चतुर्थाध्यायस्य प्रथमः पादः
श्रीमद्वादिराजपूज्यचरणविरचितायां
गुर्वर्थदीपिका
अथ चतुर्थाध्यायः
चतुर्थाध्यायस्य प्रथमः पादः
लिङ्गाल्लातव्यत इत्यत्र लिङ्गाद् अपरोक्षज्ञानित्वेन तत्त्वनिश्चयवत्त्वलिङ्गात् ॥ ४११,३ ॥
धातोरमागमश्चेत्यत्र ‘‘मिदचोन्त्यात्पर’’ इति वचनान् मित्वाद् बृ इत्यत्र विद्यमानादृकारात् परतोऽमादेशस् तेन ‘‘इको यणची’’ति सूत्राद् ऋकारस्य रेफे ब्रह्मशब्दनिष्पत्तिर्भवतीति भावः । कृत्यानां कर्तरि वेति षष्ठीत्यत्र विक्षिप्तमनसोऽपीत्र षष्ठीत्यर्थः । अन्यथा विक्षिप्तमनसा ध्येयेति स्यादित्यर्थः
॥ ४१४ ॥
नहि स उपासकः प्रतीकानीति वदता परेण प्रतीकानां जडत्वेनात्मनश्चेतनत्वेन च भिन्नत्वादिति व्यावहारिकभेदभीत्या एकत्वभावना त्याजिता । अयं च व्यावहारिको भेदः जीवस्याल्पज्ञत्वाद् ईश्वरस्य सर्वज्ञत्वाज् जीवेश्वरयोरपि समानः । अतः समानन्यायत्वाज्जीवेश्वरयोरप्येकत्वभावना न । एवं च समानन्यायत्वेऽपि पूर्वसूत्रे एकत्वभावनामङ्गीकृत्योत्तरसूत्रे तन्निषेधतः कथं न पूर्वोत्तरविरोधः । ‘‘त्वं वा अहमस्ती’’त्यादिश्रुतेः का गतिरिति चेत् । ‘‘नाम ब्रह्मोपास्त’’ इत्यादिचतुर्दशवाक्यानां या गतिः सैवेति ब्रूमः । स्वव्यतिरेकेणासत्त्वं तासामर्थश्चेद् अन्तर्यामितया नियामकेश्वरव्यतिरेकेण जीवात्मनोऽप्यसत्त्वं त्वदीयश्रुतीनामप्यर्थोऽस्तु ‘‘ब्रह्मदृष्टिरुत्कर्षादि’’ति तृतीयसूत्रेऽपि आदित्यादिषु ब्रह्मदृष्टिः कर्तव्या । तेषामुत्कर्षप्राप्तेरिति वदता नहि स इति हेतोः स्वेनैवानैकान्त्यमुक्तम् । जडेष्वात्मत्वदृष्ट्या तेषामुत्कर्षाद् ब्रह्मदृष्टिवदात्मदृष्टिरपि कर्तव्येति प्राप्तम् । तथाच प्राथमिकसूत्रप्रतिज्ञाऽपि तृतीयसूत्रार्थं वदतैव नाशिता । अत ‘‘उत्पतन्नेव यो मृत’’ इति न्यायेन पूर्वपक्षोत्थानमेव गर्भस्रावेण गतम् । तस्माद्द्वेधाऽपि त्रिसूत्रीनाशार्थमेव परस्य सन्न्यास इति युक्तमुत्पश्यामः । यदुक्तं क्षत्तरि राजदृष्टिः कर्तव्येति तदपि न । अस्या अपि दृष्टेरतिनीचैक्यादिदृष्टित्वेन राज्ञः कोपकारणत्वात् ॥ ४१२,५,६,७,८ ॥
इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां चतुर्थाध्यायस्य प्रथमः पादः ॥