नात्मेतिसूत्रमीशस्य जीवत्वप्रतिपादकम्
प्रथमसूत्रव्याख्याननिराकरणम्
नात्मेतिसूत्रमीशस्य जीवत्वप्रतिपादकम्
सुधा
तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति ।
अनुव्याख्यानम्
नात्मेतिसूत्रमीशस्य जीवत्वप्रतिपादकम् ॥
अत्र प्रतिपत्तिर्नाम प्रमितिरेव परस्याभिमता । प्रतीकदर्शनमित्याशङ्क्य निराकरणात् । अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः ।
वाक्यार्थचन्द्रिका
नन्वस्य सूत्रस्य परेणेशस्य आत्मेति प्रतिपत्तव्यत्वप्रतिपादकतया व्याख्यातत्वेऽप्यात्मत्वप्रतिपादकतयाऽव्याख्यातत्वात् । नात्मेति सूत्रमीशस्य जीवत्वेन प्रतिपत्तव्यत्वप्रतिपादकमित्यनुवादोऽत्रोचितः । तत्कथं जीवत्वप्रतिपादकमित्यन्यथानुवाद इत्यत आह अत्रेति । प्रतिपत्तिशब्दस्योपासनामात्रपरत्वसम्भवे किं प्रमितिपरत्वकल्पनेनेत्यत आह प्रतीकदर्शनमित्याशङ्क्येति । पूर्वपक्षिणाऽपहतपाप्मत्वानपहतपाप्मत्वलक्षणविरुद्धधर्मवत्त्वादीश्वरशरीरयोर्भिन्नत्वनिश्चयात् । नेश्वरस्याहमिति ग्राह्यत्कमिति स्वप्रतिज्ञातार्थे तर्हि तत्त्वमसीत्याद्यभेदोपदेशानुपपत्तिरिति बाधकमुद्भाव्य प्रतिमादिषु विष्ण्वादिदर्शनमिवान्यत्वेऽपि जीवेश्वरयोस्तादात्म्यदर्शनं कर्तव्यमित्येवंपरत्वात्तत्त्वमस्यादिवाक्यस्य न विरोधित्वमित्याशङ्कितं पक्षं, यदुक्तं प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति सिद्धान्तेऽनूद्य तथा सति तत्त्वमसीत्यादिसामानाधिकरण्यस्य गौणत्वप्रसङ्गः । तत्प्रतिपाद्यमुख्याभेदस्याभावात्प्रतीकदर्शनविधायकवाक्ये वैरूप्यप्रसङ्गश्च । यत्र हि प्रतीकदृष्टिरभिधीयते सकृदेव तत्र वचनं भवति । यथा ‘मनो ब्रह्म’ ‘आदित्यो ब्रह्मे’त्यादि । इह पुनः‘त्वमहमस्म्यहं च त्वमसी’त्याह । अतः प्रतीकश्रुतिवैरूप्यादभेदप्रतिपत्तिः । ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मी’ति भेददर्शनस्यापवादाच्चेति गौणत्वप्रसङ्गादिहेतुभिस्तन्निराकरणादित्यर्थः । अस्तु प्रतिपत्तिशब्दस्य प्रमितिपरत्वविवक्षा परस्य, किं तावताऽपीत्यत आह अत इति । प्रतिपत्तिशब्दस्य प्रमितिपरतया आत्मेति प्रतिपत्तव्यत्वविधानस्य तथाप्रमितिपरत्वापत्त्या तद्विधानस्य च तद्विषयसत्वाविधानेऽनुपपन्नतया तत्रैव पर्यवसन्नत्वेनेश्वरस्य जीवत्व एव पर्यवसन्नत्वान्नानुक्तोपालम्भोयमिति भावः।
***परिमल ***
ननु पूर्वसूत्रार्थानुवादवेलायाम् आत्मेत्येवेश्वरः प्रतिपत्तव्य इत्युक्त्या तथादृष्टिमात्रमेव न त्वीशस्य जीवत्वं वास्तवमिति ईशस्य जीवत्वेन दृष्टिमात्रप्रतिपादकं सूत्रमिति भाति । इह तूच्यते ईश्वरस्य(वास्तव)जीवत्वप्रतिपादकमिति तत्कथमित्यत आह अत्र प्रतिपत्तिरिति । प्रतिपत्तव्यपदोक्तेत्यर्थः । अभिमतेति कथं ज्ञायत इत्यत आह प्रतीकेति । परभाष्ये विरुद्धगुणयोर्जीवेशयोरभेदो न युक्त इत्युक्त्वा तर्ह्यभेदोपदेशपरवाक्यानां का गतिरिति शङ्कित्वा ब्रह्मतादात्म्येन नामादिप्रतीकदर्शनं कार्यमित्येतत्परोऽयमभेदोपदेश इति पूर्वपक्षयित्वा तथात्वेऽभेदोपदेशस्य गौणत्वप्रसङ्गादित्यादिना निराकृतम् । तेन ज्ञायते प्रतीकदृष्टिनिरासादीश्वर एव जीवत्वप्रतिपत्तिः प्रमितिरभिमतेति । तथाच जीवशयोरभेदो यथार्थ एव प्राप्तः न तथा दृष्टिमात्रमिति प्रतिपत्तव्यत्वप्रतिपादकमिति जीवत्वप्रतिपादकमिति च एव एवार्थस्सम्पन्न इत्यर्थः ।
