०३ पादचतुष्टयप्रतिपाद्यस्य तत्सङ्गतेश्च प्रदर्शनम्

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम्

पादचतुष्टयप्रतिपाद्यस्य तत्सङ्गतेश्च प्रदर्शनम्

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम्

सुधा

भवत्विदं प्रतिपाद्यम् एत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात्पादचतुष्टयस्यापि सङ्गतिमाह कर्मेति ।

अनुव्याख्यानम्

कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥

फलं मोक्ष इति प्रो(क्तं)क्तः क्रमात्पादेषु चोदि(तं)तः ॥

तथाशब्दः समुच्चये । उत्क्रन्तिशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते ; मार्गशब्देन ब्रह्मप्राप्तिश्च । इतिशब्दो भोग इत्यतः परो (परं) योज्यः । क्वचित्पाठः प्रोक्तमित्युदितमिति च तत्र यथास्थान एव इतिशब्दः । आद्ये मोक्षानुवादेन फलचतुष्टयात्मकत्वं विधेयम् । द्वितीये तु विपर्ययेण । क्रमादित्येतदावर्तनीयम् ।

ततश्चायमर्थः । फलं खल्वत्राध्याये निरूपणीयम् । फलं च मोक्षः । स च कर्मक्षयादिचतुष्टयात्मकः । आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावात् । कर्मक्षयादयश्च क्रमाद्भवन्ति । ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तिर् उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिस् ततो भोग इति । तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्यलक्षणा च सङ्गतिरिति ।

वाक्यार्थचन्द्रिका

पादचतुष्टयस्यापीति । एकीकृत्य पादचतुष्टयस्यापि सङ्गतिप्रतिपादने निमित्तं तु लाघवायेति पूर्वपादोक्तमवधेयम् । ननूत्क्रान्तिवद्द्वितीयपादप्रतिपाद्यतयाऽभिमतस्य देवानां मोक्षस्यावश्यवक्तव्यस्यापरिग्रहान्न्यूनत्वं तत्परिग्रहे चार्थद्वयप्रतिपादकतयाऽर्थैकत्वाभावान्नैकपादत्वम् । एवं मार्गवद्गम्यस्यापि तृतीयपादप्रतिपाद्यतया तदनुक्तेर्न्यूनत्वं तस्याप्यत्र परिग्रहे चार्थैक्याभावान्नैकपादत्वमित्यत आह उत्क्रान्तिशब्देनेति ॥ देवतदितरसाधारण इति । नाशो लक्ष्यत इत्यनुवर्तते । इतिशब्दस्य यथाश्रुतसम्बन्धे फलचतुष्टयानुवादेन मोक्षत्वविधानापत्त्या फलचतुष्टयं मोक्ष इति प्रोक्तमिति नपुंसकस्य वक्तव्यतया प्रोक्त इति पुल्लिङ्गानुपपत्तेर्नेत्थं वचनव्यक्तिः । किन्तु मोक्षः फलचतुष्टयं प्रोक्त इति मोक्षानुवादेन फलचतुष्टयत्वविधानमेवेति न पुल्लिङ्गानुपपत्तिरित्याशयेनेतिशब्दस्य भिन्नक्रमतयाऽन्वयमाह इतिशब्द इति । यथास्थान एवेति । यद्यप्यत्र भोग इत्यतः परम् इतिशब्दस्यावश्यकत्वान्न यथाश्रुतस्थान एवेतिशब्दो योजयितुं शक्यत इति तथोक्तिरयुक्ता तथापि यथा पूर्वत्र यथाश्रुतसम्बन्धपरित्यागेन भिन्नक्रमतयैव तत्सम्बन्धो न तथात्र किन्तु यथाश्रुतसम्बन्धोप्यस्तीत्यभिप्रायेणैवमुक्तम् । तदर्थं च यत्रेतिशब्दः श्रूयते तत्रास्त्येवेति योज्यम् । इतिशब्दस्य भिन्नक्रमत्वं यथाश्रुतान्वयाश्रयणेन सूचितं पाठभेदेनोद्दिश्य विधानभेदमुपदर्शयति आद्य इति । पुल्लिङ्गपाठ इत्यर्थः ॥ द्वितीय इति । नपुंसकपाठ इत्यर्थः ॥ विपर्ययेणेति । फलचतुष्टयानुवादेन मोक्षात्मत्वं विधेयमिति विपर्ययेणेत्यर्थः ॥ आवर्तनीयमिति । अन्यथा कर्मक्षयादीनां क्रमात्पादेषूदितत्वप्रयोजकीभूतायाः कर्मक्षयादीनां क्रमभाविताया अलाभेन क्रमात्पादेषूदितत्वानुपपत्तिप्रसङ्गादिति भावः ।

