०२ देवानां देहलयः, तदितरेषां देहादुत्क्रान्तिश्च पादप्रतिपाद्ये

देवानां च मनुष्याणामेतावत्सममेव हि

अथ चतुर्थाध्यायस्य द्वितीयः पादः

अन्यथामोक्षस्वरूपनिराकरणम्

देवानां देहलयः, तदितरेषां देहादुत्क्रान्तिश्च पादप्रतिपाद्ये

देवानां च मनुष्याणामेतावत्सममेव हि

सुधा

द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यं ‘देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यत’ इति । तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तिभ्यां सम्बध्यते तदा देवेभ्योऽन्येषां सशरीराणामेवावस्थानमिति प्राप्नोति । अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चिन्तनीयः । अचिन्तने वा कारणं वाच्यम् । यदि च मोक्षेणैव सम्बध्यते तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । तथा च प्रथमपादे कर्मनाशाख्यं फलमस्मिन्पादे उच्यत इति यथा सामान्येनोक्तं तथात्राप्युत्क्रान्तिरस्मिन्पाद उच्यत इति वक्तव्यम् । किमनेन विभागे(नेत्य)न कृतं स्यादित्यत आह देवानां चेति ।

अनुव्याख्यानम्

देवानां च मनुष्याणामेतावत्सममेव हि ॥

उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ॥

यदतीतपादे चिन्तितं कर्मनाशाख्यं फलमेतावद्देवानां मनुष्याणां च सममेव । कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् । मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति । तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् । एतत्पादप्रतिपाद्यो देहादुत्क्रान्तिस्तृतीयपादप्रतिपाद्योऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतोऽतो विभागेनोक्तिर्युक्तेति । अनेन ‘मार्गो गम्यं चास्मिन्पाद उच्यत’ इत्येतद्भाष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति । स्फुटं चैतद्वक्ष्यति । ‘उत्क्रान्तिमार्गश्च विमुक्तगम्यमि’ति ।

वाक्यार्थचन्द्रिका

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥

ननु देवानां च मनुष्याणामिति भाष्यमनर्थकम् । न च देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यत इति विभागेन पादप्रतिपाद्योक्तिसमर्थनार्थत्वान्नानर्थक्यमिति वाच्यम् । तथा पादप्रतिपाद्योक्तिं विना तदलाभेन तत्समर्थनार्थत्वायोगात्कथञ्चिल्लाभेऽपि विभागेनोक्तौ बाधकाप्रतिभासेन तत्समर्थनानर्थक्याच्चेत्यतोऽत्रानुक्तावपि भाष्ये तथोक्त्या तल्लाभात् तत्रानुपपत्तिसद्भावाच्च न तत्समर्थनपरोत्तरभाष्यवैयर्थ्यमित्याशयेन पादप्रतिपाद्यप्रदर्शनपरभाष्योदाहरणपूर्वकं तत्रानुपपत्तिशङ्कामुत्थापयति द्वितीयपाद इति । अन्यत्रेति । पादान्तर इत्यर्थः । अन्यथा नियमाधिकरणविरोधादिति भावः ॥ कारणं वाच्यमिति । शास्त्रान्तरसिद्धत्वासम्भावनादिराहित्यरूपमित्यर्थः । अन्यथाऽवश्यवक्तव्यानुक्तिप्रसङ्गादिति भावः ॥ प्रकरणवशादिति । कर्ममोक्षानन्तरभावितया वक्ष्यमाणमार्गादिरूपतत्प्राप्तिपूर्वभावितया देहमोक्षस्यैवावशिष्टतया प्रकरणप्राप्तत्वादित्यर्थः । किमत आह तथा चेति ॥ उत्क्रान्तिरस्मिन्पाद उच्यत इति वक्तव्यमिति । चरमदेहनाशोऽत्र प्रतिपाद्यत इत्येव वक्तव्यम् । उत्क्रान्तिर्माक्ष इति विभागेनोक्तिर्व्यर्थेति भावः ॥ मनुष्यशब्द इति । यद्यपि देवशब्दस्यैव लक्षकत्वमाश्रयितुं शक्यम् । प्रथमपठितदेवपदत्यागेन चरमश्रुतमनुष्यशब्दे तत्स्वीकारायोगात् । तथाऽपि एकप्रकरणपठितत्वादुत्तरवाक्यगतदेवशब्दस्यापि तथा सति तल्लक्षकत्वप्रसङ्गेन तन्निरासार्थं मनुष्यपदस्यैव लक्षणाश्रयणमिति भावः । ननु ‘देवानां च मनुष्याणामेतावत्सममेव हि । उत्कान्तिमार्गौ देवानां न प्रायेण भविष्यतः’ इत्येतावतैव भाष्यखण्डेन देवानामित्यादिविभागेन पादप्रतिपाद्योक्तिसमर्थनसिद्धेरितरांशवैयर्थ्यमित्यतस्तावतैतत्पादप्रतिपाद्यार्थविभागोक्तिपरभाष्यसमर्थनसिद्धावपि तृतीयपादप्रतिपाद्यार्थविभागोक्तिपरभाष्यसमर्थनासिद्धेस्तत्समर्थनार्थत्वान्न तदंशस्यापि वैयर्थ्यमिति भावेन तदुदाहरणपूर्वकमनेन सूचितं तद्व्याख्यानप्रकारं दर्शयति अनेनेति । मार्ग इत्याद्यंशान्तरेणेत्यर्थः ॥