यादुपत्यं
नन्विदं सूत्रं परेणेशस्यात्मेतिप्रतिपत्तव्यत्वप्रतिपादकमिति व्याख्यातं न त्वीशस्यात्मत्वप्रतिपादकमिति अतोऽनुक्तोपालम्भोऽयमित्यत आह अत्र प्रतिपत्तिर्नामेति ॥ प्रतीकदर्शनमाशङ्क्येत्यादि । अत्राशङ्क्येत्यस्यानूद्येत्यर्थः । ततश्चायमर्थः । परेण हि स्वभाष्ये पूर्वपक्षग्रन्थेऽपहतपाप्मत्वादिगुणक ईश्वरस्तद्विपरीतगुणकश्च शारीरोऽतस्तयोर्विरुद्धधर्मवत्त्वेन भेदनिश्चयान्नेश्वरोऽहमिति ग्राह्य इत्युक्त्वा, न चैवं तत्त्वमसीत्याद्यभेदोपेदशानुपपत्तिः । प्रतिमादिषु विष्ण्वादिदर्शनमिवाऽन्यत्वेऽपि तादात्म्यदर्शनं कर्तव्यमित्येवंपरत्वात्तेषामिति यदुक्तं, तत्सिद्धान्तग्रन्थे, यदुक्तं प्रतीकदर्शनमिति विष्णुप्रतिमान्यायेन भविष्यतीत्यनूद्य । तदयुक्तं जीवेश्वरयोर्भेदे तत्त्वमसीत्यादिसामानाधिकरण्यस्य गौणत्वप्रसङ्गात् । प्रतीकदर्शनविधायकवाक्यवैरूप्याच्च । यत्र हि प्रतीकदृष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति । यथा मनो ब्रह्मादित्यो ब्रह्मेत्यादि । इह च त्वमहमस्म्यहं च त्वमसीति चासकृदाह । अतः प्रतीकदृष्टिश्रुतिवैरूप्यादभेदप्रतिपत्तिः । भेददृष्ट्यपवादाच्च । तथा ह्याह । ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेदे’त्यादिना निराकृतमिति । तथा चाभावनिराकरणपूर्वकं भावप्रतिपत्तिविधाने तत्प्रमितिविधानमेव लभ्यते । प्रमितिविधानं च तद्विषयसत्वविधान एव पर्यवसितमतो नानुक्तोपालम्भोऽयमिति भावः ।
श्रीनिवासतीर्थीया
प्रतिपत्तव्यत्वस्य प्रमितिविषयत्वस्य ॥ जीवत्वस्येति । प्रामाण्यस्यार्थसत्ताघटितत्वादिति भावः ।
वाक्यार्थरत्नमाला
अनुवाद उचित इति । अनूद्य निषेध उचित इत्यर्थः । अस्य निषेधपरत्वेप्यनुवादप्राधान्यविवक्षया तथोक्तिरिति ज्ञेयम् । भामत्यानन्दगिरिभाष्यानुसारेणार्थमाह । पूर्वपक्षिणेत्यादिना निराकरणादित्यर्थ इत्यन्तेन । प्रतीकदर्शनविधायकवाक्यवैरूप्यायोगप्रसङ्गश्चेति पाठः । वैरूपप्रसङ्गश्चेति लेखकागतम् । वाक्यरूपेति पाठः । वैरूप्यसद्भाव्यं दर्शयंस्तदन्यथानुपपत्याऽभेदप्रतीतिः स्वीकार्येत्याह । यत्र हीत्यादि । गौणत्वप्रसङ्गादीति ।
आदिपदेन वैरूप्याप्ययोगप्रसङ्गभेददर्शनापवादयोः परिग्रहः ।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत्
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत्
सुधा
कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति आत्मशब्दमिति ।
अनुव्याख्यानम्
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ॥
स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥
स्वशब्दादेव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयद्यतस्तस्मा दात्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना ।
वाक्यार्थचन्द्रिका
स्वशब्दादेवेति । प्राणभृच्चैवेत्यत्रत्यस्यैवशब्दस्य विरुद्धार्थतया यथाश्रुतसम्बन्धासम्भवात्स्वशब्दादित्यनेन सम्बन्ध इति भावः । इत्येवेत्येवशब्दो भिन्नक्रमत्वान्नानर्थक इति भावेनाह वेदराडेवेति ॥ इति योजनेति । यत इत्यादेर्यदीत्यादिना सन्निधानेऽप्ययोग्यत्वाद्योग्यतया व्यवहितेनाप्यात्मशब्दोदित इत्युत्तरग्रन्थेनैवान्वय इति भावः ।
***परिमल ***
एवकारद्वयस्याप्यन्वयं दर्शयन्योजनामाह स्वशब्दादेवेति ।