०३ ब्रह्मादीनां प्रारब्धभोगकालः

ब्रह्माणां शतकालात्तु पूर्वमारब्धसङ्क्षयः

ब्रह्मादीनां प्रारब्धभोगकालः

ब्रह्माणां शतकालात्तु पूर्वमारब्धसङ्क्षयः

सुधा

प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते) इत्याशङ्कामागमवाक्येन परिहरति ब्रह्मणामिति ।

अनुव्याख्यानम्

ब्रह्माणां शतकालात्तु पूर्वमारब्धसङ्क्षयः ॥

ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ॥

रुद्रस्य विंशदेवस्यादिन्द्रस्यार्कादिके दश ॥

अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसंक्षयः ॥

ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ॥

इति सत्तत्ववचनं स्वयं भगवतोदितम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥ ४१ ॥

ब्रह्मणां शतमिति षष्ठ्या अलुक् । तस्य कालो ब्रह्मणां शतकालस् तस्मात्तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनामारब्धसंक्षयो भवति । अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्मकल्पानां शतेनैव कर्मक्षयवत्त्वम् । ब्रह्मण इति जातावेकवचनम् । पञ्चाशतां ब्रह्मणां कालात्पूर्वं रुद्रस्यारब्धसङ्क्षयः । तथाशब्दः समुच्चये । विंशतिपर्यायो विंशच्छब्दः । ब्रह्मणां विंशतिरेव तदवच्छिन्न एवेन्द्रस्य प्रारब्धकर्मसंक्षयकालः । अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छिन्नः कर्मक्षयकालः । ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः । अतः परं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् ॥ ४१८ ॥