***परिमल ***

स्वयं कृतापि तद्व्याख्ये’त्यादिस्वप्रतिज्ञानुसारेण भाष्यं स्पष्टीकरोतीत्याशयेन मूलमवतारयितुं स्पष्टीकृतौ काऽनुपपत्तिरित्यतो भाष्यमनूद्य तत्रानुपपत्तिं दर्शयति द्वितीयेति ॥ अन्यत्र वेति । पादान्तरे ॥ प्रकरणेति । देहत्यागोक्तिप्रकरणवशादित्यर्थः ॥ देहादिति । तथाच मोक्षोऽप्युत्क्रान्तिरूप एव प्राप्त इति भावः । ऋषिगन्धर्वादिग्रहणायाह मनुष्यशब्द इति ॥ न प्रायेणेति । प्रायपदव्यावर्त्यस्याग्रे ‘जातानां मानुषे लोके’ इत्यादिना मूल एव व्यक्तत्वादिहानुक्तिः ॥ एतद्भाष्यमपीति । उत्तरपादभाष्यमपीत्यर्थः ॥ स्पष्टं चैतदिति । इति व्याख्येयमिति स्वोक्तं प्रमेयम् उत्तरपादे ‘ये शरीरादुत्क्रान्ता मानुषास्तेषां भगवल्लोकागमनार्थो मार्गः ये कर्मणो देहाच्च विमुक्तास् तेषां सर्वेषामपि गम्यमिदमुभयमेतत्पादोदितमि’ति वक्ष्यतीत्यर्थः ।

यादुपत्यं

देहादिति ॥ गम्यत इति । तथा च मोक्षोऽप्युत्क्रान्तिरूप एवेति प्राप्तमिति भावः । ततः किमित्यत आह तथा च प्रथमपाद इति । प्रायेणेत्यस्य व्यावर्त्यं ‘जातानां मानुषे लोक’ इत्यत्राचार्यः स्वयमेव दर्शयिष्यति । ‘उन्क्रान्तिमार्गश्च विमुक्तगम्यमि’त्यस्य ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः । ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यमित्यर्थः ।

श्रीनिवासतीर्थीया

तथाऽत्राप्युत्क्रान्तिरिति । तथा च देहान्मोक्षस्याप्युत्क्रान्तिरूपत्वेन सर्वसाधारण्यादिति भावः ॥ विभागेनेति । इतरेषामुत्क्रान्तिरिति विभागेनेत्यर्थः ।

वाक्यार्थरत्नमाला

पादप्रतिपाद्योक्तीति ॥ भाष्यकारीयपादप्रतिपादनेत्यर्थः । नानर्थक्यम् । विभक्तिपरिणामेन भाष्यस्येति वर्तते । पादप्रतिपाद्योक्तिं विनेति । भाष्यकारीयपादप्रतिपाद्याभिधायक वचनं विनेत्यर्थः । तदलाभेनेति । प्रतिप्रतिपाद्याभिधानरूपोक्तिलाभाभावेनेत्यर्थः । तत्समर्थनेनेति । विभागेन पादप्रतिपाद्यप्रतिपादन समर्थनेनेत्यर्थः । अत्रानुक्तावपीति । पादप्रतिपद्यस्येति शेषः । पादप्रतिपाद्याभिधायकवचनस्याभावेपीति यावत् । भाष्ये तथोक्तयेति । पादप्रतिपाद्याभिधायकवचन सद्भावादित्यर्थः । लाभादिति । वचनोत्पाद्यविभागेन पादप्रतिपाद्याभिधानरूपोक्तिक्रियालाभादित्यर्थः । वस्तुतस्तूक्तिपदस्य सर्वत्र वचनपरतामेवाश्रित्य विभागोक्तिपरभाष्यसमर्थनेत्यादि वक्ष्यमाणानुसारेणोक्तिपदं तत्परभाष्यपरम् । उक्तिं विनेत्यत्रोक्तिनिर्माणं विनेति तथोक्तेत्यत्र चोक्तिनिर्माणेनेति विवक्षितमिति ज्ञेयम् । अनियमाधिकरणेति । अनियमः सर्वेषामविरोधादित्यधिकरणे सर्वोपसंहार इव ज्ञानिनां मुक्तावनियमो नास्ति । किं तु न कश्चिद्ब्रह्मवित्सृतिमनुभवति मुक्तो ह्येव भवतीत्यादिश्रुत्यादिबलेन ज्ञानानन्तरं मुक्तिनियमप्रतिपादनेन शरीरपरित्यागाभावस्यैवाङ्गीकारे मुक्तत्वाभावापत्या तदधिकरणविरोधः स्यादित्यर्थः । पूर्वभावितया चेति चशब्दयुक्तः पाठः । तदभावे तावदर्थान्तर्भावेनार्थो ज्ञेयः । उत्क्रान्तिशब्देनेत्युत्तरमूलानुसारेणाह । चरमदेहेति । देवशब्दस्येत्यवधारणे हेतुमाह । प्रथमपठितेति । उत्तरवाक्येति । उत्क्रान्तिमार्गौ देवानामित्युत्तरेत्यर्थः । मूले वक्ष्यतीति । तृतीयपादस्यादावित्यर्थः ।