०६ जीवब्रह्मैक्यस्य सूत्रकृदभिमतत्वे बाधकोक्तिः

यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते

जीवब्रह्मैक्यस्य सूत्रकृदभिमतत्वे बाधकोक्तिः

यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते

सुधा

इदानीं वाक्यार्थं दूषयति यदीति ।

अनुव्याख्यानम्

यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ॥

आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥

मन्यते (अत्र) तत्र सूत्रे तदा तस्माज् जीवादात्मशब्दं कथं निवारयति । कुत्र निवारितवानित्यत उक्तं युक्तित इति । जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् ।

इदमुक्तं भवति । आत्मशब्दश्रवणाद् द्युम्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवारणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते । नायं पुरुषो विषाणित्वादिति यथा । न हि तत्रस्थेन तन्निरासो युज्यते । नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् । प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता । अन्यथा तेन तत्साधनानुपपत्तेः । तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् । तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति न च व्याहतं सूत्रकारो भाषत इति युक्तम् । तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति ।

उपलक्षणं चैतत् । द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् ।

वाक्यार्थचन्द्रिका

युक्तित्वेनोक्तत्वादितीति । अनेन मूले युक्तिशब्दो युक्तित्वेनोक्तिपर इत्युक्तं भवति । ननु जीवनिवारणे आत्मशब्दस्य युक्तित्वेन सूत्रकारस्य उक्तिरेवासिद्धेति न तया आत्मशब्दस्य जीवान्निवारणसिद्धिः । जीवनिवारणे युक्तित्वेन तदुक्तिसिद्धावपि जीवसाधारणस्यापि तस्य तन्निवारणे हेतुत्वेनोक्तिसम्भवान्न तस्य जीवान्निवारणसिद्धिः । अस्तु वा तस्य तत्सिद्धिस्तथापि न तेनैक्यानभ्युपगमः शक्य उपपादयितुमप्रयोजकत्वात् । न चैक्याभ्युपगन्तुः स्वव्याहत्युपपादनार्थत्वेन तत्साधकत्वाभावान्नाप्रयोजकत्वं जीवान्निवारणसिद्धावपि परमेश्वरे वृत्त्यभ्युपगमे नियामकाभावेन तदसिद्ध्या स्वव्याहत्यप्रसङ्गात् । तत्प्रसङ्गेऽपि वा नानिष्टं पश्यामः । इत्येताः शङ्काः क्रमेण परिहरन्नेव तात्पर्यमाह इदमुक्तं भवतीति ॥ प्रथमेति । द्युभ्वाद्यायतनं स्वशब्दादिति तदधिकरणप्रथमसूत्र इत्यर्थः । एवमात्मशब्दस्य जीवेऽवृत्तिं परमेश्वरे वृत्तिं चोपपाद्यैक्याभ्युपगमे सूत्रकारस्य स्वव्याहतिमुपपादयति तत्रेति ॥ प्रतिज्ञाद्वयं चेति । यदि जीवेश्वरैक्यं सूत्रकारस्य मतं स्यात्तदा परमेश्वरस्य द्युभ्वाद्याश्रयत्वप्रतिज्ञाने तदभिन्नजीवस्यापि तत्प्रतिज्ञालाभान्न जीवा द्युभ्वाद्यायतनमिति प्रतिज्ञा स्वव्याहता स्यात् । एवं न जीवो द्युभ्वाद्याश्रय इति प्रतिज्ञयैव तदभिन्नेश्वरस्य द्युभ्वाद्याश्रयत्वाभावलाभात् पुनस्तस्य तदाश्रयत्वप्रतिज्ञा सूत्रकारस्य स्वव्याहता स्यात् । इति प्रतिज्ञाद्वयं परस्परं व्याहतमित्यर्थः ।

यादुपत्यं

ननु सूत्रकृज्जीवेशयोरैक्यं न मन्यत इत्यत्र नात्मशब्दस्य जीवान्निवारणं हेतुरप्रयोजकत्वादित्यतोऽस्य वाक्यस्य व्याहतौ तात्पर्यमित्यभिप्रेत्य तामुपपादयितुमाह प्रथमसूत्रे चेत्यादिना ।

श्रीनिवासतीर्थीया

नायं पुरुषो विषाणित्वादिति । अयं गौः । अनेन विषाणित्वं पुरुषान्निवारितवानिति गम्यते । कुत इत्यत आह न हि तत्रस्थेनेति । तत्रस्थेनापि धर्मेण तन्निरासाङ्गीकारे गवि विद्यमानेन विषाणित्वेनापि गौर्नेति निषेधप्रसङ्गादित्याह नायं गौरिति । अयं गोत्वेन दृश्यमान; । प्रथमसूत्रे द्युभ्वाद्यायतनमिति सूत्रे ॥ अत्र यदीति । आत्मेति त्विति सूत्र इत्यर्थः ॥ प्रतिज्ञाद्वयं चेति । जीवेश्वरैक्ये परमेश्वरस्य द्युभ्वाद्यायतनत्वे जीवस्यैव द्युभ्वाद्यायतनत्वप्राप्तेर्न जीवो द्युभ्वाद्यायतनमित्युक्ते व्याहतिरिति भावः ।

वाक्यार्थरत्नमाला

जीवान्निवारणेति पाठः । जीवेऽवृत्तिमिति । जीवे वृत्यभावमित्यर्थः ।