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मिन्प्रथमचरणः पर्यवसितः ॥

इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ॥ ४१ ॥

वाक्यार्थचन्द्रिका

ॐ भोगेन त्वितरे क्षपयित्वाऽथसम्पत्स्यते ॐ ॥ ब्रह्मणामित्येतस्य भिन्नपदत्वेन तत्सापेक्षशतशब्दस्यासमर्थत्वान्न कालशब्देन समासः सम्भवति । देवदत्तस्य गुरुकुलमित्यादाविव नित्यसापेक्षत्वात् समासकल्पनं तु अगतिका गतिरित्यतो ब्रह्मणां शतकालादित्येतावत एकपदतामाश्रित्य समासं समर्थयते ॥ ब्रह्मणां शतमितीति । तर्हि सुपो धातुप्रातिपदिकयोरिति सुलोपप्रसक्त्या ब्रह्मशतकालादिति भवितव्यम् । ब्रह्मणां शतकालादिति तु कथमित्यत आह षष्ठ्या अलुगिति । षष्ठ्या आक्रोश इति स्मरणादिति भावः । सर्वज्ञानिप्रारब्धकर्मभोगस्य ब्रह्मशतकालाभिव्याप्तिप्रतीतिं परिहरति तस्मादिति । अनेन मूले कालशब्दस्तत्समाप्तिपर इत्युक्तं भवति । पौनरुक्त्यमाशङ्क्य परिहरति अस्यैवेति । ब्रह्मणो हिरण्यगर्भत्वयोग्यजीवस्येत्यर्थः ॥ ब्रह्मकल्पानां शतेनैवेति । ब्रह्मशतकालस्यादौ कियतः कालस्य ब्रह्मापरोक्षज्ञानसाधनार्थं गतत्वात् । अपरोक्षज्ञानकालमारभ्य किञ्चिन्न्यूनब्रह्मकल्पशतेनैवेत्यर्थः । व्यक्त्यैक्यस्य बाधितत्वेन तन्निबन्धनैकवचनानुपपत्तेर्जातिरूपार्थैक्यविवक्षानिबन्धनं पञ्चाशद्ब्रह्ण इत्यत्र ब्रह्मण इत्येकवचनमित्याह ब्रह्मण इतीति । बुद्ध्या विविक्तस्य कालादित्यस्य पूर्वमित्यस्यारब्धसंक्षय इत्यस्य चानुवृत्तिमभिप्रेत्य पञ्चाशद्ब्रह्मणस्तथा रुद्रस्येत्येतद्व्याचष्टे ॥ पञ्चाशतामिति । यद्यपि रुद्रपदयोग्यस्य जीवस्य किञ्चिन्न्यूनपञ्चाशद्ब्रह्मकालमनुवर्तत इति सामान्यमेव सन्न्यायरत्नावल्यामुक्तं तथाऽपि तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिरिति भागवततात्पर्यस्थवाक्यानुरोधेन किञ्चिन्न्यूनशब्दस्तदर्थो व्याख्येयः । ततश्चैकचत्वारिंशद्ब्रह्मकल्पसमाप्तेः पूर्वमित्यर्थः । रुद्रस्य त्वानन्तरमेव मुक्तेः क्लृप्तत्वादिति ध्येयम् । ननु पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्ठिसप्तत्यशीतिनवतिशतमिति सूत्रे द्वयोर्दशतोर्विंशतिरित्येव निपातनाद् विंशतिरित्येव वक्तव्यं विंशदिति तु कथमित्यतः प्रमाणबलाद्विंशतिशब्दपर्यायविंशच्छब्दस्यापि सिद्धत्वान्नानुपपत्तिरित्याह विंशतीति । ब्रह्मणां विंशतेर्ब्रह्मधर्मत्वेन न कालत्वमित्यत आह तदवच्छिन्न इति । किञ्चिन्न्यूने तद्विंशतीत्यवच्छिन्न एवेत्यर्थः । इन्द्रादिपदयोग्यानामप्येवं कालतो ह्रासक्रमा भवतीति सन्न्यायरत्नावल्यामुक्तत्वादिति ध्येयम् । ब्रह्मण इत्यादिषष्ठी । प्राय(ः)पठितत्वाद्योग्यत्वाच्चार्कादिक इति सप्तमी षष्ठ्यर्थे । एकवचनं तु जात्यभिप्रायमित्यभिप्रेत्य व्याख्याति अर्कादीनामिति । अनुवृत्तस्य षष्ठ्येकवचनान्तस्य ब्रह्मशब्दस्य दशेति प्रथमाबहुवचनेन सामानाधिकरण्यानुपपत्तेस्तन्निर्वाहाय विभक्तिविपरिणामं जात्येकवचनतां चाभिप्रेत्य विशेष्यमाह दशब्रह्मण इति । दशब्रह्मणामेवारब्धसंक्षयकालत्वानुपपत्तेराह तदवच्छिन्न इति । दशब्रह्मण इति क्वचित्पाठः । तत्र दशशब्दो दशकपरः । ब्रह्मण इत्यनुवर्तते । तच्च जात्यभिप्रायम् । ततश्च ब्रह्मणां दशकमर्कादीनामारब्धसंक्षय इति योजना । तदवच्छिन्नेत्यादि पूर्ववदेव योज्यमित्यवगन्तव्यम् ॥ एकस्यैव ब्रह्मण इति । एकब्रह्मावच्छिन्नः काल इत्यर्थः । ब्रह्मणैवेत्येवकारस्य वैयर्थ्यादिप्रसङ्गेन यथाश्रुतसम्बन्धानुपपत्तेर्भिन्नक्रमतया तं योजयति सहैवेति ॥ ४१८ ॥

इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यचरणानां निजशिष्यस्य केशवस्य कृतौ गुरुराजोपदिष्टमार्गानुवर्तिन्यां श्रीमन्न्यायसुधाविषमपदवाक्यार्थविवृतौ वाक्यार्थचन्द्रिकायां चतुर्थाध्यायस्य प्रथमः पादः ॥

परिमल

ब्रह्मणामित्यस्य भिन्नपदत्वे शतपदेन समस्तेनान्वयसामर्थ्याभावादाह ब्रह्मणां शतमितीति । ‘पङ्क्तिविंशतित्रिंशच्चत्त्वारिंशदि’त्यादिपञ्चमाद्यपादीयसूत्रे विंशतिपदस्यैवोक्तेर्विंशदिति कथमित्यत आह विंशतिपर्याय इति । प्रामाणिकप्रयोगात् सोऽपि शब्दोऽभ्युपेय इति भावः । ब्रह्मणां विंशतिरेवेन्द्रस्येत्यादेरन्वयमाह ब्रह्मणां विंशतिरेवेत्यादि । जातावेकवचनमित्युक्तेर्ब्रह्मणामित्युक्तिः । व्यवहितत्वादन्वयमाह ब्रह्मणा सह नारायणं व्रजेदिति ॥ ४१८ ॥

