उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा
अचेतनस्य ब्रह्मताध्यानस्यानर्थमात्रहेतुत्वम्
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा
सुधा
एवं प्रतिज्ञाव्याख्यानमपाकृत्य उत्कर्षादिति हेतुव्याख्यानमपाकरोति उत्कर्षादिति ।
अनुव्याख्यानम्
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा ॥
ब्रह्मणो नीचताज्ञानादनर्थः किं न जायते ॥
ब्रह्मताध्याने प्रतीकानामुत्कर्षादुत्कर्षस्य दृष्टत्वादञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात्तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मादनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति ।
अभ्युपगम्येदं समव्ययफलत्वमुक्तम् । वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह अचेतनस्येति ।
अनुव्याख्यानम्
अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ॥
नीचस्य स्वात्मताज्ञानात्कुप्यति ब्रह्म लोकवत् ॥
तुष्ट्यभावाच्च न पुरुषार्थलाभस्ततः । क्वचिदित्यनेन यदचेतनं तदुपचिकीर्षालक्षणतुष्टिरहितमिति व्याप्तिं सूचयति । नीचस्य प्रतीकस्य स्वात्मताध्यानाद्ब्रह्म कुप्यति । ततश्चानर्थं प्रयच्छति । तत्र दृष्टान्तो लोकवदिति । यथा लोके शिलादिकं राजत्वादिना चिन्तितं न प्रसीदति नापि पुरुषार्थं प्रयच्छति । यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथेत्यर्थः । अनेन प्रतीकानामचेतनत्वेऽपि ब्रह्मैव सर्वाध्यक्षत्वाफलं दास्यतीति च प्रत्युक्तम् । तस्यानेनोपासनेन कुपितत्वात् ।
वाक्यार्थचन्द्रिका
हेत्वपव्याख्याननिरासस्य मूलारूढतासिध्यर्थमपेक्षितं पूरयन् भाष्यं योजयति प्रतीकानामिति । ध्यानस्य वास्तवोत्कर्षानापादकत्वादाह उत्कर्षस्य दृष्टत्वादिति । प्रतीकानां ब्रह्मत्वेन ध्यानापेक्षया ब्रह्मणः प्रतीकत्वेन ध्यानस्य भिन्नत्वे, तस्यानर्थसाधनत्वेऽपि प्रतीके ब्रह्मताध्यानस्यानर्थसाधनत्वाप्राप्तेस्तस्यैव ब्रह्मणो नीचताध्यानत्वमाह तदेवेति । अस्त्वेवमेकस्यैवार्थसाधनत्वमनर्थसाधनत्वं च । ततोऽपि किमित्यतस्तत्फलं तस्यापि च फलं दर्शयति समव्ययफलत्वादकार्यमेवेति । ‘असत्यानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षण’ इत्यभियुक्तोक्तेरिति भावः ।
प्रतीकानां ब्रह्मत्वोपासनस्य समव्ययफलत्वप्रतिपादनेन फलवत्त्वसमर्थनात्तदभावप्रतिपादनपरोत्तरग्रन्थस्य तद्विरोधमाशङ्क्य परिहरति अभ्युपगम्येदमिति । मूले प्रतीकानां ब्रह्मत्वध्यानस्य तुष्ठ्यसाधनत्वमात्रप्राप्तावपि पुरुषार्थासाधनत्वालाभात्साध्यमाह तुष्ट्यभावाच्चेति । अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्नेत्येतावता पूर्तेः किं क्वचिदित्यनेनेत्यतोऽचेतनत्वस्य तुष्ट्यभावसाधकत्वोपयोगिव्याप्त्युपदर्शकत्वान्न तस्यानर्थक्यमित्याह क्वचिदितीति ॥ तत्रेति । उभयविधव्याप्तावित्यर्थः ॥ ब्रह्मकुप्यतीति । यद्यपि नीचस्य स्वात्मताध्यानं न कोपजनकमपितु स्वात्मनो नीचताध्यानमेव तथाऽपि नीचस्य स्वात्मताध्यानस्यैव स्वात्मनो नीचताध्यानताया उक्तरीत्या सिद्धत्वात्तदभिप्रायेण ब्रह्म कुप्यतीत्युक्तमत एवात्र यथा राजा चण्डालत्वेन ध्यातः कुप्यतीति वक्ष्यमाणो दृष्टान्तोऽपि सङ्गच्छत इति ध्येयम् । अनेनेत्युक्तं हेतुमेव दर्शयति तस्येति ।
**परिमल **
तत इति । अचेतनस्य ब्रह्मत्वध्यानान्न पुरुषार्थलाभ इति पूर्वेणान्वयः ।
यादुपत्यम्
ब्रह्म कुप्यतीति । यद्यपि नीचस्य स्वात्मताध्यानं न कोपजनकं किन्तु स्वात्मनो नीचताध्यानमेव । तथाऽपि नीचस्य स्वात्मताध्यानं स्वात्मनो नीचताध्यानमपि भवतीति पूर्वमुक्तत्वात्तदभिप्रायेण ब्रह्म प्रकुप्यतीत्युक्तमिति ज्ञातव्यम् । अत एवात्र यथा राजा चण्डालत्वेन ध्यातः कुप्यतीति वक्ष्यमाणो दृष्टान्तोऽपि सङ्गच्छत इति ।
वाक्यार्थरत्नमाला
तस्यापि चेति । फलस्यापीत्यर्थः । अभियुक्तोक्तेरिति । नीतिशास्त्र इति शेषः । मोक्षवादे न्यायमकरन्द व्याख्यायांचित्सुखेन नीतिशास्त्रमुदाहरतीत्यवतारकारणादिति बोध्यम् । दुरन्तानि दुःखोत्तराणि । समे व्ययफले येषां तानि तथोक्तानि अशक्यानि साधकप्रयत्नासाध्यानि । शिष्टमुत्तरत्र टीकायां व्यक्तम् । फलवत्वसमर्थनादिति । प्राप्तमिति शेषः । स्वात्मताध्यानं न कोपेति । क्षत्तरि राजदृष्टेः राजकोपजनकत्वाभावादिति भावः ।