पुरतो नरदेवस्य चण्डालो यदि पूज्यते
उक्तार्थसमर्थनम्
पुरतो नरदेवस्य चण्डालो यदि पूज्यते
सुधा
ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा । तत्कथमुभयस्य साम्यमुच्यत इति चेन्न । तत्र दृष्टेरभावात् । उक्तिमात्रं तूपचारेण । सिंहो देवदत्त इति यथा । दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह पुरुत इति ।
अनुव्याख्यानम्
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ॥
राजवत्किं न कोपः स्याद्राज्ञो लोकेऽभिपश्यति ॥
राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात्किम् । लोकेऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् ।
न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याह राज्ञस्त्विति ।
अनुव्याख्यानम्
राज्ञस्तु पुरतः प्रोक्ते चण्डालो(ले) नृप इत्यपि ॥
आत्मानं स इति प्रोक्तमितिवद्ध्येव कुप्यति ॥
नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् । चण्डाले नृप इति प्रोक्तेऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्तेऽपि राजा कुप्यत्येव हि । आत्मानं प्रति हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तमितिवदित्यत्र यथा तथैवेत्यर्थः । पूजैव कोपकारणं न दर्शनमित्याशङ्कानिरासाय विवेकार्थमयं श्लोकः ।
वाक्यार्थचन्द्रिका
पूर्वपक्ष्यभिसन्ध्युद्घाटनपूर्वकं तत्परिहारतयोत्तरवाक्यमवतारयति ननु क्षत्तरीति ॥ उक्तिमात्रं त्विति । दृष्ट्यनुन्नायकोक्तिरित्यर्थः ॥ राजा यथेति । अनेन मूले राजवदिति प्रथमान्ताद्वतिस्तत्र तस्येवेति लक्षणस्य प्रायिकत्वेनाभियुक्तैर्व्याख्याततया नियमत्वाभावादित्युक्तं भवति । नन्वत्र राजवच्चण्डालदर्शनस्यानर्थसाधनत्वाभिप्राये पूज्यत इति पूजाग्रहणानर्थक्यापत्त्या तदनुरोधेन राजवच्चण्डालपूजाया एवानर्थसाधनतयाऽकर्तव्यता लभ्यते । तत्कथमनेन दर्शनस्य तत्सिद्धिरित्यतो नात्र पूज्यत इत्युक्त्यनुरोधेन तथा पूजाया अनर्थसाधनत्वं शङ्कनीयम् । राजवच्चण्डालदर्शनस्यानर्थसाधनत्वेऽभिहिते परबुद्धेः परं प्रत्यप्रत्यक्षत्वात्कथं परसम्बन्धिनो राजवच्चण्डालदर्शनस्य परं प्रति सिद्धिरिति । येनानर्थसाधनत्वं तस्येत्यतः प्रत्यक्षेण तदसिद्धावपि पूजाया दर्शनकार्यतया तदविनाभूतत्वाच्च तदनुमापकत्वेनानुमानादेव तत्सिद्धिसम्भवान्न दर्शनस्यानर्थसाधनत्वानुपपत्तिरित्यनर्थसाधनदर्शनानुमापकतया पूज्यत इति पूजाग्रहणस्यार्थवत्त्वसम्भवेनान्यथासिद्धतया न तदनुरोधेन तस्यास्तत्साधनत्वलाभ इत्याशयेनाह पूजयेति ॥ तादृश्यामिति । दृष्टेरुन्नायिकायामित्यर्थः । प्रोक्तिरित्यत्रोक्त इत्येतावता पूर्तेः किं प्रशब्देनेत्यत उक्तौ प्रकर्षसूचकत्वान्न तदानर्थक्यमित्यभिप्रेत्य कोऽसावुक्तेः प्रकर्षो यत्सूचकत्वं प्रशब्दस्य स्यादित्यतस्तदर्थकथनपूर्वकं तत्सूचितमुक्तौ विमपि दर्शयति प्रकर्षेणेत्यादि । इतिवदित्यस्य विवरणमित्यत्र यतेति । ननु पूजाया अनर्थसाधनत्वाभिप्रायमेव पूजाग्रहणमस्तु किं तत्साधनदर्शनानुमापकतया तद्ग्रहणमित्यन्यथासिद्धिकल्पनयेत्यतस्तादृशपूजाया एवानर्थसाधनत्वे यत्र तादृशोक्त्युन्नीतदृष्ट्याऽनर्थस्तत्र तत्साधनपूजाया अभावेनानर्थाभावापत्त्या पूजयोक्त्या वोन्नीतदृष्टेरेवानुगताया अनर्थसाधनत्वसम्भवे क्वचित्तादृशी पूजा क्वचिच्च तादृश्युक्तिरेवानर्थसाधनमित्यननुगतयोस्तादृशपूजोक्त्योस्तत्साधनत्वकल्पनाया असम्भवेनोन्नीता दृष्टिरेव साधनं न पूजेति युक्तमन्यथासिद्धत्वकल्पनं पूजाग्रहणस्येत्याशवानाह पूजैवेति ।