इति श्रीमन्न्यायसुधापरिमे चतुर्थाध्यायस्य प्रथमः पादः ॥

यादुपत्यं

ननु ब्रह्मणामित्यस्य पृथक्पदत्वात्कथं तस्य कालपदसमस्तेन शतपदेनान्वय इत्यत आह ब्रह्मणांशतमिति ॥ षष्ठ्या इति । तथा चैकपद्यमैकस्वर्थं च समासप्रयोजनमित्युक्तत्वात् तदेकमेव पदमिति भावः । ‘तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिरि’ति भागवततात्पर्यविरोधपरिहाराय बुद्ध्या विविक्तस्य कालादित्यस्य पूर्वमित्यस्य चानुवृत्तिमभिप्रेत्य पञ्चाशद्ब्रह्मण इत्येतद्व्याचष्टे पञ्चशतां ब्रह्मणामिति ॥ पूर्वमिति एकचत्वारिंशद्ब्रह्मकल्पानन्तरमित्यर्थः । रुद्रस्य त्वानन्तरमेव मुक्तेः क्लृप्तत्वात् । ननु पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्ठिसप्तत्यशीतिनवतिशतमित्यत्र द्वयोर्दशतोर्विंशतिरिति शब्दस्य निपातनात्कथं विंशदिति प्रयोग इत्यत आह विंशतिपर्याय इति । विंशतिशब्दपर्यायो विंशदित्यपि शब्दःप्रमाणबलादङ्गीकार्य इति भावः । ननु ब्रह्मणां विंशतेर्ब्रह्मधर्मभूतायाः कथं कालत्वमित्यत आह तदवच्छिन्न इति । एवमग्रेऽपि । एकस्यैव ब्रह्मण इत्यत्रापि तदवच्छिन्नकालस्येत्यर्थः ॥ ४१८ ॥

इति श्रीमद्वेदेशतीर्थपूज्यपादशिष्येण यदुपतिना कृतायां सुधाटिप्पण्यां चतुर्थाध्यायस्य प्रथमः पादः ॥

वाक्यार्थरत्नमाला

षष्ट्या आक्रोश इतीति । सर्वज्ञानिप्रारब्धकर्मेति । ब्रह्मणां शतेति । वातपुत्रीयाः प्रसज्येरन् इत्युक्तिस्थले स्तुतयेनुमतिर्वेत्यधिकरणीयसुधायां सर्वात्मना त्वभोगो हीत्येतद्-व्याख्यानावसरे ब्रह्मदर्शिनामपि प्रारब्धस्य सर्वात्मना क्षये ब्रह्मविष्टं संसारावस्थानं न स्यान्निर्बीजत्वादित्युक्तिस्थले च ज्ञेयम् । विचारणे हि सर्वज्ञानिसाधारण्येन प्रारब्धकर्मक्षयकालो निरूप्यते । ब्रह्मत्वेवेत्याद्युत्तरवाक्येषु हिरण्यगर्भादिप्रारब्धकर्मभोगाक्षयकालानां विशिष्यनिरूपणेनैतच्चरणे तथा तस्यावश्यमङ्गीकार्यत्वादित्यभिप्रायेण मूले सर्वेषां ज्ञानिनामिति सर्वज्ञानिप्रारब्धकर्मक्षयकालनिरूपणपरत्वेनैतच्चरणो योजितः सिद्धवत्कृत्य सर्वज्ञानिप्रारब्धेति तदनुसार्यनुवादः ।

