०१ कर्मनाशाख्यज्ञानफलनिरूपणम्

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ

॥ अथ तदधिगमाधिकरणम् ॥

कर्मनाशाख्यज्ञानफलनिरूपणम्

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ

सुधा

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशै तद्व्यपदेशात् ॐ ॥ निवृत्ता साधनचिन्ता । प्रतिबन्धा(का)नां पूर्वोत्तराणामनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलमिदानीं निरूप्यते । तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह तथेति ।

अनुव्याख्यानम्

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ॥

तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥

करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ॥

करोति ……. ……. …….. ……..

तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं, निखिलं पापं, चशब्दादनिष्टं पुण्यं च, प्राश्चात्यस्य पापस्यानिष्टपुण्यस्य च । अनेन ‘अतोऽन्यदपीत्येकेषामुभयो’रिति सूत्रतात्पर्यमुक्तं भवति ॥

वाक्यार्थचन्द्रिका

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ॥ साधनचिन्तेति । मोक्षान्तरङ्गतयाऽवश्यम्भाविसाधनचिन्तेत्यर्थः ॥ पूर्वोत्तराणामिति । द्वन्द्वे सर्वनामसंज्ञायाद्वन्द्वे चेति प्रतिषेधादाभि सर्वनाम्नः सुडिति न सुडिति ज्ञेयम् । न चद्वन्दे चेति समुदायस्य संज्ञानिषेधेऽप्यवयवानामनिषेधात्तदन्तविधिना सर्वनाम्नः परस्यामः सुट् स्यादेवेति वाच्यम् । दक्षिणोत्तरपूर्वाणामिति भाष्यप्रयोगात्सर्वनाम्नो विहितस्याम एव सुड्विधानस्थित्याऽत्र च समासदेव तस्योत्पन्नत्वेनावयवादविहिततया तदप्रसङ्गात् । पापं भस्मसात्करोतीत्येतावता पूर्तेः पापं चेति चशब्दानर्थक्यमाशङ्क्य ज्ञानिकृतज्ञानात्पूर्वभाव्यनिष्टपुण्यसमुच्चयार्थत्वान्न तदिति भावेन चशब्दं तदर्थतया व्याचष्टे चशब्दादिति । सूत्रेऽघमात्रस्य श्रवणादसूत्रितानिष्टपुण्यसमुच्चयार्थत्वे उत्सूत्रार्थत्वादभाष्यत्वमित्याशङ्क्यात्र सूत्रे तस्याश्रुतत्वेऽपि सूत्रान्तरे श्रुतत्वात्तदर्थतयाऽस्य नाभाष्यत्वप्रसङ्ग इत्यभिप्रेत्यैतद्व्याख्येयसूत्रोदाहरणपूर्वकं तद्व्याख्यानतां भाष्यस्योपदर्शयति अनेनेति । अनिष्टपुण्यसमुच्चायकचशब्देनेत्यर्थः ।

परिमल

ॐ तदधिगम उत्तरपूर्वागयोरश्लेषविनाशौ ॐ । पूर्वोत्तरमूलयोः सङ्गतिं वक्तुमाह निवृत्तेति । निरूप्यते सूत्रकृतेति योज्यम् ॥ तत्रेति । तदधिगमसूत्रे । तथेत्यनुवादः, उक्तेत्यादि व्याख्या ॥ विष्णुः स्वामीति, प्रतीकेषु ब्रह्मास्तीति, विष्णुर्ब्रह्म गुणपूर्ण इति चोक्तप्रकारेणेत्यर्थः ॥ अनेनेति । अनिष्टपुण्यनाशकथनेनेत्यर्थः । अतः मुक्तावनुभवकारणादन्यत्पुण्यं नश्यति अप्रारब्धमनभीष्टं चेति तत्रार्थकथनादिति भावः ।

वाक्यार्थरत्नमाला

ॐ तदधिगम उत्तरपूर्वार्धयोरश्लेशविश्नाशौ तद्-व्यपदेशात् ॐ ॥ दक्षिणोत्तरपूर्वाणामिति भाष्यप्रयोगादिति । …..इत्येतत्सूत्रे प्रयोगादित्यर्थः । एतदुपपादनं च ऋग्भाष्ये स्पष्टम् ।