व्यावहारिकभेदश्चेत्
जीवब्रह्मभेदस्य भ्रान्तिसिद्धत्वोक्तिनिरासः
व्यावहारिकभेदश्चेत्
सुधा
न कोऽप्ययं विरोधोऽस्ति । परमार्थतो जीवेशयोरेकत्वेऽपि हि व्यावहारिकभेदोऽस्ति तदपेक्षया तानि सूत्राणि । इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते व्यावहारिकेति ।
अनुव्याख्यानम्
व्यावहारिकभेदश्चेत् ….. ……
अत्र व्यावहारिकशब्देन भ्रान्तिसिद्धोऽभिप्रेयते । प्राक् प्रबोधादित्युक्तानुवादत्वात् । जीवेश्वरभेदो भ्रान्तिसिद्ध इति वदन्प्रष्टव्यः । किमयमेव भेदो भ्रान्तिसिद्धः किं वा भेदमात्रमिति । नाद्यः । अपसिद्धान्तात् । द्वितीये दोषमाह क्केति ।
अनुव्याख्यानम्
……. …….. क्कासावव्यावहारिकः ॥
भ्रान्तेरभ्रान्तिपूर्वकत्वात् । जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वे क्वचित्सत्यो भेदोऽङ्गीकर्तव्यः । क्कासौ न क्वापि । कुत्रापि भेदस्य सत्यत्वानङ्गीकारे जीवेशभेदारोपोऽपि न सम्भवतीति भावः ।
वाक्यार्थचन्द्रिका
ननु व्यावहारिकेत्युत्तरवाक्यमनर्थकम् । न चैतदुदाहृतभेदसूत्राणां विषयकथनेन भिन्नविषयत्वोपपादकतया तत्सूत्रविरोधपरिहारार्थत्वान्न तदिति वाच्यम् । भेदसूत्रविषयोपदर्शनेऽप्यात्मेति त्वित्यभेदसूत्रविषयानुपदर्शनेन भिन्नविषयत्वासिद्ध्याऽस्योदाहृतसूत्रविरोधपरिहारायापर्याप्तत्वादित्यतोऽत्र भेदव्यावहारिकत्वकथनेनाभेदपारमार्थिकत्वस्य सूचितत्वेन भेदाभेदसूत्रयोर्भिन्नविषयत्वसिद्धिसम्भवाद्युक्तमस्य तद्विरोधपरिहारकत्वमित्यभिप्रेत्य शङ्काग्रन्थतात्पर्यमाह न कोऽपीति । विरोधितयोदाहृतसूत्रेषु न केनापि विरोध इत्यर्थः । व्यावहारिकशब्दस्य भ्रान्तिसिद्धपरत्वे उपष्टम्भकमाह प्राक् प्रबोधादित्युक्तानुवादत्वादिति । व्यावहारिकभेदश्चेदित्यस्याः शङ्काया इति शेषः । तत्र प्रबोधात्प्राक्पदस्य भ्रान्तिदशापरत्वेन भेदस्य भ्रान्तिसिद्धत्वावभासादिति भावः । ननु जीवेश्वरभेदस्य भ्रान्तिसिद्धत्वेऽपि भेदमात्रस्य तदनभ्युपगमादभ्रान्तिपूर्वकभेदारोपसम्भवात्तदसम्भवपरक्कासावित्युत्तरग्रन्थासङ्गतिरित्यतो नेदं जीवेश्वरभेदमात्रस्य भ्रान्तिसिद्धत्वे दूषणं किन्तु भेदमात्रस्य तथात्व एवेत्यतो नानुपपत्तिरित्यभिप्रेत्य तत्पक्षदूषणपरतयोत्तरग्रन्थं योजयितुं सम्भावितविकल्पद्वयप्रदर्शनपूर्वकमाद्यं पक्षं बहिरेव दूषयति जीवेश्वरभेद इत्यादि ॥ अपसिद्धान्तादिति । भेदमात्रस्य भ्रान्तिसिद्धतायास्तत्सिद्धान्तत्वेन जीवेश्वरभेदस्यैव तत्सिद्धत्ववर्णनस्य सिद्धान्तविरुद्धत्वादिति भावः ॥ अभ्रान्तीति । आरोप्यसदृशप्रधानप्रमितिपूर्वकत्वादित्यर्थः ॥ अङ्गीकर्तव्य इति । तस्य भ्रान्तिहेतुभूतप्रधानप्रमित्युपपादकत्वादिति भावः ॥ न क्वापीति । भेदमात्रस्य भ्रान्तिसिद्धत्वाभ्युपगमादिति भावः । किमनेनोक्तं भवतीत्यतस्तात्पर्यमाह कुत्रापीति ।
***परिमल ***
मूलमवतारयति न कोपीति ॥ तानीति । त्रिपाद्यामुक्तानि । इदं त्विति । आत्मेतीति सूत्रमित्यर्थः । व्यावहारिकशब्देन व्यवहारसिद्धत्वोक्तौ सत्यत्वप्राप्त्याऽग्रेतनमूलघटनाऽयोगादाह अत्र व्यावहारिकशब्देनेति । कथमेवमभिप्रायो ज्ञायते इत्यत आह प्राक्प्रबोधादिति । परभाष्ये सिद्धान्ते जीवशयोरेकत्वे संसार्यभावं प्रत्यक्षविरोधं च पूर्वपक्ष्युक्तमनूद्य प्रबोधात्प्राक्संसारिसत्वाभ्युपगमादित्युक्या भ्रान्तिसिद्ध इत्यवगम्यते । तदनुवादत्वान्मूलस्येत्यर्थः ।
यादुपत्यम्
अत्र व्यावहारिकशब्दो न व्यवहारनिर्वाहहेतुत्वरूपार्थक्रियाकारित्वपरो विवक्षितः, वक्ष्यमाणदूषणानुपपत्तेः । नापि बाध्यत्वपरः, ‘तस्यापि बाध्यता चेत्स्यादि’ति ग्रन्थपर्यालोचनया बाध्यत्वस्य व्यावहारिकत्वादन्यत्वेनावगमात् । अत आह अत्र व्यावहारिकशब्देनेति ॥ प्राक् प्रबोधादित्युक्तत्वादिति । परेण ह्यत्र सिद्दान्तग्रन्थे, यदप्युक्तमधिकार्यभावः प्रत्यक्षादिविरोधश्चेति पूर्वपक्ष्युक्तमनूद्य तदप्यसत् । प्राक् प्रबोधात्संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्येत्याद्युक्तम् । अत्र प्रबोधात्प्रागित्युक्त्या भ्रान्तिदशायामित्यर्थलाभे भ्रान्तिसिद्धो भेद इत्यभिप्रेतमिति ज्ञायते । तदनुवादरूपं मूलवाक्यमित्यर्थः ॥ अभ्रान्तीति । आरोप्यसदृशप्रधानप्रमितिपूर्वकत्वादित्यर्थः ।
श्रीनिवासतीर्थीया
इदं त्विति । आत्मेति सूत्रमित्यर्थः । अयमेव जीवेश्वरभेद एव ।
वाक्यार्थरत्नमाला
परिहारार्थत्वादिति । परिहारङ्कनार्थत्वादित्यर्थः । आत्मेत्वित्यभेदेति पाठः ।