ननु सर्वज्ञानिप्रारब्धकर्मभोगस्य कथं ब्रह्मशतकालाभिव्याप्तिप्रतीतिः । यतो ब्रह्मणामिति वाक्ये शतकालात्पूर्वमिति पूर्वत्वविणप्रयोगोऽस्ति । तेन च यावान् ब्रह्मशतावच्छिन्नः कालतस्ततः पूर्वमिति तत्कालाभिव्याप्तिप्राप्तेः । यदितु कालादित्येवोच्येत तदा तावता कालेन भोग इति प्रतीतेः प्रसक्तिः स्यात् । ल्यबन्तलोपाश्रयणे वा कालमभिव्याप्येति स्पष्टमेवत त्प्रतीतिः स्यान्न चैवम् । तत्कथमेतदिति चेन्मैवम् । अयमत्राशयो ग्रन्थकारस्य । अत्र तावद्ज्ञानात्पूर्वाणि कर्माणीत्यादौ ज्ञानावधिककर्मणां पूर्वकत्वं तदवधिकत्वमेव यथा भवति तथैतद्ब्रह्मशतावच्छिन्नकालावधिकत्वं पूर्वत्वं न वक्तुं युक्तम् । तथासत्युक्तशतं कालातिरिक्तं तत्पूर्वब्रह्मशतकालान्तरस्यैवैतच्छतब्रह्मकालप्रविष्टसर्वज्ञानिप्रारब्धकर्मभोगकालत्वापत्तिः स्यात् । नापि ब्रह्मत्वतः शतात्पूर्वमृजोरित्यत्र तत्कल्पमारभ्य शतब्रह्मत्वविवक्षावत्प्रकृते एकोनशतात्पूर्वत्वविवक्षा । तथा सति शतसङ्ख्याककालेषु प्रथमस्यैव कालस्योक्तभोगकालत्वप्राप्तिः स्यात् । नापिन पुरायुषः प्रैतोरित्यादौ आयुषो मध्ये इत्याद्यर्थकत्ववत्पूर्वपदस्य ब्रह्मशतकालमध्य इत्यर्थकत्वम् । तथासति रुद्रादीनां तन्मध्ये भोगावसानसम्भवेनैतद्वाक्यस्य तत्परत्वसम्भवेऽपि संपूर्णशतकालेन भोगावसानवतो हिरण्यगर्भस्य तन्मध्ये तदवसानस्याभावेनैतद्वाक्यस्य हिरण्यगर्भविषयत्वाभावापत्या सर्वज्ञानिविषयत्वाभावप्रसङ्गात् । तदेवं पूर्वमित्यस्य विवक्षणे ब्रह्मणामिति वाक्यस्य रुद्रादिप्रारब्धकर्मभोगविषयत्वोपपत्तावपि हिरण्यगर्भप्रारब्धभोगकालविषयत्वानापत्तेस् तद्विषयत्वोपपत्यर्थं पूर्वमविवक्षिमिति वक्तव्ये ब्रह्मणां शतकालात्सर्वेषां ज्ञानिनां प्रारब्धकर्मभोग इत्युक्तौ तद्भोगस्य ब्रह्मशतकालाभिव्याप्तिप्रतीतिर्युक्तैवेति ।

निष्कर्षस्तु । ब्रह्मणामिति वाक्ये पूर्वत्वं विवक्षितं नवा नाद्यः । तथात्वेऽस्य वाक्यस्य हिरण्यगर्भविषयत्वाभावप्रसङ्गात् । इत्याद्यपक्षदूषणं बहिरेवाभिमत्य द्वितीयपक्षे प्राप्तानुपपत्तिं दर्शयंस्तद्दूषणद्वयनिरासकतयोत्तरमूलमवतारयति । सर्वज्ञानिप्रारब्धेत्यादीति । परिहरतीति । पूर्वत्वं विवक्षितमित्याश्रित्य तत्पक्षदोषो यथा न स्यात्तथा कालात्पूर्वमित्येतद्-व्याचष्ट इत्यर्थः । समाप्तिपर इति । तथा च ब्रह्मशतकालसमाप्तेः पूर्वं सर्वज्ञानिनां प्रारब्धकर्मक्षय इत्यभिधानप्राप्त्या हिरण्यगर्भस्य शतकालेन कर्मभोगत्वेऽपि तत्समाप्तेः पूर्वं तत्क्षयवत्वमेव । एवं रुद्रादीनामप्येकचत्वारिंशदादिकालेन तत्क्षयवत्वेऽपि शतकालसमाप्तेः पूर्वमेव तत्क्षयवत्वमित्येवं हिरण्यगर्भादिसर्वज्ञानिप्रारब्धकर्मक्षयकालप्रतिपादकत्वं ब्रह्मणामिति चरणस्य युक्तमिति मूलाभिप्रायः सूचितोऽनेनेति ज्ञातव्यम् । अस्यैवेतीति । मूले विवरणमित्यनन्तरं ब्रह्मणस्त्वित्यादि योजनाप्रदर्शनेन ब्रह्मणस्त्वित्यादीति इति सूचितम् । ब्रह्मप्राप्त्यनन्तरं शतकल्पैः प्रारब्धक्षय इत्यसम्भावितमित्याशङ्कानिरासाय प्रवृत्तहिरण्यगर्भत्वयोग्यजीवस्येति सन्याय रत्नावलीं मनसि कृत्वा ब्रह्मण इत्येतन्न तत्पदप्राप्तपरम् । अपि तु तत्पदयोग्यर्जुपरं तस्य च ब्रह्मशतकल्पैस्तत्क्षयोऽस्त्येवेति नासम्भावितार्थकत्वापत्तिरित्याशयेन ब्रह्मण इत्यनूद्य तथा व्याचष्टे । ब्रह्मण इति ।