ननु च भाष्यकारीयं फलस्य मोक्षत्वकथनमनर्थकम् । न च तस्यैतदध्यायप्रतिपाद्यत्वसिद्ध्यर्थं तदिति वाच्यम् । फलस्यैतदध्यायार्थत्वासिद्ध्या तदानर्थक्यात् । तत्सिद्धावपि फलस्यान्यादृशस्यापि सम्भवान्न तस्य मोक्षतायां नियामकमस्ति । अस्तु वा फलस्य मोक्षत्वमपि । तथाऽपि न तच्चातुर्विध्यं भाष्यकृदुक्तं युक्तम् । आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्त्योरपि पृथक् सत्वात् । अस्तु वा तच्चातुर्विध्यमपि । तथापि न भाष्यकृदुक्तस्तत्क्रमो युज्यते । उक्तक्रमे नियामकाभावात् । भावेऽपि क्रमादुदितत्वे न नियामकं पश्यामः । अस्तु वा क्रमेणोदितत्वमपि । तथाऽपि सङ्गत्यनुक्तिस्तदवस्थैवेत्येताः शङ्काः क्रमेण परिहरति ततश्चेति ॥ फलमिति । जिज्ञास्यतया प्रथमसूत्रप्रतिज्ञातेष्वर्थेषु फलस्यैवावशिष्टत्वादिति भावः ॥ फलं चेति । धर्मार्थकामानामनित्यतया फलत्वानुपपत्तेर्मोक्षस्य च नित्यतया तदुपपत्तिरिति भावः ॥ अन्तर्भावादिति । ततश्च नोक्तचातुर्विध्यानुपपत्तिरिति भावः । क्रममेवोपदर्शयति ज्ञानोदयानन्तरमेवेत्यादिना ॥ स्वयोग्यमार्गेणेति । मनुष्याणामर्चिरादिरूपेण देवानां स्वस्त्रष्टृप्रवेशार्थं तदभिसर्पणरूपेणेत्यर्थः ॥ अन्तर्भावलक्षणेति । कर्मनाशादिफलचतुष्टयस्योक्त्या तत्प्रतिपादकानां चतुर्णां पादानां फलाध्यायेंऽतर्भावलक्षणा सङ्गतिरुक्तेत्यर्थः । पूर्वपूर्वपादस्योत्तरोत्तरपादार्थं प्रत्युपजीव्यत्वादुत्तरोत्तरपादानां पूर्वपूर्वपादेन सहानन्तर्यलक्षणा सङ्गतिरपि क्रमादुदितत्वोक्त्या भवतीत्याह आनन्तर्येति ।

***परिमल ***

समस्तपादप्रतिपाद्यलाभायाह उत्क्रान्तिशब्देनेति ॥ मार्गशब्देनेति । प्राप्तिश्चेति लक्ष्यत इत्यन्वेति । विपर्ययेणेति । चतुष्टयफलानुवादेन मोक्षत्वं विधेयमित्यर्थः । आवर्तनीयमिति । कर्मक्षयादयः क्रमाद् भवन्त्यतः पादेषु क्रामादुदिता इत्यावर्तिता इत्यन्वय इत्यग्रे व्यक्तम् ॥ स्वयोग्यमार्गेणेति । अर्चिरादिमार्गेणेत्यर्थः । उत्क्रान्तिपदोपलक्षितदेवानां च स्वोत्तमदेवप्रवेशमार्गेणेत्यर्थः । गरुडमार्गेणेति वाऽर्थः ॥ अन्तर्भावेति । फलाध्याये चतुर्विधफलबोधकपादानामन्तर्भावात्क्रमिकार्थबोधकानां पूर्वपूर्वपादानन्तर्याच्चेति भावः । अयमर्थ इत्यनेनेतिशब्दान्वयः ।

