०१ द्वितीयतृतीयसूत्रव्याख्यानयोः परस्परविरुद्धत्वम्

नात्मेत्युपासना

॥ अथ ब्रह्मदृष्ट्यधिकरणान्यथाव्याख्याननिराकरणम् ॥

द्वितीयतृतीयसूत्रव्याख्यानयोः परस्परविरुद्धत्वम्

नात्मेत्युपासना

सुधा

इदानीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामपाकरोति नात्मेति ।

अनुव्याख्यानम्

…… ….. …… नात्मेत्युपासना ॥

इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ॥

नात्मेत्युपासनेत्येकदेशोत्कीर्तनेन ‘न प्रतीके न हि सः’ इति समग्रसूत्रार्थमनुवदति । प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या । न हि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदाऽत्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुध्यते । चशब्दोऽपव्याख्याननिराससमुच्चये ।

वाक्यार्थचन्द्रिका

कोऽसौ समग्रसूत्रार्थोपपादनानुवादकतैकदेशोत्कीर्तनेन नात्मेत्युपासनेति भाष्यस्योच्यत इत्यतस्तं दर्शयन्नेवैकवाक्यतया योजयति प्रतीकेष्विति । इति पक्षो यदेत्येतदनूद्य विवृणोति इतीति । ब्रह्मदृष्टिर्विरुध्यत इत्येतावता पूर्तेर्दृष्टिश्चेति चशब्दस्यानर्थक्यमित्याशङ्क्य न केवल पूर्वसूत्रापव्याख्यानमनुपपन्नं किं त्वेतत्सूत्रव्याख्यानमपीति पूर्वोत्तरसूत्रापव्याख्याननिराससमुच्चयार्थत्वान्नानर्थक्यमित्याशयेनाह चशब्द इति ।

**परिमल **

इतिपक्षो यदेत्यस्यार्थमाह इत्येवमिति । अत्रेति मूलानुवादः । प्रतीकेष्विति व्याख्या ॥ चशब्दोऽपव्याख्यानेत्यादि । न केवलं नात्मेत्यादिसूत्रार्थो न युक्तः । किन्त्वेतत्सूत्रार्थोपीति समुच्चय इत्यर्थः ।

श्रीनिवासतीर्थीया

पूर्वसूत्रेति । न प्रतीक इति सूत्रे इत्यर्थः । प्रतीकेषु आदित्यादिषु ।


स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता

स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता

सुधा

एतद्विवृणोति स इति ।

अनुव्याख्यानम्

स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥

प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुद्धता भवतीति । एतदुक्तं भवति । प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् । प्रतीकं ब्रह्मतया नोपास्यम् । अब्रह्मत्वात् । यद्यन्न भवति न तत्तत्त्वेनोपास्यमिति युक्तिविरुद्धत्वात् । न चेयं युक्तिरप्रमा । प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् । अन्यथानैकान्त्येन तत्रापि साधिका न स्यात् । न च ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पितत्वात् । पारमार्थिकभेदाभावस् तावदस्तीति चेत् । तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिद्धिः स्यादिति ।

वाक्यार्थचन्द्रिका

उक्तस्यैव पुनर्वचनात् ‘स ने’त्युत्तरभाष्यवैयर्थ्यमाशङ्क्य परिहरति एतद्विवृणोतीति । ननु युक्तिविरुद्धत्वकथनमात्रेणैव परकीयसूत्रव्याख्यानस्यापव्याख्यानत्वसिद्धेर्भाष्ये युक्तेः समत्वकथनमनर्थकमित्यतः प्रामाण्यासिद्धिपरिहारव्युत्पादनार्थत्वान्न तदिति भावेन युक्तिविरुद्धत्वोक्तिफलकथनपूर्वकं विरोधियुक्तिस्वरूपोपदर्शनपूर्वकं च वाक्यतात्पर्यमाह एतदुक्तं भवतीति । विव्याप्तौ दृष्टान्ताभावेन व्याप्यत्वासिद्धिमाशङ्क्य तदभावेऽपि सामान्यव्याप्तिसत्वान्न तदिति भावेन तामुपदर्शयति यद्यन्नेति ॥ अनैकान्त्येनेति । अत्राब्रह्मरूपस्यापि प्रतीकस्य ब्रह्मत्वेनोपास्यत्वेन प्रतीकेऽनैकान्त्यप्रसङ्गेनेत्यर्थः ॥ तत्रापीति । प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यतायामपीत्यर्थः ॥ अभेद इति । ततश्चाब्रह्मत्वहेतुरसिद्ध इति भावः । न तथाप्यनैकान्तिकपरिहार इत्यत आह प्रतीकानामिति । प्रतीकेषु विणाभावायत्तविशिष्टहेत्वभावप्राप्त्या हेत्वगमनान्नानैकान्तिकमिति भावः ।

**परिमल **

परमसाध्यं वदन्नेव युक्तिप्रकारं व्यञ्जयति एतदुक्तं भवतीति ॥ अप्रमेति । अप्रमाणमित्यर्थः ॥ अनैकान्त्येनेति । ब्रह्मप्रतीकयोरतादात्म्येऽपि ब्रह्मदृष्टेर्नामादावङ्गीकारादिति भावः । तत्रापि पूर्वसूत्रेपीत्यर्थः । हेतोरभावान्नानैकान्त्यमित्याशङ्क्य निराह न चेति ॥ असिद्धिरिति । तादात्म्याभावरूपहेतोरिति योज्यम् ।

श्रीनिवासतीर्थीया

ब्रह्मप्रतीकयोरिति । ब्रह्मादित्यादिप्रतीकयोरप्यभेदेन दृष्टेरकर्तव्यत्व इत्यर्थः । अन्यथेति । यद्यन्न भवति न तत्तत्त्वेनोपास्यमिति युक्तेरमानत्वाङ्गीकार इत्यर्थः ॥ तत्रापीति । प्रतीके जीवमतिं न बध्नीयादित्यत्रापीत्यर्थः । कुत इत्यत उक्तम् अनैकान्त्येनेति । ब्रह्मानात्मकेऽप्यादित्यादिप्रतीके ब्रह्मत्वेन दृष्ट्यङ्गीकारेण न हि स इत्युक्तयुक्तेर्व्यभिचारप्रसङ्गादित्यर्थः । ननु स नेति युक्तिः समेत्युक्तमयुक्तम् । ब्रह्मप्रतीकयोरभेदाङ्गीकारादित्याशङ्क्य निराकरोति न च ब्रह्मप्रतीकयोरभेद इति । कुतो नेत्यतो विरुद्धधर्माधिकरणत्वादित्याह ब्रह्मणः सत्त्वादिति । सत्यत्वादित्यर्थः । सः पारमार्थिकभेदः ॥ असिद्धिरिति ॥ प्रतीकं जीवत्वेन नोपास्यमतत्त्वात् तादात्म्याभावादिति यावदित्येवं ‘न हि स’ इत्यनेनोक्तहेतोरसिद्धिः स्यात् । पारमार्थिकभेदाभावरूपतादात्म्यस्यैव सत्त्वादित्यर्थः ।

वाक्यार्थरत्नमाला

अनैकांत्येनेतीति प्रतीकोपादानम् । प्रसङ्गपदं लेखकप्रसादात् । अनैकान्त्यपरिहार इति नानेकान्त्यमितीति च पाठः ।