आरब्धकर्मक्षयस्यापरोक्षज्ञानोत्तरकालभावित्वाच्छतकल्पेभ्यः पूर्वमपरोक्षज्ञानाभावाच्छतकल्पैः प्रारब्धक्षयवचनमप्यसङ्गतमित्यतः ब्रह्मशतकालस्यादावित्यादि सन्यायरत्नावलीवाक्यमेवानुकरोति । ब्रह्मशतकालस्येति । कियत इत्यत्र तु …. इत्यादिकं प्रमाणं ज्ञेयम् । एवं च किंचिन्यूनेत्येतदपि प्रमाणोक्तकालपरं व्याख्येयम् । व्यक्तयैक्यस्येति । एक एव यो ब्रह्मा तद्रूपव्यक्तयैक्यस्येत्यर्थः । एकमात्रब्रह्मकालस्य रुद्रीयप्रारब्धकर्मभोगावसानाधिकरणत्वस्य तथैव चत्वारिंशद्भिः पदमित्यादि वक्ष्यमाणप्रमाणविरुद्धत्वादिति भावः । जतिरूपार्थैक्यविवक्षेति । जातिर्नामायमेकोऽर्थः । तदभिधानविवक्षायां त्वेकवचनमेकत्वादेव द्य्वेकयोरित्यनेन सिद्धमिति भावः । द्य्वेकयोरितिसूत्रविहितेऽभिमानिन्यधिकरणे टीकोक्तेः । द्य्वेकयोर्द्विवचनैकवचन इत्यनेनेति वैराग्यपाद टीकोक्तेः । अनेकव्रीहिषु संपन्नेषु संपन्नाव्रीह्य इत्येव वक्तव्ये व्यक्तिपरित्यागेन जातेराख्याविवक्षिता चेदनेकेष्वप्येकजातिनिमित्तमेकवचनं व्रीहिः संपन्न इत्येवं दृष्टमेवमनेकपाकादिषु पाकः संपन्न इत्यादिकमेकवचनं पाकत्वादिजातेराख्याविवक्षया दृष्टमिति भावः । पूर्वत्र यत्रयत्र जात्यैक्यविवक्षयैकवचनोक्तिस्तत्र सर्वत्रापि व्यक्तिपुरस्कारे व्यक्तीनामनेकत्वेन बहुवचनप्रसङ्गेऽपि तत्रत्यजातिपुरस्कारे तस्या एकत्वादेकवचनामित्येवोपपाद्यम् । एवमेकवचनोपपत्तिमभिप्रेत्य मञ्जर्यादौ जातिपुरस्कारस्तु तज्जातीयत्वेन तेषामभिधानविवक्षा । न तु व्रीहित्वं गोत्वमित्यादाविव जातेरेवाभिधानम् । तत्र व्रीहिसंपन्ना इत्यादौ विद्यमानसंपन्नादिपदार्थान्तरानन्वयात् ॥ प्रयोक्तुरनभिप्रेतत्वाच्च । व्यक्तिपर्यन्तत्वभिधाने जातिव्यक्तयोस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धमिति जात्याख्यायामेतत्सूत्रप्रत्याख्यानवसरे उक्तः । व्याख्यातं च कुसुमविकासे । व्यक्तिपर्यन्तत्व इत्येतद्-व्यक्तिपरं तन्त्रजात्यभिधान इत्यर्थ इतीति । एवं यत्र जातौ बहुवचनमित्युच्यते तत्र व्यक्तयैक्येऽपि जातावेवावयवबहुत्वापेक्षया बहुवचनम् । वर्षासु इन्द्रगोपम् इत्यत्र वर्षारूप ऋतुबहुत्वाप्रतीतेर्व्यक्तयैक्येऽपि ऋतुगतावयवबहुत्वापेक्षया बहुवचनस्य जात्याख्यायामित्यनेन समर्थसूत्रटीकाकृद्भिः स्वीकारात् । यवः संपन्ना यवाः सम्पन्ना इति जात्याख्योदाहरणेऽप्येकस्मिन्नर्थे जात्याख्यायां विकल्पेन बहुवचनन्तु कदा उदाहृतमेवेत्युपपादनप्रकारोऽवधेयः । बहुवचनपदार्थकथनं तु न शब्दाब्धौगाढा इत्येतत्पद्यव्याख्यानावसरे प्रागेव विस्तरेणोक्तं ज्ञेयम् । अत्राधिकविचारो वैराग्यपादेऽस्माभिः कृतोऽवसेयः । उपयोगानुसारेणैकवाक्यतां कृत्वात्रापि लेख्यम् । विलक्षणत्वाधिकरणीय कथास्तिस्रोविजानतामित्येतद्भाष्यमूलटीकाव्याख्यावसरे व्याख्यायामस्माभिस्तदप्युपयुक्तं ज्ञेयम् ।