यादुपत्यं

ननु द्वितीयपादप्रतिपाद्यतयाऽभिमतस्य देवानां मोक्षस्यात्रापरिग्रहान्न्यूनता । तत्परिग्रहे चार्थभेदात्कथं द्वितीयपादैक्यमित्यत आह उत्क्रान्तिशब्देनेति । ननु तृतीयपादप्रतिपद्यतयाऽभिमताया ब्रह्मप्राप्तेरत्रापरिग्रहान्न्यूनता स्यादित्यत आह मार्गशब्देनेति ॥ ब्रह्मप्राप्तेरिति । देवतदितरसाधारणीति शेषः । तथा च तृतीयपादे सर्वसाधारणब्रह्मप्राप्तिरेव प्राधान्येन प्रतिपाद्यतया विवक्षिता । मार्गस्तु तादर्थ्येन केषाञ्जिदेवातो न पादैक्यानुपपत्तिरिति भावः । यथास्थाने इतिशब्दो विवक्षित एवेत्यर्थः । तथा चात्र भोग इत्यतः परोऽपि योज्य इति भावः ॥ स्वयोग्यमार्गेणेति । मनुष्याणामर्चिरादिरूपेण देवानां स्वस्त्रष्टृप्रवेशरूपेणेत्यर्थः ॥ अन्तर्भावलक्षणेत्यादि । उक्तरीत्या फलभूतमोक्षविरूपकर्मक्षयादिप्रतिपादकानां पादानां फलाध्यायेनान्तर्भावलक्षणा सङ्गतिः पूर्वपूर्वपादार्थस्योत्तरोत्तरपादार्थं प्रत्युपजीव्यत्वाच्च स्वस्वपूर्वपूर्वपादावधिकानन्तर्यलक्षणा सङ्गतिरुत्तरोत्तरपादस्येत्यर्थः ।

श्रीनिवासतीर्थीया

आद्य इति ॥ प्रोक्त उदित इति पुल्लिङ्गान्तपाठ इत्यर्थः ॥ मोक्षानुवादेनेति । मोक्षः कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोग इति चतुष्टयं फलं तदात्मक इति यावत् । (प्रोक्तः) स च क्रमात्पादेषूदित इति योज्यमित्यर्थः ॥ द्वितीये त्विति । प्रोक्तमुदितमिति नपुंसकान्तपाठ इत्यर्थः ॥ विपर्ययेणेति । फलचतुष्टयानुवादेन मोक्षत्वं विधेयमित्यर्थः । ततश्च कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोग इति फलचतुष्टयं मोक्ष इति प्रोक्तं तच्च क्रमात्पादेषूदितमिति योज्यमिति भावः । नन्वनिष्टनिवृत्तीष्टप्राप्तिरूपफलस्यैवैतदध्यायप्रतिपाद्यत्वात्कर्मक्षयादीनां चातथात्वात्कथं तेषामध्यायान्तर्भाव इत्यत आह आत्यन्तिकेति । कर्मक्षयोत्क्रान्त्योरनिष्टनिवृत्तिरूपत्वान्मार्गभोगयोरिष्टप्राप्तिरूपत्वाद्युक्तस्तेषां फलाध्यायान्तर्भाव इति भावः ।

