०६ उक्तार्थोपसंहारः

तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः

उक्तार्थोपसंहारः

तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः

सुधा

ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन्नपव्याख्याननिराकरणमुपसंहरति तस्मादिति ।

अनुव्याख्यानम्

तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ॥

सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् । एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या । सूत्रव्याख्यानमुपक्रम्यापव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेनाह तस्मादिति ।

अनुव्याख्यानम्

तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥ ४ ॥

परकीयव्याख्यानस्य दूषितत्वात् । यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थमनतिक्रम्य वर्तमानेन मार्गेण ॥ ४१४ ॥

वाक्यार्थचन्द्रिका

श्रुतिविहितमिति । मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिविहितमित्यर्थः ॥ एतेनेति । तथा ध्यानस्यानर्थफलकत्वकथनेनेत्यर्थः ॥ ४१४ ॥

**परिमल **

श्रुतिविहितमिति । ‘नामब्रह्मेत्युपासीते’त्यादिश्रुतिविहितमित्यर्थः ॥ एतेनेति । अन्यस्यान्य(थाध्या)ताध्यानादनर्थकथनेनेत्यर्थः ॥ परमतदूषणम् ॥ ४१४ ॥

यादुपत्यं

श्रुतिविहितमिति । मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिविहितमित्यर्थः । इयमाशङ्का मूलगतसर्वपदनिवर्त्या प्रदर्शितेति ज्ञेयम् ॥ ४१४ ॥

श्रीनिवासतीर्थीया

इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीना मित्युक्तं दूषयति एतेनेति । ‘प्रतीकसंस्थितत्वेन ध्येयो विष्णुरिति’ वचनेनेत्यर्थः ॥ ४१४ ॥

वाक्यार्थरत्नमाला

प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रव्याख्यावसरे परोक्तं निराकरोति । एतेनेति मूलम् ॥

॥ इति ब्रह्मदृष्ट्यधिकरणान्यथाव्याख्याननिराकरणम् ॥