विशंत्यवच्छिन्नः काल इत्याद्युत्तरग्रन्थानुसारेण पञ्चाशदवछिन्नः कालो रुद्रकर्मक्षयस्येत्यर्थप्रतीतिवारणाय पञ्चाशतामिति मूले योजना प्रदर्शिता । तत्र पञ्चाशदित्येतद्वाक्ये कालादित्यादेरप्रतीतेः कथं तदन्तर्भावेन योजनेति प्राप्तशङ्कानिरासायाह । बुध्या विविक्तस्येत्यादि । शतपदेन समस्तस्य कालादित्यस्य कथं प्रथक्करणमित्यत उक्तं बुध्याविविक्तस्येति । रुद्रपदेति । अनेनैव मूले रुद्रस्येत्यस्य रुद्रपदयोग्यस्येति व्याख्यानं कार्यमिति सूचितम् । सन्न्यायरत्नावल्यामुक्तमिति । पञ्चाशतां ब्राह्मणां कालात्पूर्वमिति मूलकारोक्तेः किञ्चिन्यूनेत्येतत् सन्न्यायरत्नावलीग्रन्थमूलकत्वस्य सिद्धत्वान्मूलभूतसन्न्यायरत्नावलीवाक्यमेवमेव निर्णेयतयोपात्तम् । एतेन पञ्चाशतां ब्रह्मणां कालात्पूर्वमिति सामान्यमेवोक्तमित्येव वर्णनायानुवादः कार्य इति शङ्कानवकाशः । मूलभूततद्वाक्यार्थनिर्णये मूलभूतैद्ग्रन्थस्याप्यर्थकथनलाभाशयात् । अत एव तदर्थनिर्णयसाध्यं प्रकृतमूलार्थं ततश्चेति वक्ष्यतीति ज्ञेयम् । तथैव चत्वारिंशद्भिरिति भागवततात्पर्यपाठानुसारी पाठः । मूलकोशे तथैव सत्वात् । तथैकेत्येकपदं लेखकागतम् । भागवतेति । चतुर्थस्कन्धगतेति शेषः । तदर्थो व्याख्येय इति । अत्रार्थशब्द आवर्तनीयः । तथा च तद्वाक्योक्तोऽर्थो यस्येति तदर्थः । तदर्थकतयेति यावत् । एवं सन्न्यायरत्नावलीवाक्यव्याख्याने सिद्धे तन्मूलकैतन्मूलग्रन्थस्यापि तदनुसारेण लब्धार्थं दर्शयति । ततश्चैकेति । अनेनैव हिरण्यगर्भे कालो न्यूनतयोक्तोऽपरोक्षज्ञानार्थः प्रथमभागस्थः । रुद्रेतु पञ्चाशत्कालमध्ये न्यूनाकायो भागश्च रम इति विशेषोप्युक्तो भवति । यद्यप्यत्र वाक्य एकचत्वारिंशद्तब्रह्मकल्पैरित्येव वक्तव्यम् । पञ्चाशतां ब्रह्मणां कालात्पूर्वमित्यनेन भागवततात्पर्यमनुसृत्य तावत एवार्थस्य लाभात् । तथा हिरण्यगर्भादिसर्वज्ञानिसाधारणवाक्ये पूर्वपदान्तर्भावाय समाप्तिलक्षणां स्वीकृत्य योजनावदिहापि तदन्तर्भावेन योजनायाः कर्तुं शक्यत्वान्मूलस्थपूर्वपदान्तर्भावेनैव व्याख्यानं कार्यमिति ज्ञापयितुं समाप्तेः पूर्वमित्युक्तम् । फलतस्त्वेकचत्वारिंशत्कल्पैरित्येवार्थः । एतावांस्तु विशेषः । पूर्वत्र सर्वज्ञानिसाधारणार्थानुगताकारप्रकारप्रदर्शनं समाप्तिलक्षणादिकम् । इह तु हिरण्यगर्भांशे ब्रह्मशतकालसमाप्तेः पूर्वमिति यथास्थित कथनवदेकचत्वारिंशत्कालसमाप्तेः पूर्वमिति रुद्रेऽपि यथास्थितकथनरूपत्वमितीति न दोषः । ननु तथैकचत्वारिंशद्भिरित्युदाहृततात्पर्यवाक्ये शतजन्मभिः पुमान्विरिञ्चतामेतीत्यादौ विवेकेन चत्वारिंशद्भिरित्येव व्याख्यातव्येत्वे न शैवपदस्यैव चत्वारिंशत्तमपदतया चत्वारिंशद्ब्रह्मकल्पत्वमाप्तैः पूर्वमेवेत्येव तात्पर्यानुसारेणार्थस्य लब्धतया तथैव पर्यवसितार्थकथनीये कथमेकचत्वारिंशद्ब्रह्मेति पर्यवसितार्थकथनमित्यत आह । रुद्रस्य त्वानन्तरमेवेति । सत्यं तात्पर्यानुसारेण रुद्रपदं चत्वारिंशत्तमं पदमिति तथापि रुद्रस्य त्वानन्तरमेव मुक्तेः सद्भावेन जन्ममेलनेनैकचत्वारिंशद्ब्रह्मकल्पसमाप्तेः पूर्वमित्यस्य पर्यवसितार्थत्वोपपत्तेः । तात्पर्ये शैवपदान्तर्भावेन चत्वारिंशत्व मात्रोक्तावपि मुक्तिपूर्वकालीनजन्म विवक्षित्वैकचत्वारिंशत्वकथने विरोधानापत्तेरिति भावः ।