वाक्यार्थरत्नमाला

उत्क्रान्तिवद् द्वितीयपादप्रतिपाद्यतयेत्यस्य पूर्वत्रापि सम्बन्धः । मोक्षस्येति । मोक्षस्यापीत्यर्थः । नैकपादत्वमिति । इयं च देवतदितरसाधारणश्चरमेत्युक्तिनिवार्याशङ्का । अन्यथा मोक्षो लभ्यत इत्येतावतैव न्यूनत्वशङ्कापरिहारसिद्धेः साधारणप्रकारान्तरकल्पनावैय्यर्थ्यापातात् । एवं ब्रह्मप्राप्तिमात्रस्योत्तरत्र लक्षणावचनव्यावर्त्यतया तृतीयपादविषयेऽप्येकार्थत्वानुपपत्तिशङ्का प्रवर्तिता । स्वयोग्यमार्गेणेत्याद्युत्तरमूलानुसारेण ब्रह्मप्राप्तिमात्रस्य साधारणत्वाद्वक्ष्यति च । ब्रह्मतदितरसाधारणीति इतीति ज्ञेयम् । गम्यस्यापि तृतीयपादप्रतिपाद्यतयेति पाठः । विधानापत्येति । मोक्षः प्रोक्त इतीति शब्दबलात्तथानुवादविधानप्रतीतेरिति भावः । मोक्षः फलचतुष्टयं प्रोक्त इतीति । यद्यपि फलचतुष्टयानुवादेन मोक्षत्वविधानपक्षे इति प्रोक्तमितीतिशब्दसम्बन्धापत्तिवन्मोक्षानुवादेन फलचतुष्टयत्वविधानपक्षेऽपि मोक्षः फलचतुष्टयमिति प्रोक्त इतीतिशब्दसम्बन्धाश्रयणेन वचन व्यतिरेकाश्रयणीय इति तथैवानुवादः कर्तव्यः । फलचतुष्ठयं प्रोक्त इति तदनुवादो नानुगुणः । तथापि मूले इतिशब्दस्य भोग इत्यतः परं सम्बन्धयोजनाभिधानेन तदनुसारेणेतिशब्दस्य फलचतुष्टयमित्यतः परं सत्त्वं स्वीकृत्य मोक्षः फलचतुष्टयं प्रोक्त इत्येवानुवादः । इतिशब्दस्य भिन्नक्रमतयेति ।

