एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत्
द्वितीयसूत्रव्याख्यानप्रत्याख्यानम्
एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत्
सुधा
एवं प्रथमसूत्रस्यापव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति एतस्मादिति ।
अनुव्याख्यानम्
एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥
एतस्मादुक्तन्यायादात्मेति सूत्रगतोऽयमात्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकस्तावद्भवेत् । ततः किमित्यत आह प्रतीकेति ।
अनुव्याख्यानम्
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ॥
तत तस्मात्पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वान्न प्रतीक इति प्रतिज्ञावाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः । इदमुक्तं भवति । न प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् । अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् । पूर्वसूत्रे चात्मशब्दो विष्णुविषय इति समर्थितम् । तथा च प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः । न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागोऽप्रकृतस्वीकारश्च प्रसज्येयातामिति ।
वाक्यार्थचन्द्रिका
प्रत्याख्यातीति । प्रत्याख्यातुं तदुपयुक्ततया पूर्वोक्तमनुवदतीत्यर्थः । अत एव ततः किमितीति शङ्काग्रन्थः, उक्तस्य प्रमेयस्य प्रत्याख्यानोपयुक्ततासूचकस्तावच्छब्दश्चेति ध्येयम् । शक्त्या प्रतिपादकत्वरूपाया अभिधायाः शब्दधर्मत्वेन शब्दमात्रत्वानुपपत्तेराह परमात्मन एवाभिधायक इति । ततश्च मूलेऽभिधाशब्दोऽभिधावत्पर इति भावः । तदिति मौलपदस्य व्याख्यानं तस्मादिति । तस्यैव विवरणं पूर्वसूत्रेत्यादि । अपव्याख्याननिरासस्य भाष्यारूढतासिध्यर्थं प्रतिज्ञावाक्यस्येत्याद्यपेक्षिताध्याहारप्रदर्शनपूर्वकं भाष्यं व्याचष्टे न प्रतीक इतीति । ननु न पूर्वसूत्रस्थस्यात्मशब्दस्य विष्णुविषयत्वमात्रेणात्रोक्तरीत्या प्रतिज्ञार्थसिद्धिः । निमित्तनैमित्तिकभावाप्रतिभासनात् । न च तत्सूत्रस्थात्मशब्दानुवृत्तिबलात्तत्सिद्धिरित्यभिप्रायः । तदनुवृत्तेर्निर्मूलत्वादित्यतस्तदनुवृत्तौ निमित्तकथनेन हेतुहेतुमद्भावं दर्शयन्नेव ततोऽपि किमपव्याख्यानस्य दूषणमुक्तं भवतीत्यतः फलितं दोषं दर्शयन्नेवाभिप्रायमाह इदमुक्तं भवतीति ॥ प्रकृतेति । आत्मशब्दार्थतया पूर्वसूत्रे प्रकृतस्य विष्णोः परित्यागात्तदर्थतयारऽप्रकृतजीवपरत्वाङ्गीकाराच्चेति भावः ।
***परिमल ***
उक्तन्यायादिति । ‘आत्मशब्दं यतो हेतुमि’त्यादिनोक्तन्यायादित्यर्थः । एतावता परकीयसूत्रार्थे किं दूषणमुक्तमित्यत आह इदमुक्तं भवतीति ।
श्रीनिवासतीर्थीया
पूर्वसूत्रेति । आत्मेति त्विति सूत्र इत्यर्थः ॥ विष्णुदृष्टेरेवेति । तथा च प्रतीके आत्मा न, प्रतीकविषये आत्मशब्दोदितविष्णुदृष्टिर्न कर्तव्येत्यर्थः ॥ न प्रतीकेष्विति । तथा च आत्मशब्दस्य जीववाचित्वमङ्गीकृत्य ‘प्रतीके आत्मा न’ प्रतीकविषये जीवमति न बध्नीयादिति न प्रतीकक इति प्रतिज्ञाभागव्याख्यानकरण इत्यर्थः ॥ प्रकृतेति । आत्मेति त्विति पूर्वसूत्रे आत्मशब्देन प्रकृतविष्णुपरित्यागोऽप्रकृतजीवस्वीकारश्चेत्यर्थः ।
वाक्यार्थरत्नमाला
परमात्मन एवाभिधायक इतीति प्रतीकोपदानम् । परमात्माभिधायक इति पाठेऽपि अर्थानुवादोयमिति ज्ञेयम् ।
प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना
प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना
सुधा
मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थितत्वेनेत्युक्तम् । तदपि नोत्सूत्र(त्रित)म् । किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते । तत्राद्यं विषयसप्तम्यन्तं नेत्यनेन सम्बध्यते । द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् । उभयत्रात्मेतीति पदद्वयं पूर्वसूत्रादनुवर्तत इत्याशयवान्प्रसङ्गाद् द्वितीयं व्याख्याति प्रतीक इति ।
अनुव्याख्यानम्
प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥
यस्मात्प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत्तस्मादिति श्रुत्यर्थ इति शेषः ।
हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दिकानां प्रसिद्धमिति द्योतयति ।
वाक्यार्थचन्द्रिका
ननु प्रतीकविषयत्वेनेति पूर्ववाक्येनैवापव्याख्याननिराससिद्धेरुत्तरभाष्यखण्डवैयर्थ्यम् । न च मनोब्रह्मेत्यादिश्रुतिव्याख्यानार्थत्वादस्य न तदिति वाच्यम् । तासां पूर्वमेव व्याख्यातत्वेनास्य तादर्थ्यायोगादित्यतः पूर्वमुक्तस्य श्रुत्यर्थस्य सूत्रारूढत्वोपदर्शनेनोत्सूत्रितत्वशङ्कापरिहारार्थत्वान्न तदानर्थक्यमिति भावेन तत्परतयोत्तरार्धं सङ्गमयितुमाह मनो ब्रह्मेत्यादीति । नन्वपव्याख्याननिरासेन न प्रतीक इत्यस्य चरितार्थत्वान्न प्रतीके विष्णुरित्यस्य श्रुत्यर्थतया सूत्राल्लाभ इत्याशयेन पृच्छति किन्त्विति । उत्तरमाह प्रतीक इतीति ॥ द्वितीयमिति । अधिकरणसप्तम्यन्तपदोपेतवाक्यमित्यर्थः ॥ उभयत्रेति । विषयसप्तम्यन्तेऽधिकरणसप्तम्यन्ते च प्रतीकपद इत्यर्थः । अपव्याख्याननिराकरणावसरे स्वाभिमतश्रुत्यर्थस्य सूत्रारूढताकथनस्यासङ्गततामाशङ्क्याह प्रसङ्गादिति । तस्मादित्यस्य यस्मादित्येतत्सापेक्षत्वात्प्रतीकविषयत्वेनेति पूर्ववाक्योक्तमर्थमेव हेतुतया योजयति यस्मादिति । अस्य भाष्यस्य श्रुत्यर्थताया मूलारूढतासिध्यर्थमपेक्षितं पूरयति इति श्रुत्यर्थ इति इति । प्रथमादीत्यादिपदेन द्वितीयापरिग्रहः ॥ शाब्दिकानामिति । व्यत्ययो बहुलमिति सप्तसु प्रथमा षट्सु द्वितीयेत्यादिलक्षणशास्त्ररहस्यज्ञानिनामित्यर्थः ।
***परिमल ***
परमते दोषोक्तिप्रस्तावे सिद्धान्तसूत्रार्थोक्तिरसङ्गतेत्यत आह मनो ब्रह्मेति । यद्वा भवदर्थोऽप्यप्रकृतस्वीकाररूप एव सूत्रेऽप्रतीतेरित्यत आह मनो ब्रह्मेत्यादीति ॥ प्रसङ्गादिति । सूत्रार्थदूषणभूषणप्रसङ्गादिति । यद्वा स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गादित्यर्थः ॥ शाब्दिकानामिति । सप्तसु प्रथमेति पठतामित्यर्थः । तथाच श्रुतौ नामि्न ब्रह्मेत्यादियोजनेति भावः ।
यादुपत्यं
नन्वपव्याख्याननिराकरणसमये न स्वाभिप्रेतसूत्रव्याख्यानं सङ्गतमत आह प्रसङ्गादिति ॥ शाब्दिकानामिति । सप्तसु प्रथमा षट्सु द्वितीयेत्येवं वदतामिति शेषः ।
श्रीनिवासतीर्थीया
आवर्तत इति । न प्रतीक इति सूत्रे प्रतीक इति पदमावर्तनीयमित्यर्थः ॥ नेत्यनेनेति । प्रतीकविषये विष्णुदृष्टिर्न कर्तव्येति तदर्थः । द्वितीयम् आवर्तितं प्रतीक इति पदम् । श्रुतीति । मनो ब्रह्मेत्यादि श्रुतीत्यर्थः । उभयत्रेति । प्रतीक इत्यस्य विषयसप्तम्यन्तत्वपक्षेऽधिकरणसप्तम्यन्तत्वपक्षे चेत्यर्थः । द्वितीयम् अधिकरणसप्तम्यन्तं प्रतीक इति पदम् । तस्मादित्यर्थतया आद्यव्याख्यानमनुवदति यस्मात्प्रतीकेति ।
वाक्यार्थरत्नमाला
इत्यादिलक्षणशास्त्ररहस्येति पाठः ।