ननु पङ्क्तिविशतीत्यादिशतमिति सूत्र इति । पञ्चमाध्यायगतसूत्र इत्यर्थः । निपातनादिति । यदिह लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धमित्यादिकाशिकायां द्वयोर्दशतोर्विन्भावः शतिप्रत्ययः । द्वौशतौ परिमाणमस्य विंशतिरिति प्रतिपादनाद्वयोर्दशतो विनादेशे शतिप्रत्यये च विंशतिरिति निपातनादित्यर्थो ज्ञेयः । प्रमाणबलादिति । एतद्विंशत्वंरूपं प्रमाणबलादित्यर्थः । त्रयी न श्रुतिगोचरेत्याद्यर्षिप्रयोगाणां तत्र तत्र प्रामाणीकरणात्प्रमाणवाक्ये प्रयोगस्याप्यभिधानतुल्यत्वादिति भावः । अत एव विंशल्लक्षणत इति ब्रह्माण्डपुराणे प्रयोगः । एवमन्यत्रापीति । किञ्चिन्यूनेतद्विंशतीति । अत्रापि प्रमाणं शोध्यम् । किञ्चिन्यूनेत्यत्रोपष्टम्भकमाह । इन्द्रादीति । इन्द्रादिपदप्राप्तानां प्रारब्धकर्मभोगस्योक्तकालत्वाभावात्तत्पदयोग्या एवात्रेन्द्रादिपदेनोच्यन्त इत्यप्यनेन सूचितम् । यद्यपि हिरण्यगर्भरुद्रविषयवाक्ययोः किञ्चिन्यूनेत्युक्तिवदिन्द्रादिविषयवाक्ये तदुक्तिर्नास्ति । एवं कालतो ह्रासक्रमो भवतीत्येतत्तु रुद्रस्य शतब्रह्मकालात् ह्रासवदिन्द्रस्य रुद्रकालादपि ह्रासो ऽर्कादीनामिन्द्रकालादपीत्येवं यथा श्रुतेन्द्रस्य विंशदेव स्यादिति प्रमाणोक्तार्थस्पष्टीकरणपरतया प्रतीयत इत्याभाति । तथापि रुद्रपदयोग्यस्याप्येवं किञ्चिन्यूनेति हिरण्यगर्भ उक्तप्रकारस्यातिदेशेन पञ्चाशदित्यादियोजनां त्यक्त्वेन्द्रादिपदयोग्यानामप्येवमित्युक्तिसामर्थेन प्रमाणोक्तविंशदादौ किञ्चिन्यूनत्वांश एवातिदेश इति स्पष्टप्रतीतेः । अन्यथा कालतो ह्रासक्रम इत्येवोक्तिः स्यात् । एवं पदन्त्वनर्थकमेव स्यादित्येतत् ततश्चेन्द्रादीति वाक्योक्तकालतो ह्रासः किञ्चिन्यूनतयैवोक्त इति सिध्यतीति ज्ञेयम् । ब्रह्मण इत्यादि षष्टीति । आदिपदेन रुद्रस्येन्द्रस्येत्यनयोर्ग्रहणम् । अयोग्यत्वप्रायपाठोऽप्यकिञ्चित्कर इत्यत उक्तं योग्यत्वाच्चेति । एकवचनं त्विति । एतत्प्रागुक्तरीत्या व्याख्येयम् । अनुवृत्तस्येति । पञ्चाशद्ब्रह्मणस्तथेत्यत्रत्यब्रह्मशब्दस्येहानुवृत्तिः । विभक्तीति । प्रथमया विपरिणम इत्यर्थः । अत्रापि किञ्चिन्यूनेति पूरणीयमिति