यद्यपीतिशब्दबलेन मोक्षत्वविधानप्राप्त्या पुल्लिङ्गानुपपत्तिशङ्का या तत्परिहारायेतिशब्दस्य फलचतुष्टयमित्यनेन सम्बन्धाश्रयणे फलचतुष्टयत्वविधानस्यैव प्राप्त्या मोक्षः फलचतुष्टयमिति प्रोक्त इत्यनुवादविधानपक्षे पुल्लिङ्गानुपपत्तिशङ्काप्रसङ्गाभावेनेतिशब्दः फलमित्यतः परो योज्यमित्येव मूलकृता वक्तुमुचितम् । तथापीदमितिशब्दस्य भिन्नक्रत्वाश्रयणेन योजनं पुल्लिङ्गानुपपत्तिमात्रपरिहाराय मूलकृता कृतम् । अपि तु मोक्षो भोगश्चतुष्टयं फलं मोक्ष इत्युक्ते कर्मभोगादीनां प्रत्येकं चतुष्टयफलत्वप्रतीतिः स्यात् । कर्मक्षयोत्क्रान्तिमार्गभोगातिरिक्तं फलचतुष्टयमिति वा प्रतीतिः स्यात् । सा नाश्रयितुं युक्ता । ततश्चोक्तविधकर्मनाशादेर्मोक्षत्वविधानमपि न युक्तं स्यादित्याशङ्कापरिहारायेतिशब्दस्य भोग इत्यतः परं योजनाश्रयणान्न प्रत्येकं कर्मनाशादेः फलचतुष्टयत्वादिप्रतीतिप्रसङ्गस्तत्प्रतीतिमूलकमोक्षत्वविधानानुपपत्तिप्रसङ्गश्च नास्ति । यथैवमर्थाप्रतीतिनिरासायेतिशब्दस्यभिन्नक्रमत्वमाश्रितं तदा पुलिङ्गानुपपत्तिपरिहारोऽपि सिद्ध इत्याश्रयेणैव तेन तदाश्रयणं कृतम् । तथा च पुल्लिङ्गानुपपत्तिपरिहारायानुषङ्गिकतया तन्मात्रस्य फलचतुष्टयमित्यत्रैतिशब्दसम्बन्धाश्रयणेनासिद्धिसम्भवेऽपि कर्मनाशादेः प्रत्येकं फलचतुष्टयात्मकत्वानुपपत्तिपरिहारासिध्या मोक्षः फलचतुष्टयं प्रोक्त इत्येतन्मात्रोक्तावपि विवक्षितार्थसिद्धिसम्भवेचोक्तानुपपत्तिद्वयपरिहारकभोगपदोत्तरेतिशब्दसम्बन्धाश्रयणेनैव योजनं युक्तम् । एतदेव मनिसि निधाय टीकाकार उत्तरपक्षे यथास्थाने इतिशब्दसम्बन्धानुपपत्तिमाशङ्क्योभयत्रापि सम्बन्धाश्रयणतया योजनां करिष्यति । अत एव च द्वितीययोजनायामपि फलचतुष्ठयं मोक्षः प्रोक्तमित्येवमनुवादविधानव्यत्यासमात्रेणापि विवक्षितार्थसिद्धिसम्भवेऽप्यत्र पक्षे पूर्वत्रेवेतिशब्दस्य न भिन्नक्रमत्वमात्राश्रयणम् । अपि तु यथास्थितसम्बन्धोऽप्यभिमतः । मोक्ष इत्यत्रापीतिशब्दसम्बन्धेऽर्थस्पष्टीकरणलाभात् । तत्सम्बन्धाश्रयणेन फलं मोक्ष इति प्रोक्त इति फलचतुष्टयानुवादादिसिध्यैव पुल्लिङ्गानुपपत्तिपरिहारोऽपि लब्ध इति मूलाभिप्रेतमित्याशयेन टीकृतानुषङ्गिकं फलं विवक्षित्वैव पुल्लिङ्गानुपपत्तिपरिहारवर्णनं कृतमिति ज्ञायते । अन्यथा मोक्षानुवादापक्ष इव फलचतुष्टयानुवादपक्षेपीतिशब्दस्यानावश्यकतया यथास्थान इतिशब्दसम्बन्धाश्रयणवैयर्थ्य प्रसङ्गः । टीकाकृतापि यत्र श्रूयते तत्राप्यस्त्येवेति योजनाभिधानायोगप्रसङ्गश्चेत्यादि सुधीभिराकलनीयम् । एतन्मूलटीकयोः फलचतुष्टयेत्यनुवादस्तु फलं चतुष्टयमिति फलपुरस्कारे वा फलभूतं यच्चतुष्टयमिति कर्मनाशादिपुरस्कारे वा न कश्चन वि इति भावेनेति न दोषः । भिन्नक्रमत्वं यथाश्रुतेति । भिन्नक्रमत्वस्य यथाश्रुतान्वयस्य वाऽऽश्रयणेनेत्यर्थः । अन्यादृशस्यापीति । मोक्षातिरिक्तस्यापीत्यर्थः । नोक्तचातुर्विध्येति । आत्यन्तिकानिष्टनिवृत्तेस्तृतीयपादार्थभूतभगवत्प्राप्त्युत्तरभाविलिङ्गशरीरभङ्गस्वगुणाच्छादकप्रतिध्वंसरूपायास्तृतीपादार्थे इष्टप्राप्तेश्च सङ्कल्पसाध्यदिव्यभोग भोजनरूपायाश्चतुर्थपादेऽन्तर्भावान्नोक्तचातुर्विध्यभङ्ग इत्यर्थः । भवेदयं पादार्थ इत्याद्युरग्रन्थेत्वत एव वाक्यं निवृत्तानिष्टा इत्यत एवस्वरूपेण लीलागृहीतेति चात एवेतिपदस्थलद्वयस्य योजना कार्येति मूलाभिप्रेतमित्यनेन सूचितं भवति ।