भाष्ये । ‘वरुणेऽश्विनावग्नावग्नयस् तथा ऋभवः पृथिव्यां वरुण आपोऽग्नय’ इत्यादि । ननु ब्रह्मलयात्पूर्वमेव देवानां लयात्कथं स्त्रष्टृषु प्रवेशोक्तिर् ब्रह्मणो लय इत्युच्यत इत्यत आह प्रत्यासन्न इति । ननु कथं प्रवेशो मार्ग उद्दिष्ट इत्यत आह प्रवेशार्थमित्यादि ॥ अत एवेतीति । स्त्रष्टृषु देहलयादेवेत्यर्थः । जीवे उत्क्रान्ते देहमात्रस्य तत्र लय इति भ्रमनिरासायाह चेतनाधिष्ठित एवेति । तत्रेत्यनुवादः, स्त्रष्टरीति व्याख्या । तत इत्यस्योपपत्तये यत इत्यस्यान्वयमाह चेतनेत्यादि ॥ इति सम्बन्ध इति । तेन चेतनाधिष्ठितत्वरूपविलाभ इति भावः ।

यादुपत्यं

तथा च न्यायविवरण इति । ‘तत्समानां च विवचनाभावे स्वसमानदेवतालयस्थान एव लयोपपत्तिरिति न्यायविवरणेऽस्त्रष्टृष्वपि प्रवेशोऽभिहित इत्यर्थः । यथाऽश्विप्रभृतीनां वरुणाद्यनुत्पन्नत्वेऽपि स्वसमानाबादिदेवतालयस्थान एव वरुणादौ लय इति भावः । ननु ब्रह्मणो लये देवानामपि लयात्कथमेतदित्यत आह प्रत्यासन्न इति ॥ मार्गो नास्तीत्युक्तमिति । मार्गाभावे तत्र गमनं नास्तीत्यप्युक्तप्रायमिति भावः । ननु मूले मार्गगमनस्यानुक्तत्वात्कथमुक्तशङ्कापरिहार इत्यत आह प्रवेशार्थमिति । तथा च मूले प्रवेशशब्देन तदर्थकमभिसर्पणं, मार्गशब्देन च तद्गमनं लक्षणीयमिति भावः ॥ अत एवेति । स्त्रष्टृप्रवेशेन लयादेवेत्यर्थः ॥ चेतनाधिष्ठित एवेति । तत्र चेतनस्योत्क्रमणप्राप्तिरिति भावः । एतच्च विशेषार्थकतुशब्देन लब्धमिति ज्ञातव्यम् । अत एव देहस्त्विति सम्बन्ध इति वक्ष्यति । ग्रासभूतस्येत्यनेन यो यद्ग्रासभूतः स तस्मिन् लीयत इति व्याप्तेर्ग्रासत्वं निमित्तमुक्तमिति ज्ञातव्यम् ।

वाक्यार्थरत्नमाला

विशेषार्थ इतीति । अनेन न चेतनाधिष्टितत्वं वि इत्युक्तं भवति ।