प्रागुदाहृतसन्न्यायरत्नावलीवाक्यानुसारेण सिद्धमिति पृथङ्नोक्तम् । दशब्रह्मण इति । प्रथमान्तपाठाश्रयणेन व्युत्पानं कृतम् । दशब्रह्मण इति षष्टीपाठपक्षे तमप्युपपादयेति । दशब्रह्मण इति क्वचित्पाठ इति । तत्रेति । तत्पाठ इत्यर्थः । दशशब्दः । अर्कादिके दशेति दशशब्द इत्यर्थः । ब्रह्मण इतीति । तत्रेत्यनुवर्तते । भाष्ये दशेत्यत्र ब्रह्मण इति पदमनुवर्तते । तच्च जात्यभिप्रायमिति योजनीयम् । नन्वेतत्पाठे स्वयमनुवृत्यंशप्रतिपादनमेतदिति न दोषः । अथ वा ब्रह्मण इति यदुक्तं तदनुवर्तते । अनुवृत्तस्य ब्रह्मण इत्यस्य तत्र पाठे ब्रह्मण इति कीर्तनमित्यर्थः । योजनेत्यतः परं द्रष्टव्येति पाठ आसीत् । तदनन्तरं द्रष्टव्येत्येतद्विनाशितं वाक्यलाघवाय । तथा च योजनेत्यस्येत्यवगन्तव्यमित्युत्तरेण सम्बन्धोऽभिप्रेत इति ज्ञेयम् । अत्र टीकायामारब्धसंक्षयकाल इति । तदवच्छिन्न इत्यादीति च पाठः । पूर्ववदेवेति । तदवछिन्नम् एवेन्द्रस्येत्यत्रेवेहापि तदवछिन्नं यदुक्तं न तत्र ब्रह्मणां विंशतेर्ब्रह्मधर्मतया कालत्वानुपपत्तिरिति शङ्कापरिहारायेवेहापि ब्रह्मणां दशकस्य तद्धर्मतया कालत्वानुपपत्तिरिति शङ्कापरिहाराय । आदिपदेन तत्रेवात्रापि किञ्चिन्यूनेति पूरणीयमिति संगृह्णाति । यद्वा पूर्ववदित्यस्य दशब्रह्मण इति च पाठादित्यर्थः । उपपादनं तु समानम् । काल इत्यर्थ इति । आरब्धकर्मक्षयकाल इत्यर्थः । पूर्वग्रन्थानुसारात् । वैय्यर्थ्यादीत्यादिपदेन विरुद्धत्वपरिग्रहः । सहगंतृज्ञानिनां बहुत्वेन ब्रह्मणैवेत्यवधारणेन तद्-व्यावर्तनस्य सहगंतृव्यक्तयन्तरावेदक प्रमाणविरुद्धत्वादिति भाव इति मङ्गलम् ॥

आनन्दाब्धिप्रजातत्रिदशतरुगुरुश्रीनिवासानुज

श्रीविद्याधीशाख्यरत्नाद्भुतविदमृतगोः केशवाचार्यवर्यात् ॥

रुग्मिण्यायां प्रजातस्य विबुधनरसिंहस्य गुर्वीयसौध

व्याख्यापाठादिशोधात्मकविवृतिकृतावाद्यपादश्चतुर्थे ॥

इति श्रीमत्सकलविद्वच्चक्रचूडामणि श्रीमद्गुरुराजवर्यविरचितश्रीमन्यायसुधावाक्यार्थचन्द्रिकाया व्याख्यापाठादिशोधात्मक विवृतौ पाण्डुरङ्गिनरसिंहकृतायां वाक्यार्थरत्नमालयां चतुर्थाध्यायस्य

प्रथमः पादः समाप्तः ॥

इति चतुर्थाध्यायस्य प्रथमः पादः