**परिमल **
दृष्टेः प्रकृतत्वादाह पूजयेति ॥ तादृश्यामिति । दृष्टेरुन्नायिकायामित्यर्थः । प्रोक्तेपीत्यत्र प्रशब्दार्थं प्रकर्षेणेत्यनूद्य तं प्रकर्षं व्यक्तीकुर्वन्नाह न मयेत्यादिना । इतिवदित्यनुवादः । इत्यत्र यथा तथैवेति व्याख्या ॥ विवेकार्थमिति । पूजातोऽसङ्कीर्णस्य दृष्ट्युन्नायकस्य प्रवचनस्योक्त्यर्थमयं श्लोक इत्यर्थः । तर्हि तथा प्रोक्तिरेव कोपहेतुरस्त्विति न वाच्यम् । आचार्यपित्रादिना शिक्षारूपेणैतादृशवाक्योक्तौ कोपादर्शनेन तथादृष्टेरेव तथात्वादिति भावः ।
यादुपत्यम्
‘तत्र तस्येवे’त्यस्य प्रकृतेऽसम्भवात् ‘तेन तुल्यं क्रिया चेद्वतिरि’त्यस्यापि राजकर्तृकक्रियातौल्याभावेनासम्भवात् ‘तत्र तस्येवे’त्यस्य लक्षणस्याभियुक्तैः प्रायिकत्वेन व्याख्यातत्वेन प्रथमान्तादयं वतिरित्याशयेनाह राजा यथा पूज्यत इति ॥ विवेकार्थमिति । पूजाऽसङ्कीर्णस्य दर्शनस्यैव कोपकारणताप्रदर्शनार्थमित्यर्थः । न च तत्रापि तथा प्रोक्तिरेव कोपकरणं न दर्शनमिति वाच्यम् । शुकबालाद्युदीरिततथाविधप्रोक्तावपि कोपाभावात् । अतस्तादृशदर्शनोन्नायकप्रोक्तिरेव कोपकारणतया वाच्या । एवं च लाघवादावश्यकत्वादनुगतत्वाच्च तादृशं दर्शनमेव कोपकारणमिति निश्चीयत इति भावः ।
श्रीनिवासतीर्थीया
‘उन्नीयत इत्यतः’ इत्यभिप्रेत्य ॥ इत्युक्तेऽपीति । न केवलं पूजिते सतीत्यर्थः । प्रोक्तमितिवदिति वतिः सप्तम्यर्थे इत्याह इत्यत्र यथेति ॥ विवेकार्थमिति । स्पष्टत्वार्थमित्यर्थः । अयं श्लोकः राज्ञस्त्विति श्लोकः । पूर्वं पूजया दर्शनमुन्नीयत इत्याशयेनैव पूज्यत इत्युक्तं न तु दर्शनं स्पष्टमुक्तम्; अत्र च प्रोक्त इति वचनात्तस्य च प्रकर्षेण न चोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्त्या दर्शनस्य स्पष्टमवगमात् । वास्तवोक्तेर्ज्ञानाव्यभिचरितत्वात् । पूजा च न ज्ञानव्यभिचारिणी । उत्कर्षज्ञानाभावेऽपि लोकानुकरणाय लोके पूजाया बहुलमुपलम्भादित्यवङ्गतव्यम् ।
वाक्यार्थरत्नमाला
व्याख्याततया नियमत्वाभावादिति पाठः । व्याख्यानं च कुसुमाञ्जलिवर्धमाने । एतल्लक्षणस्य प्रायिकत्वं च परोक्तरीत्या आश्रित्योक्तम् । वस्तुतस्तु तत्प्रायिकं त्वप्रमाणाभावेन तदभावस्य तृतीये उपासनापादे सर्वथापित्वित्यधिकरणे टीकाकृतैवोपपादनात्तत्रत्योक्तरीत्यैव साधनमवधातव्यम् । अकर्तव्यता लभ्यत इति । लभ्यते इति वाच्यमित्यर्थः । शङ्कनीयमित्यतः प्राक्प्राप्ततयेति शेषः । परंप्रति सिद्धिर्येनेत्येव पाठो मूले । इतिशब्दो लेखकागतः । इति कथमिति पूर्वेणं सम्बन्धो ज्ञेय इत्यप्याहुः । अनर्थसाधनत्वं तस्येत्यत इति । अनर्थसाधनत्वानुपपत्तिशङ्कायां तत्परिहारायेत्यर्थः । प्रत्यक्षेण तदसिद्धावप्यनुमानादेव तत्सिद्धिसम्भवादिति सम्बन्धः । अनुमानादेवेत्यस्य पूजारूपादनुमापकधर्मादित्यर्थः । अनुमापकत्वोपपादनं पूजाया दर्शनेत्यादि । न दर्शनस्यानर्थसाधनत्वानुपपत्तिरिति । युक्तो दर्शनस्यानर्थसाधनतया कर्तव्यतालाभ इत्यर्थः । इत्यनर्थेति । इत्येवमनर्थेत्यर्थः ।